संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ९०

विष्णुस्मृतिः - अध्यायः ९०

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरसा युक्तायां चूर्णितलवणस्य सुवर्णनाभं प्रस्थं एकं चन्द्रोदये ब्राह्मणाय प्रदापयेत् ॥९०.१॥

अनेन कर्मणा रूपसौभाग्यवानभिजायते ॥९०.२॥

पौषी चेत्पुष्ययुक्ता स्यात्, तस्यां गौरसर्षपकल्कोद्वर्तितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधिभिः सर्वगन्धैः सर्वबीजैश्च स्नातो घृतेन भगवन्तं वासुदेवं स्नापयित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिरभ्यर्च्य वैष्णवैः शाक्रैर्बार्हस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन ब्राह्मणान्स्वस्ति वाचयेत् ॥९०.३॥

वासोयुगं कर्त्रे दद्यात् ॥९०.४॥

अनेन कर्मणा पुष्यते ॥९०.५॥

माघी मघायुता चेत्, तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति ॥९०.६॥

फाल्गुनी फल्गुनीयुता चेत्, तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनोज्ञां रूपवतीं द्रविणवतीं चाप्नोति ॥९०.७॥

नार्यपि भर्तारं ॥९०.८॥

चैत्री चित्रायुता चेत्, तस्यां चित्रवस्त्रप्रदानेन सौभाग्यं आप्नोति ॥९०.९॥

वैशाखी विशाखायुता चेत्, तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः संतर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति ॥९०.१०॥

ज्यैष्ठी ज्येष्ठायुता चेत्स्यात्, तस्यां छत्रोपानहप्रदानेन गवाधिपत्यं प्राप्नोति ॥९०.११॥

आषाढ्यां आषाढायुक्तायां अन्नपानदानेन तदेवाक्षय्यं आप्नोति ॥९०.१२॥

श्रावण्यां श्रवणयुक्तायां जलधेनुं सान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गं आप्नोति ॥९०.१३॥

प्रौष्ठपद्यां प्रोष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति ॥९०.१४॥

आश्वयुज्यां अश्विनीगते चन्द्रमसि घृतपूर्णं भाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर्भवति ॥९०.१५॥

कार्त्तिकी कृत्तिकायुता चेत्स्यात्, तस्यां सितं उक्षाणं अन्यवर्णं वा शशाङ्कोद्ये सर्वसस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय दत्त्वा कान्तारभयं न पश्यति ॥९०.१६॥

वैशाखशुक्लतृतीयायां उपोषितोऽक्षतैः श्रीवासुदेवं अभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतो भवति ॥९०.१७॥

यच्च तस्मिन्नहनि प्रयच्छति तदक्षय्यतां आप्नोति ॥९०.१८॥

पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस्तिलैः स्नातस्तिलोककं दत्त्वा तिलैर्वासुदेवं अभ्यर्च्य तानेव हुत्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतो भवति ॥९०.१९॥

माघ्यां समतीतायां कृष्णद्वादश्यां सोपवासः श्रवणं प्राप्य श्रीवासुदेवाग्रतो महावर्तिद्वयेन दीपद्वयं दद्यात् ॥९०.२०॥

दक्षिणपार्श्वे महारजनरक्तेन समग्रेण वाससा घृततुलां अष्टाधिकां दत्त्वा ॥९०.२१॥

वामपार्श्वे तिलतैलयुतां साष्टां दत्त्वा श्वेतेन समग्रेण वाससा ॥९०.२२॥

एतत्कृत्वा यस्मिन्राष्ट्रेऽभिजायते यस्मिन्देशे यस्मिन्कुले तत्रोज्ज्वलो भवति ॥९०.२३॥

आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदायाश्विनौ प्रीणयित्वा रूपभाग्भवति ॥९०.२४॥

तस्मिन्नेव मासि प्रत्यहं गोरसैर्ब्राह्मणान्भोजयित्वा राज्यभाग्भवति ॥९०.२५॥

प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं पायसं रेवतीप्रीत्यै परमान्नं ब्राह्मणान्भोजयित्वा रेवतीं प्रीणयित्वा रूपस्य भागी भवति ॥९०.२६॥

माघे मास्यग्निं प्रत्यहं तिलैर्हुत्वा सघृतं कुल्माषं ब्राह्मणान्भोजयित्वा दीप्ताग्निर्भवति ॥९०.२७॥

सर्वां चतुर्दशीं नदीजले स्नात्वा धर्मराजानं पूजयित्वा सर्वपापेभ्यः पूतो भवति ॥९०.२८॥

यदीच्छेद्विपुलान्भोगांश्चन्द्रसूर्यग्रहोपगान् ।
प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ ॥९०.२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP