विष्णुस्मृतिः - अध्यायः ६८
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
चन्द्रार्कोपरागे नाश्नीयात् ॥६८.१॥
स्नात्वा मुक्तयोरश्नीयात् ॥६८.२॥
अमुक्तयोरस्तं गतयोः स्नात्वा दृष्ट्वा चापरेऽह्नि ॥६८.३॥
न गोब्राह्मणोपरागेऽश्नीयात् ॥६८.४॥
न राज्ञो व्यसने ॥६८.५॥
प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्यते तदाश्नीयात् ॥६८.६॥
यदा कृतं मन्येत वैश्वदेवं अपि ॥६८.७॥
पर्वणि च यदा कृतं मन्येत पर्व ॥६८.८॥
नाश्नीयाच्चाजीर्णे ॥६८.९॥
नार्धरात्रे ॥६८.१०॥
न मद्याह्ने ॥६८.११॥
न संध्ययोः ॥६८.१२॥
नार्द्रवासाः ॥६८.१३॥
नैकवासाः ॥६८.१४॥
न नग्नः ॥६८.१५॥
नोदके ॥६८.१६॥
नोत्कुटकः ॥६८.१७॥
न भिन्नासनगतः ॥६८.१८॥
न च शयनगतः ॥६८.१९॥
न भिन्नभोजने ॥६८.२०॥
नोत्सङ्गे ॥६८.२१॥
न भुवि ॥६८.२२॥
न पाणौ ॥६८.२३॥
लवणं च यत्र दद्यात्तन्नाश्नीयात् ॥६८.२४॥
न बालकान्निर्भत्सेयन् ॥६८.२५॥
नैको मृष्टं ॥६८.२६॥
नोद्धृतस्नेहं ॥६८.२७॥
न दिवा धानाः ॥६८.२८॥
न रात्रौ तिलसंबन्धं ॥६८.२९॥
न दधिसक्तून् ॥६८.३०॥
न कोविदारवटपिप्पलशाणशाकं ॥६८.३१॥
नादत्त्वा ॥६८.३२॥
नाहुत्वा ॥६८.३३॥
नानार्द्रपादः ॥६८.३४॥
नानार्द्रकरमुखश्च ॥६८.३५॥
नोच्छिष्टश्च घृतं आदद्यात् ॥६८.३६॥
न चन्द्रार्कतारका निरीक्षेत ॥६८.३७॥
न मूर्धानं स्पृशेत् ॥६८.३८॥
न ब्रह्म कीर्तयेत् ॥६८.३९॥
प्राङ्मुखोऽश्नीयात् ॥६८.४०॥
दक्षिणामुखो वा ॥६८.४१॥
अभिपूज्यान्नं ॥६८.४२॥
सुमनाः स्रग्व्यनुलिप्तश्च ॥६८.४३॥
न निःशेषकृत्स्यात् ॥६८.४४॥
अन्यत्र दधिमधुसर्पिःपयःसक्तुपलमोदकेभ्यः ॥६८.४५॥
नाश्नीयाद्भार्यया सार्धं नाकाशे न तथोत्थितः ।
बहूनां प्रेक्षमाणानां नैकस्मिन्बहवस्तथा ॥६८.४६॥
शून्यालये वह्निगृहे देवागारे कथंचन ।
पिबेन्नाञ्जलिना तोयं नातिसौहित्यं आचरेत् ॥६८.४७॥
न तृतीयं अथाश्नीत न चापथ्यं कथंचन ।
नातिप्रगे नातिसायं न सायं प्रातराशितः ॥६८.४८॥
न भावदुष्टं अश्नीयान्न भाण्डे भावदूषिते ।
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ॥६८.४९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP