विष्णुस्मृतिः - अध्यायः ७
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
अथ लेख्यं त्रिविधं ॥७.१॥
राजसाक्षिकं ससाक्षिकं असाक्षिकं च ॥७.२॥
राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्षकरचिह्नितं राजसाक्षिकं ॥७.३॥
यत्र क्वचन येन केनचिल्लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षिकं ॥७.४॥
स्वहस्तलिखितं असाक्षिकं ॥७.५॥
तत्बलात्कारितं अप्रमाणं ॥७.६॥
उपधिकृतानि सर्वाण्येव ॥७.७॥
दूषितकर्मदुष्टसाक्ष्यङ्कितं ससाक्षिकं अपि ॥७.८॥
तादृग्विधेन लेखकेन लिखितं च ॥७.९॥
स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीतताडितकृतं च ॥७.१०॥
देशाचाराविरुद्धं व्यक्ताधिकृतलक्षणं अलुप्तप्रक्रमाक्षरं प्रमाणं ॥७.११॥
वर्णैश्च तत्कृतैश्चिह्नैः पत्रैरेव च युक्तिभिः ।
संदिग्धं साधयेल्लेख्यं तद्युक्तिप्रतिरूपितैः ॥७.१२॥
यत्र+ऋणी धनिको वापि साक्षी वा लेखकोऽपि वा ।
म्रियते तत्र तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् ॥७.१३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP