संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः १८

विष्णुस्मृतिः - अध्यायः १८

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ब्राह्मणस्य चतुर्षु वर्णेषु चेत्पुत्रा भवेयुः, ते पैतृकं रिक्थं दशधा विभजेयुः ॥१८.१॥

तत्र ब्राह्मणीपुत्रश्चतुरोऽंशानादद्यात् ॥१८.२॥

क्षत्रियापुत्रस्त्रीन् ॥१८.३॥

द्वावंशौ वैश्यापुत्रः ॥१८.४॥

शूद्रापुत्रस्त्वेकं ॥१८.५॥

अथ चेत्शूद्रवर्जं ब्राह्मणस्य पुत्रत्रयं भवेत्, तदा तद्धनं नवधा विभजेयुः ॥१८.६॥

वर्नानुक्रमेण चतुस्त्रिद्विभागीकृतानंशानादद्युः ॥१८.७॥

वैश्यवर्जं अष्टधा कृतं चतुरस्त्रीनेकं चादद्युः ॥१८.८॥

क्षत्रियवर्जं सप्तधा कृतं चतुरो द्वावेकं च ॥१८.९॥

ब्राह्मणवर्जं षड्धा कृतं त्रीन्द्वावेकं च ॥१८.१०॥

क्षत्रियस्य क्षत्रियावैश्याशूद्रापुत्रेष्वयं एव विभागः ॥१८.११॥

अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौ पुत्रौ स्यातां, तदा सप्तधा कृताद्धनाद्ब्राह्मणश्चतुरोऽंशानादद्यात् ॥१८.१२॥

त्रीन्राजन्यः ॥१८.१३॥

अथ ब्राह्मणस्य ब्राह्मणवैश्यौ, तदा षड्धा विभक्तस्य चतुरोऽंशान्ब्राह्मणस्त्वादद्यात् ॥१८.१४॥

द्वावंशौ वैश्यः ॥१८.१५॥

अथ ब्राह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां, तदा तद्धनं पञ्चधा विभजेयातां ॥१८.१६॥

चतुरोऽंशान्ब्राह्मणस्त्वादद्यात् ॥१८.१७॥

एकं शूद्रः ॥१८.१८॥

अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैश्यौ पुत्रौ स्यातां, तदा तद्धनं पञ्चधा विभजेयातां ॥१८.१९॥

त्रीनंशान्क्षत्रियस्त्वादद्यात् ॥१८.२०॥

द्वावंशौ वैश्यः ॥१८.२१॥

अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां, तदा तद्धनं चतुर्धा विभजेयातां ॥१८.२२॥

त्रीनंशान्क्षत्रियस्त्वादद्यात् ॥१८.२३॥

एकं शूद्रः ॥१८.२४॥

अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्यशूद्रौ पुत्रौ स्यातां, तदा तद्धनं त्रिधा विभजेयातां ॥१८.२५॥

द्वावंशौ वैश्यस्त्वादद्यात् ॥१८.२६॥

एकं शूद्रः ॥१८.२७॥

अथैकपुत्रा ब्राह्मणस्य ब्राह्मणक्षत्रियवैश्याः सर्वहराः ॥१८.२८॥

क्षत्रियस्य राजन्यवैश्यौ ॥१८.२९॥

वैश्यस्य वैश्यः ॥१८.३०॥

शूद्रः शूद्रस्य ॥१८.३१॥

द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्धहरः ॥१८.३२॥

अपुत्ररिक्थस्य या गतिः, सात्रार्धस्य द्वितीयस्य ॥१८.३३॥

मातरः पुत्रभागानुसारेण भागापहारिण्यः ॥१८.३४॥

अनूढाश्च दुहितरः ॥१८.३५॥

समानवर्णाः पुत्राः समानंशानादद्युः ॥१८.३६॥

ज्येष्ठाय श्रेष्ठं उद्धारं दद्युः ॥१८.३७॥

यदि द्वौ ब्राह्मणीपुत्रौ स्यातां एकः शूद्रापुत्रः, तदा नवधा विभक्तस्यार्थस्य ब्राह्मणीपुत्रावष्टौ भागानादद्यातां एकं शूद्रापुत्रः ॥१८.३८॥

अथ शूद्रापुत्रावुभौ स्यातां एको ब्राह्मणीपुत्रः, तदा षड्धा विभक्तस्यार्थस्य चतुरोऽंशान्ब्राह्मणस्त्वादद्यात्, द्वावंशौ शूद्रापुत्रौ ॥१८.३९॥

अनेन क्रमेणान्यत्राप्यंशकल्पना भवति ॥१८.४०॥

विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि ।
समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥१८.४१॥

अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्जयेत् ।
स्वयं ईहितलब्धं तन्नाकामो दातुं अर्हति ॥१८.४२॥

पैतृकं तु यदा द्रव्यं अनवाप्तं यदाप्नुयात् ।
न तत्पुत्रैर्भजेत्सार्धं अकामः स्वयं अर्जितम् ॥१८.४३॥

वस्त्रं पत्रं अलंकारः कृतान्नं उदकं स्त्रियः ।
योगक्षेमं प्रचारश्च न विभाज्यं च पुस्तकम् ॥१८.४४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP