संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ८७

विष्णुस्मृतिः - अध्यायः ८७

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ वैशाख्यां पौर्णमास्यां कृष्णाजिनं सखुरं सशृङ्गं सुवर्णशृङ्गं रौप्यखुरं मौक्तिकलाङ्गूलभूषितं कृत्वाविके च वस्त्रे प्रसारयेत् ॥८७.१॥

ततस्तिलैः प्रच्छादयेत् ॥८७.२॥

सुवर्णनाभिं च कुर्यात् ॥८७.३॥

अहतेन वासोयुगेन प्रच्छादयेत् ॥८७.४॥

सर्वगन्धरत्नैश्चालंकृतं कुर्यात् ॥८७.५॥

चतसृषु दिक्षु चत्वारि तैजसानि पात्राणि क्षीरदधिमधुघृतपूर्णानि निध्यायाहिताग्नये ब्राह्मणायालंकृताय वासोयुगेन प्रच्छादिताय दद्यात् ॥८७.६॥

अत्र च गाथा भवन्ति ॥८७.७॥

यस्तु कृष्णाजिनं दद्यात्सखुरं शृङ्गसंयुतम् ।
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलंकृतम् ॥८७.८॥

ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥८७.९॥

कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥८७.१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP