विष्णुस्मृतिः - अध्यायः ८०
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैश्च मासं प्रीयन्ते ॥८०.१॥
द्वौ मासौ मत्स्यमांसेन ॥८०.२॥
त्रीन्हारिणेन ॥८०.३॥
चतुरश्चौरभ्रेण ॥८०.४॥
पञ्च शाकुनेन ॥८०.५॥
षट्छागेन ॥८०.६॥
सप्त रौरवेण ॥८०.७॥
अष्टौ पार्षतेन ॥८०.८॥
नव गावयेन ॥८०.९॥
दश माहिषेण ॥८०.१०॥
एकादश तूपरेणाजेन ॥८०.११॥
संवत्सरं गव्येन पयसा तद्विकारैर्वा ॥८०.१२॥
अत्र पितृगीता गाथा भवति ॥८०.१३॥
कालशाकं महाशल्कं मांसं वार्ध्रीणसस्य च ।
विषाणवर्ज्या ये खड्गा आसूर्यं तांस्तु भुङ्क्ष्महे ॥८०.१४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP