विष्णुस्मृतिः - अध्यायः २३
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतं ॥२३.१॥
अत्यन्तोपहतं सर्वं लोहभाण्डं अग्नौ प्रक्षिप्तं शुध्येत् ॥२३.२॥
मणिमयं अश्ममयं अब्जं च सप्तरात्रं महीनिखननेन ॥२३.३॥
शृङ्गदन्तास्थिमयं तक्षणेन ॥२३.४॥
दारवं मृन्मयं च जह्यात् ॥२३.५॥
अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं सद्विरज्यते तच्छिन्द्यात् ॥२३.६॥
सौवर्णराजताब्जमणिमयानां निर्लेपानां अद्भिः शुद्धिः ॥२३.७॥
अश्ममयानां चमसानां ग्रहाणां च ॥२३.८॥
चरुस्रुक्स्रुवाणां उष्णेनाम्भसा ॥२३.९॥
यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन ॥२३.१०॥
स्फ्यशूर्पशकटमुसलोलूखलानां प्रोक्षणेन ॥२३.११॥
शयनयानासनानां च ॥२३.१२॥
बहूनां च ॥२३.१३॥
धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससां च ॥२३.१४॥
शाकमूलफलपुष्पाणां च ॥२३.१५॥
तृणकाष्ठशुष्कपलाशानां च ॥२३.१६॥
एतेषां प्रक्षालनेन ॥२३.१७॥
अल्पानां च ॥२३.१८॥
ऊषैः कौशेयाविकयोः ॥२३.१९॥
अरिष्टकैः कुतपानां ॥२३.२०॥
श्रीफलैरंशुपट्टानां ॥२३.२१॥
गौरसर्षपैः क्षौमाणां ॥२३.२२॥
शृङ्गास्थिदन्तमयानां च ॥२३.२३॥
पद्माक्षैर्मृगलोमिकानां ॥२३.२४॥
ताम्ररीतित्रपुसीसमयानां अम्लोदकेन ॥२३.२५॥
भस्मना कांस्यलोहयोः ॥२३.२६॥
तक्षणेन दारवाणां ॥२३.२७॥
गोवालैः फलसंभवानां ॥२३.२८॥
प्रोक्षणेन संहतानां ॥२३.२९॥
उत्पवनेन द्रवाणां ॥२३.३०॥
गुडादीनां इक्षुविकाराणां प्रभूतानां गृहनिहितानां वार्यग्निदानेन ॥२३.३१॥
सर्वलवणानां च ॥२३.३२॥
पुनः पाकेन मृन्मयानां ॥२३.३३॥
द्रव्यवत्कृतशौचानां देवतार्चानां भूयः प्रतिष्ठापनेन ॥२३.३४॥
असिद्धस्यान्नस्य यन्मात्रं उपहतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्यात् ॥२३.३५॥
द्रोणाभ्यधिकं सिद्धं अन्नं उपहतं न दुष्यति ॥२३.३६॥
तस्योपहतमात्रं अपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भः प्रक्षिपेत्बस्तस्य च प्रदर्शयेदग्नेश्च ॥२३.३७॥
पक्षिजग्धं गवा घ्रातं अवधूतं अवक्षुतम् ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥२३.३८॥
यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।
तावन्मृद्वारि देयं स्यात्सर्वासु द्रव्यशुद्धिषु ॥२३.३९॥
अजाश्वं मुखतो मेध्यं न गौर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥२३.४०॥
रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥२३.४१॥
प्राणिनां अथ सर्वेषां मृद्भिरद्भिश्च कारयेत् ।
अत्यन्तोपहतानां च शौचं नित्यं अतन्द्रितम् ॥२३.४२॥
भूमिष्ठं उदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् ।
अव्याप्तं चेदमेध्येन तद्वदेव शिलागतम् ॥२३.४३॥
मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा ।
अपः समुद्धरेत्सर्वाः शेषं वस्त्रेण शोधयेत् ॥२३.४४॥
वह्निप्रज्वालनं कुर्यात्कूपे पक्वेष्टकाचिते ।
पञ्चगव्यं न्यसेत्पश्चान्नवतोयसमुद्भवे ॥२३.४५॥
जलाशयेष्वथाल्पेषु स्थावरेषु वसुंधरे ।
कूपवत्कथिता शुद्धिर्महत्सु च न दूषणम् ॥२३.४६॥
त्रीणि देवाः पवित्राणि ब्राह्मणानां अकल्पयन् ।
अदृष्टं अद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥२३.४७॥
नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् ।
ब्राहमणान्तरितं भैक्ष्यं आकराः सर्व एव च ॥२३.४८॥
नित्यं आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥२३.४९॥
श्वभिर्हतस्य यन्मांसं शुचि तत्परिकीर्तितम् ।
क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥२३.५०॥
ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत् ।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥२३.५१॥
मक्षिका विप्रुषश्छाया गौर्गजाश्वमरीचयः ।
रजो भूर्वायुरग्निश्च मार्जारश्च सदा शुचिः ॥२३.५२॥
नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गे न यान्ति याः ।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम् ॥२३.५३॥
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥२३.५४॥
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद्द्रव्यं आचान्तः शुचितां इयात् ॥२३.५५॥
मार्जनोपाञ्जनैर्वेश्म प्रोक्षणेनैव पुस्तकम् ।
संमार्जनेनाञ्जनेन सेकेनोल्लेखनेन च ॥२३.५६॥
दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम् ।
गावः पवित्रमङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ॥२३.५७॥
गावो वितन्वते य्ज्ञं गावः सर्वाघसूदनाः ।
गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ॥२३.५८॥
षडङ्गं एतत्परमं मङ्गल्यं परमं गवाम् ।
शृङ्गोदकं गवां पुण्यं सर्वाघविनिषूदनम् ॥२३.५९॥
गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ।
गवां ग्रासप्रदानेन स्वर्गलोके महीयते ॥२३.६०॥
गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासां रजसि प्रवृद्धा ।
लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥२३.६१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP