विष्णुस्मृतिः - अध्यायः ६६
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
न नक्तं गृहीतेनोदकेन देवपितृकर्म कुर्यात् ॥६६.१॥
चदनमृगमददारुकर्पूरकुङ्कुमजातीफलवर्जं अनुलेपनं न दद्यात् ॥६६.२॥
न वासो नीलीरक्तं ॥६६.३॥
न मणिसुवर्णयोः प्रतिरूपं अलंकरणं ॥६६.४॥
नोग्रघन्धि ॥६६.५॥
नागन्धि ॥६६.६॥
न कण्टकिजं ॥६६.७॥
कण्टकिजं अपि शुक्लं सुगन्धिकं तु दद्यात् ॥६६.८॥
रक्तं अपि कुङ्कुमं जलजं च दद्यात् ॥६६.९॥
न धूपार्थे जीवजातं ॥६६.१०॥
न घृततैलं विना किंचन दीपार्थे ॥६६.११॥
नाभक्ष्यं नैवेद्यार्थे ॥६६.१२॥
न भक्ष्ये अप्यजामहिषीक्षीरे ॥६६.१३॥
पञ्चनखमत्स्यवराहमांसानि च ॥६६.१४॥
प्रयतश्च शुचिर्भूत्वा सर्वं एव निवेदयेत् ।
तन्मनाः सुमना भूत्वा त्वराक्रोधविवर्जितः ॥६६.१६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP