संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ७९

विष्णुस्मृतिः - अध्यायः ७९

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्यात् ॥७९.१॥

कुशाभावे कुशस्थाने काशान्दूर्वां वा दद्यात् ॥७९.२॥

वासोऽर्थे कार्पासोत्थं सूत्रं ॥७९.३॥

दशां विसर्जयेत्यद्यप्यहतवस्त्रजा स्यात् ॥७९.४॥

उग्रगन्धीन्यगन्धीनि कण्टकिजानि च पुष्पाणि ॥७९.५॥

शुक्लानि सुगन्धीनि कण्टकिजान्यपि जलजानि रक्तान्यपि दद्यात् ॥७९.६॥

वसां मेदं च दीपार्थे न दद्यात् ॥७९.७॥

घृतं तैलं वा दद्यात् ॥७९.८॥

जीवजं सर्वं धूपार्थे न दद्यात् ॥७९.९॥

मधुघृतसंयुक्तं गुग्गुलुं दद्यात् ॥७९.१०॥

चन्दनकुङ्कुमकर्पूरागरुपद्मकान्यनुलेपनार्थे ॥७९.११॥

न प्रत्यक्षलवणं दद्यात् ॥७९.१२॥

हस्तेन च घृतव्यञ्जनादि ॥७९.१३॥

तैजसानि पात्राणि दद्यात् ॥७९.१४॥

विशेषतो राजतानि ॥७९.१५॥

खड्गकुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि च पवित्राणि रक्षोघ्नानि च निदध्यात् ॥७९.१६॥

पिप्पलीमुकुन्दकभूस्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकूश्माण्डालाबुवार्ताकपालक्योपोदकीतण्डुलीयककुसुम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत् ॥७९.१७॥

राजमाषमसूरपर्युषितकृतलवणानि च ॥७९.१८॥

कोपं परिहरेत् ॥७९.१९॥

नाश्रु पातयेत् ॥७९.२०॥

न त्वरां कुर्यात् ॥७९.२१॥

घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि ॥७९.२२॥

अत्र च श्लोको भवति ॥७९.२३॥

सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण वा ।
दत्तं अक्षय्यतां याति फल्गुपात्रेण चाप्यथ ॥७९.२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP