विष्णुस्मृतिः - अध्यायः १
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
ब्रह्मरात्र्यां व्यतीतायां प्रबुद्धे पद्मसंभवे ।
विष्णुः सिसृक्षुर्भूतानि ज्ञात्वा भूमिं जलानुगाम् ॥१.१॥
जलक्रीडारुचि शुभं कल्पाधिषु यथा पुरा ।
वाराहं आस्थितो रूपं उज्जहार वसुंधराम् ॥१.२॥
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥१.३॥
अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः ।
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥१.४॥
धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्कृतः ।
प्रायश्चित्तमहाघोणः पशुजानुर्महाकृतिः ॥१.५॥
उद्गात्रान्त्रो होमलिङ्गो बीजौषधिमहाफलः ।
वेद्यन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः ॥१.६॥
वेदिस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् ।
प्राग्वंषकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥१.७॥
दक्षिणाहृदयो योग महामन्त्रमयो महान् ।
उपाकर्मोष्ठरुचिरः प्रवर्ग्यावर्तभूषणः ॥१.८॥
नानाच्छन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मणिशृङ्ग इवोदितः ॥१.९॥
महीं सागरपर्यन्तां सशैलवनकाननाम् ।
एकार्णवजलभ्रष्टां एकार्णवगतः प्रभुः ॥१.१०॥
दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया ।
आदिदेवो महायोगी चकार जगतीं पुनः ॥१.११॥
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृथिवी देवी रसातलगता पुरा ॥१.१२॥
उद्धृत्य निश्चले स्थाने स्थापयित्वा तथा स्वके ।
यथास्थानं विभज्यापस्तद्गता मधुसूदनः ॥१.१३॥
सामुद्र्यश्च समुद्रेषु नादेयीश्च नदीषु च ।
पल्वलेषु च पाल्वल्यः सरःसु च सरोभवाः ॥१.१४॥
पातालसप्तकं चक्रे लोकानां सप्तकं तथा ।
द्वीपानां उदधीनां च स्थानानि विविधानि च ॥१.१५॥
स्थानपालान्लोकपालान्नदीः शैलवनस्पतीन् ।
ऋषींश्च सप्त धर्मज्ञान्वेदान्सान्ङान्सुरासुरान् ॥१.१६॥
पिशाचोरगगन्धर्व यक्षराक्षसमानुषान् ।
पशुपक्षिमृगाद्यांश्च भूतग्रामं चतुर्विधम् ।
मेघेन्द्रचापशम्पाद्यान्यज्ञांश्च विविधांस्तथा ॥१.१७॥
एवं वराहो भगवान्कृत्वेदं सचराचरम् ।
जगज्जगाम लोकानां अविज्ञातां तदा गतिम् ॥१.१८॥
अविज्ञातां गतिं याते देवदेवे जनार्दने ।
वसुधा चिन्तयां आस का धृतिर्मे भविष्यति ॥१.१९॥
पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्यसंशयम् ।
मदीयां वहते चिन्तां नित्यं एव महामुनिः ॥१.२०॥
एवं सा निश्चयं कृत्वा देवी स्त्रीरूपधारिणी ।
जगाम कश्यपं द्रष्टुं दृष्टवांस्तां च कश्यपः ॥१.२१॥
नीलपङ्कजपत्राक्षीं शारदेन्दुनिभाननाम् ।
अलिसंघालकां शुभ्रां बन्धुजीवाधरां शुभाम् ॥१.२२॥
सुभ्रूं सुसूक्ष्मदशनां चारुनासां नतभ्रुवम् ।
कम्बुकण्ठीं संहतोरूं पीनोरुजघनस्थलाम् ॥१.२३॥
विरेजतुः स्तनौ यस्याः समौ पीनौ निरन्तरौ ।
शक्रेभकुम्भसंकाशौ शातकुम्भसमद्युती ॥१.२४॥
मृणालकोमलौ बाहू करौ किसलयोपमौ ।
रुक्मस्तम्भनिभावूरू गूढे श्लिष्टे च जानुनी ॥१.२५॥
जङ्घे विरोमे सुसमे पादावतिमनोरमौ ।
जघनं च घनं मध्यं यथा केसरिणः शिशोः ॥१.२६॥
प्रभायुता नखास्ताम्रा रूपं सर्वमनोहरम् ।
कुर्वाणां वीक्षितैर्नित्यं नीलोत्पलयुता दिशः ॥१.२७॥
कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः ।
सुसूक्ष्मशुक्लवसनां रत्नोत्तमविभूषिताम् ॥१.२८॥
पदन्यासैर्वसुमतीं सपद्मां इव कुर्वतीम् ।
रूपयौवनसंपन्नां विनीतवदुपस्थिताम् ॥१.२९॥
समीपं आगतां दृष्ट्वा पूजयित्वाथ कश्यपः ।
उवाच तां वरारोहे विज्ञातं हृद्गतं मया ॥१.३०॥
धरे तव विशालाक्षि गच्छ देवि जनार्दनम् ।
स ते वक्ष्यत्यशेषेण भाविनी ते यथा धृतिः ॥१.३१॥
क्षीरोदे वसतिस्तस्य मया ज्ञाता शुभानने ।
ध्यानयोगेन चार्वङ्गि त्वदर्थं तत्प्रसादतः ॥१.३२॥
इत्येवं उक्ता संपूज्य कश्यपं वसुधा ततः ।
प्रययौ केशवं द्रष्टुं क्षीरोदं अथ सागरम् ॥१.३३॥
सा ददर्शामृतनिधिं चन्द्ररश्मिमनोहरम् ।
पवनक्षोभसंजात वीचीशतसमाकुलम् ॥१.३४॥
हिमवच्छतसंकाशं भूमण्डलं इवापरम् ।
वीचीहस्तैः प्रचलितैराह्वयानं इव क्षितिम् ॥१.३५॥
तैरेव शुक्लतां चन्द्रे विदधानं इवानिशम् ।
अन्तरस्थेन हरिणा विगताशेषकल्मषम् ॥१.३६॥
यस्मात्तस्माद्धारयन्तं सुशुक्लां तनुं ऊर्जिताम् ।
पाण्डुरं खगमागम्यं अधोभुवनवर्तिनम् ॥१.३७॥
इन्द्रनीलकडाराढ्यं विपरीतं इवाम्बरम् ।
फलावलीसमुद्भूत वनसंघं इवाचितम् ॥१.३८॥
निर्मोकं इव शेषाहेर्विस्तीर्णान्तं अतीव हि ।
तं दृष्ट्वा तत्र मध्यस्थं दडृशे केशवालयम् ॥१.३९॥
अनिर्देश्यपरीमाणं अनिर्देश्यर्द्धिसंयुतम् ।
शेषपर्यङ्कगं तस्मिन्ददर्श मधुसूदनम् ॥१.४०॥
शेषाहिफणरत्नांशु दुर्विभाव्यमुखाम्बुजम् ।
शशाङ्कशतसंकाशं सूर्यायुतसमप्रभम् ॥१.४१॥
पीतवाससमक्षोभ्यं सर्वरत्नविभूषितं [सवरत्न] ।
मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ॥१.४२॥
संवाह्यमानाङ्घ्रियुगं लक्ष्म्या करतलैः शुभैः ।
शरीरधारिभिः शस्त्रैः सेव्यमानं समन्ततः ॥१.४३॥
तं दृष्ट्वा पुण्डरीकाक्षं ववन्दे मधुसूदनम् ।
जानुभ्यां अवनिं गत्वा विज्ञापयति चाप्यथ ॥१.४४॥
उद्धृताहं त्वया देव रसातलतलं गता ।
स्वस्थाने स्थापिता विष्णो लोकानां हितकाम्यया ॥१.४५॥
तत्राधुना हि देवेश का धृतिर्मे भविष्यति ।
एवं उक्तस्तया देव्या देवो वचनं अब्रवीत् ॥१.४६॥
वर्णाश्रमाचाररताः सन्तः शास्त्रैकतत्पराः ।
त्वां धरे धारयिष्यन्ति तेषां त्वद्भार आहितः ॥१.४७॥
एवं उक्ता वसुमती देवदेवं अभाषत ।
वर्णानां आश्रमाणां च धर्मान्वद सनातन ॥१.४८॥
त्वत्तोऽहं श्रोतुं इच्छामि त्वं हि मे परमा गतिः ।
नमस्ते देवदेवेश देवारिबलसूदन ॥१.४९॥
नारायण जगन्नाथ शङ्खचक्रगदाधर ।
पद्मनाभ हृषीकेश महाबलपराक्रम ॥१.५०॥
अतीन्द्रिय सुदुष्पार देव शार्ङ्गधनुर्धर ।
वराह भीम गोविन्द पुराण पुरुषोत्तम ॥१.५१॥
हिरण्यकेश विश्वाक्ष यज्ञमूर्ते निरञ्जन ।
क्षेत्रक्षेत्रज्ञदेवेश सलिलार्णवशायक ॥१.५२॥
मन्त्र मन्त्रवहाचिन्त्य वेदवेदाङ्गविग्रह ।
जगतोऽस्य समग्रस्य सृष्टिसंहारकारक ॥१.५३॥
धर्माधर्मज्ञ धर्माङ्ग धर्मयोने वरप्रद ।
विष्वक्सेनामृत व्योम मधुकैटभसूदन ॥१.५४॥
बृहतां बृंहणाज्ञेय सर्व सर्वाभयप्रद ।
वरेण्यानघ जीमूत जगन्निर्माणकारक ॥१.५५॥
आप्यायन अपां स्थान चैतन्याधार निष्क्रिय ।
सप्तशीर्षाध्वरगुरो पुराणपुरुषोत्तम ॥१.५६॥
ध्रुवाक्षर सुसूक्ष्मेश भक्तवत्सल पावन ।
त्वं गतिः सर्वदेवानां त्वं गतिर्ब्रह्मवादिनाम् ॥१.५७॥
तथा विदितवेद्यानां गतिस्त्वं पुरुषोत्तम ।
प्रपन्नास्मि जगन्नाथ ध्रुवं वाचस्पतिं प्रभुम् ॥१.५८॥
सुब्रह्मण्यं अनाधृष्यं वसुषेणं वसुप्रदम् ।
महायोगबलोपेतं पृश्निगर्भं धृतार्चिषम् ॥१.५९॥
वासुदेवं महात्मानं पुण्डरीकाक्षं अच्युतम् ।
सुरासुरगुरुं देवं विभुं भूतमहेश्वरम् ॥१.६०॥
एकव्यूहं चतुर्बाहुं जगत्कारणकारणम् ।
ब्रूहि मे भगवन्धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् ॥१.६१॥
आश्रमाचारसंयुक्तान्सरहस्यान्ससंग्रहान् ।
एवं उक्तस्तु देवेशः क्षोण्या क्षोणीं अभाषत ॥१.६२॥
शृणु देवि धरे धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् ।
आश्रमाचारसंयुक्तान्सरहस्यान्ससंग्रहान् ॥१.६३॥
ये तु त्वां धारयिष्यन्ति सन्तस्तेषां परायणान् ।
निषण्णा भव वामोरु काञ्चनेऽस्मिन्वरासने ॥१.६४॥
सुखासीना निबोध त्वं धर्मान्निगदतो मम ।
शुश्रुवे वैष्णवान्धर्मान्सुखासीना धरा तदा ॥१.६५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP