विष्णुस्मृतिः - अध्यायः ६०
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
ब्राह्मे मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात् ॥६०.१॥
दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः संध्ययोश्च ॥६०.२॥
नाप्रच्छादितायां भूमौ ॥६०.३॥
न फालकृष्टायां ॥६०.४॥
न छायायां ॥६०.५॥
न चोषरे ॥६०.६॥
न शाद्वले ॥६०.७॥
न ससत्त्वे ॥६०.८॥
न गर्ते ॥६०.९॥
न वल्मीके ॥६०.१०॥
न पथि ॥६०.११॥
न रथ्यायां ॥६०.१२॥
न पराशुचौ ॥६०.१३॥
नोद्याने ॥६०.१४॥
नोद्यानोद्कसमीपयोः ॥६०.१५॥
न भस्मनि ॥६०.१६॥
नाङ्गारे ॥६०.१७॥
न गोमये ॥६०.१८॥
न गोव्रजे ॥६०.१९॥
नाकाशे ॥६०.२०॥
नोदके ॥६०.२१॥
न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानां ॥६०.२२॥
नैवानवगुण्ठितशिराः ॥६०.२३॥
लोष्टेष्टकापरिमृष्टगुदो गृहीतशिश्नश्चोत्थायाद्भिर्मृद्भिश्चोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात् ॥६०.२४॥
एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ॥६०.२५॥
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥६०.२६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP