विष्णुस्मृतिः - अध्यायः ६३
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
अथ योगक्षेमार्थं ईश्वरं अभिगच्छेत् ॥६३.१॥
नैकोऽध्वानं प्रपद्येत ॥६३.२॥
नाधार्मिकैः सार्धं ॥६३.३॥
न वृषलैः ॥६३.४॥
न द्विषद्भिः ॥६३.५॥
नातिप्रत्यूषसि ॥६३.६॥
नातिसायं ॥६३.७॥
न संध्ययोः ॥६३.८॥
न मध्याह्ने ॥६३.९॥
न संनिहितपानीयं ॥६३.१०॥
नातितूर्णं ॥६३.११॥
न सततं बालव्याधितार्तैर्वाहनैः ॥६३.१२॥
न हीनाङ्गैः ॥६३.१३॥
न दीनैः ॥६३.१४॥
न गोभिः ॥६३.१५॥
नादान्तैः ॥६३.१६॥
यवसोदके वाहनानां अदत्त्वा आत्मनः क्षुत्तृष्णापनोदनं न कुर्यात् ॥६३.१७॥
न चतुष्पथं अधितिष्ठेत् ॥६३.१८॥
न रात्रौ वृक्षमूले ॥६३.१९॥
न शून्यालयं ॥६३.२०॥
न तृणं ॥६३.२१॥
न पशूनां बन्धनागारं ॥६३.२२॥
न केशतुषकपालास्थिभस्माङ्गारान् ॥६३.२३॥
न कार्पासास्थि ॥६३.२४॥
चतुष्पथं प्रकक्षिणीकुर्यात् ॥६३.२५॥
देवतार्चां च ॥६३.२६॥
प्रज्ञातांश्च वनस्प्तीन् ॥६३.२७॥
अग्निब्राह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्षवर्धमाननन्द्यावर्तांश्च ॥६३.२८॥
तालवृन्तचामराश्वगजाजगोदधिक्षीरमधुसिद्धार्थकांश्च ॥६३.२९॥
वीणाचन्दनायुधार्द्रगोमयफलपुष्पार्द्रशाकगोरोचनादूर्वाप्ररोहांश्च ॥६३.३०॥
उष्णीषालंकारमणिकनकरजतवस्त्रासनयानामिषांश्च ॥६३.३१॥
भृङ्गारोद्धृतोर्वराबद्धैकपशुकुमारीमीनांश्च दृष्ट्वा प्रयायादिति ॥६३.३२॥
अथ मत्तोन्मत्तव्यङ्गान्दृष्ट्वा निवर्तेत ॥६३.३३॥
वान्तविरिक्तमुण्डजटिलवामनांश्च ॥६३.३४॥
काषायिप्रव्रजितमलिनांश्च ॥६३.३५॥
तैलगुडशुष्कगोमयेन्धनतृणपलाशभस्माङ्गारांश्च ॥६३.३६॥
लवणक्लीबासवनपुंसककार्पासरज्जुनिगडमुक्तकेशांश्च ॥६३.३७॥
वीनाचन्दनार्द्रशाकोष्णीषालंकरणकुमारीस्तु प्रस्थानकाले अभिनन्दयेदिति ॥६३.३८॥
देवब्राह्मणगुरुबभ्रुदीक्षितानां छायां नाक्रामेत् ॥६३.३९॥
निष्ठ्यूतवान्तरुधिरविण्मूत्रस्नानोदकानि च ॥६३.४०॥
न वत्सतन्त्रीं लङ्घयेत् ॥६३.४१॥
प्रवर्षति न धावेत् ॥६३.४२॥
न वृथा नदीं तरेत् ॥६३.४३॥
न देवताभ्यः पितृभ्यश्चोदकं अप्रदाय ॥६३.४४॥
न बाहुभ्यां ॥६३.४५॥
न भिन्नया नावा ॥६३.४६॥
न कूलं अधितिष्ठेत् ॥६३.४७॥
न कूपं अवलोकयेत् ॥६३.४८॥
न लङ्घयेत् ॥६३.४९॥
वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् ।
पन्था देया नृपस्त्वेषां मान्यः स्नातश्च भूपतेः ॥६३.५०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP