विष्णुस्मृतिः - अध्यायः १०
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
अथ धटः ॥१०.१॥
चतुर्हस्तोच्छ्रितो द्विहस्तायतः ॥१०.२॥
तत्र सारवृक्षोद्भवा पञ्चहस्तायतोभयतःशिक्या तुला ॥१०.३॥
तां च सुवर्णकारकांस्यकाराणां अन्यतमो बिभृयात् ॥१०.४॥
तत्र चैकस्मिन्शिक्ये पुरुषं दिव्यकारिणं आरोपयेत्, द्वितीये प्रतिमानं शिलादि ॥१०.५॥
प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषं अवतारयेत् ॥१०.६॥
धटं च समयेन गृह्णीयात् ॥१०.७॥
तुलाधारं च ॥१०.८॥
ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥१०.९॥
धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।
त्वं एव धट जानीषे न विदुर्यानि मानुषाः ॥१०.१०॥
व्यवहाराभिशस्तोऽयं मानुषस्तोल्यते त्वयि ।
तदेनं संशयादस्माद्धर्मतस्त्रातुं अर्हसि ॥१०.११॥
ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् ।
तुलितो यदि वर्धेत ततः शुद्धः स धर्मतः ॥१०.१२॥
शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम् ।
एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ॥१०.१३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP