संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः २५

विष्णुस्मृतिः - अध्यायः २५

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ स्त्रीणां धर्माः ॥२५.१॥

भर्तुः समानव्रतचारित्वं ॥२५.२॥

श्वश्रूश्वशुरगुरुदेवतातिथिपूजनं ॥२५.३॥

सुसंस्कृतोपस्करता ॥२५.४॥

अमुक्तहस्तता ॥२५.५॥

सुगुप्तभाण्डता ॥२५.६॥

मूलक्रियास्वनभिरतिः ॥२५.७॥

मङ्गलाचारतत्परता ॥२५.८॥

भर्तरि प्रवसितेऽप्रतिकर्मक्रिया ॥२५.९॥

परगृहेष्वनभिगमनं ॥२५.१०॥

द्वारदेशगवाक्षेष्वनवस्थानं ॥२५.११॥

सर्वकर्मस्वस्वतन्त्रता ॥२५.१२॥

बाल्ययौवनवार्धकेष्वपि पितृभर्तृपुत्राधीनता ॥२५.१३॥

मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा ॥२५.१४॥

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ।
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥२५.१५॥

पत्यौ जीवति या योषिदुपवासव्रतं चरेत् ।
आयुः सा हरते भर्तुर्नरकं चैव गच्छति ॥२५.१६॥

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥२५.१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP