संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ५

विष्णुस्मृतिः - अध्यायः ५

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ महापातकिनो ब्राह्मणवर्जं सर्वे वध्याः ॥५.१॥

न शारीरो ब्राह्मणस्य दण्डः ॥५.२॥

स्वदेशात्ब्राह्मणं कृताङ्कं विवासयेत् ॥५.३॥

तस्य च ब्रह्महत्यायां अशिरस्कं पुरुषं ललाटे कुर्यात् ॥५.४॥

सुराध्वजं सुरापाने ॥५.५॥

श्वपदं स्तेये ॥५.६॥

भगं गुरुतल्पगमने ॥५.७॥

अन्यत्रापि वध्यकर्मणि तिष्ठन्तं समग्रधनं अक्षतं विवासयेत् ॥५.८॥

कूटशासनकर्तॄंश्च राजा हन्यात् ॥५.९॥

कूटलेख्यकारांश्च ॥५.१०॥

गरदाग्निदप्रसह्यतस्करान्स्त्रीबालपुरुषघातिनश्च ॥५.११॥

ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकं अपहरेयुः ॥५.१२॥

धरिममेयानां शतादभ्यधिकं ॥५.१३॥

ये चाकुलीना राज्यं अभिकामयेयुः ॥५.१४॥

सेतुभेदकांश्च ॥५.१५॥

प्रसह्य तस्कराणां चावकाशभक्तप्रदांश्च ॥५.१६॥

अन्यत्र राजाशक्तेः ॥५.१७॥

स्त्रियं अशक्तभर्तृकां तदतिक्रमणीं च ॥५.१८॥

हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्तदेवास्य शातयेत् ॥५.१९॥

एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः ॥५.२०॥

निष्ठीव्यौष्ठद्वयविहीनः कार्यः ॥५.२१॥

अवशर्धयिता च गुदहीनः ॥५.२२॥

आक्रोशयिता च विजिह्वः ॥५.२३॥

दर्पेण धर्मोपदेशकारिणां राजा तप्तं आसेचयेत्तैलं आस्ये ॥५.२४॥

द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुर्निखेयः ॥५.२५॥

श्रुतदेशजातिकर्मणां अन्यथावादी कार्शापणशतद्वयं दण्ड्यः ॥५.२६॥

काणखञ्जादीनां तथ्यवाद्यपि कार्शापणद्वयं ॥५.२७॥

गुरूनाक्षिपन्कार्शापणशतद्वयं ॥५.२८॥

परस्य पतनीयाक्षेपे कृते तूत्तमसाहसं ॥५.२९॥

उपपातकयुक्ते मध्यमं ॥५.३०॥

त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च ॥५.३१॥

ग्रामदेशयोश्च प्रथमसाहसं ॥५.३२॥

न्यङ्गतायुक्ते क्षेपे कार्शापणशतं ॥५.३३॥

मातृयुक्ते तूत्तमं ॥५.३४॥

समवर्णाक्रोशने द्वादश पणान्दण्ड्यः ॥५.३५॥

हीनवर्णाकृओशने षट् ॥५.३६॥

यथाकालं उत्तमवर्णाक्षेपे तत्प्रमाणो दण्डः ॥५.३७॥

त्रयो वा कार्षापणाः ॥५.३८॥

शुक्तवाक्याभिधाने त्वेवं एव ॥५.३९॥

पारजायी सवर्णागमने  तूत्तमसाहसं दण्ड्यः ॥५.४०॥

हीनवर्णागमने मध्यमं ॥५.४१॥

गोगमने च ॥५.४२॥

अन्त्यागमने वध्यः ॥५.४३॥

पशुगमने कार्षापणशतं दण्ड्यः ॥५.४४॥

दोषं अनाख्याय कन्यां प्रयच्छंश्च ॥५.४५॥

तां च बिभृयात् ॥५.४६॥

अदुष्टां दुष्टां इति ब्रुवन्नुत्तमसाहसं ॥५.४७॥

गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः ॥५.४८॥

विमांसविक्रयी च ॥५.४९॥

ग्राम्यपशुघाती कार्षापणशतं दण्ड्यः ॥५.५०॥

पशुस्वामिने तन्मूल्यं दद्यात् ॥५.५१॥

आरण्यपशुघाती पञ्चाशतं कार्षापणान् ॥५.५२॥

पक्षिघाती मत्स्यघाती च दश कार्षापणान् ॥५.५३॥

कीटोपघाती च कार्षापणं ॥५.५४॥

फलोपगमद्रुमच्छेदी तूत्तमसाहसं ॥५.५५॥

पुष्पोपगमद्रुमच्छेदी मध्यमं ॥५.५६॥

वल्लीगुल्मलताच्छेदी कार्षापणशतं ॥५.५७॥

तृणच्छेद्येकं ॥५.५८॥

सर्वे च तत्स्वामिनां तदुत्पत्तिं ॥५.५९॥

हस्तेनोद्गूरयिता दशकार्षापणं ॥५.६०॥

पादेन विंशतिं ॥५.६१॥

काष्ठेन प्रथमसाहसं ॥५.६२॥

पाषाणेन मध्यमं ॥५.६३॥

शस्त्रेणोत्तमं ॥५.६४॥

पादकेशांशुककरलुञ्चने दश पणान् ॥५.६५॥

शोणितेन विना दुःखं उत्पादयिता द्वात्रिंशत्पणान् ॥५.६६॥

सह शोणितेन चतुःषष्टिं ॥५.६७॥

करपाददन्तभङ्गे कर्णनासाविकर्तने मध्यमं ॥५.६८॥

चेष्टाभोजनवाग्रोधे प्रहारदाने च ॥५.६९॥

नेत्रकंधराबाहुसक्थ्यंसभङ्गे चोत्तमं ॥५.७०॥

उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनान्न मुञ्चेत् ॥५.७१॥

तादृशं एव वा कुर्यात् ॥५.७२॥

एकं बहूनां निघ्नतां प्रत्येकं उक्ताद्दण्डाद्द्विगुणः ॥५.७३॥

उत्क्रोशन्तं अनभिधावतां तत्समीपवर्तिनां संसरतां च ॥५.७४॥

सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः ॥५.७५॥

ग्राम्यपशुपीडाकराश्च ॥५.७६॥

गोऽश्वोष्ट्रगजापहार्येककरपादः कार्यः ॥५.७७॥

अजाव्यपहार्येककरश्च ॥५.७८॥

धान्यापहार्येकादशगुणं दण्ड्यः ॥५.७९॥

सस्यापहारी च ॥५.८०॥

सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकं अपहरन्विकरः ॥५.८१॥

तदूनं एकादशगुणं दण्ड्यः ॥५.८२॥

सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षिमत्स्यघृततैलमांसमधुवैदलवेणुमृन्मयलोहभाण्डानां अपहर्ता मूल्यात्त्रिगुणं दण्ड्यः ॥५.८३॥

पक्वान्नानां च ॥५.८४॥

पुष्पहरितगुल्मवल्लीलतापर्णानां अपहरणे पञ्चकृष्णलं ॥५.८५॥

शाकमूलफलानां च ॥५.८६॥

रत्नापहार्युत्तमसाहसं ॥५.८७॥

अनुक्तद्रव्याणां अपहर्ता मूल्यसमं ॥५.८८॥

स्तेनाः सर्वं अपहृतं धनिकस्य दाप्याः ॥५.८९॥

ततस्तेषां अभिहितदण्डप्रयोगः ॥५.९०॥

येषां देयः पन्थास्तेषां अपथदायी कार्षापणपञ्चविंशतिं दण्ड्यः ॥५.९१॥

आसनार्हस्यासनं अददच्च ॥५.९२॥

पूजार्हं अपूजयंश्च ॥५.९३॥

प्रातिवेश्यब्राह्मणनिमन्त्रणातिक्रमणे च ॥५.९४॥
निमन्त्रयित्वा भोजनादायिनश्च ॥५.९५॥

निमन्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकं ॥५.९६॥

निकेतयितुश्च द्विगुणं अन्नं ॥५.९७॥

अभक्ष्येण ब्राह्मणस्य दूषयिता षोडश सुवर्णान् ॥५.९८॥

जात्यपहारिणा शतं ॥५.९९॥

सुरया वध्यः ॥५.१००॥

क्षत्रियं दूषयितुस्तदर्धं ॥५.१०१॥

वैश्यं दूषयितुस्तदर्धं अपि ॥५.१०२॥

शूद्रं दूषयितुः प्रथमसाहसं ॥५.१०३॥

अस्पृश्यः कामकारेण स्पृशन्स्पृश्यं त्रैवर्णिकं वध्यः ॥५.१०४॥

रजस्वलां शिफाभिस्ताडयेत् ॥५.१०५॥

पथ्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतं ॥५.१०६॥

तच्चापास्यात् ॥५.१०७॥

गृहभूकुड्याद्युपभेत्ता मध्यमसाहसं ॥५.१०८॥

तच्च योजयेत् ॥५.१०९॥

गृहे पीडाकरं द्रव्यं प्रक्षिपन्पणशतं ॥५.११०॥

साधारणापलापी च ॥५.१११॥

प्रेषितस्याप्रदाता च ॥५.११२॥

पितृपुत्राचार्ययाज्यर्त्विजां अन्योन्यापतितत्यागी च ॥५.११३॥

न च तान्जह्यात् ॥५.११४॥

शूद्रप्रव्रजितानां दैवे पित्र्ये भोजकाश्च ॥५.११५॥

अयोग्यकर्मकारी च ॥५.११६॥

समुद्रगृहभेदकश्च ॥५.११७॥

अनियुक्तः शपथकारी ॥५.११८॥

पशूनां पुंस्त्वोपघातकारी ॥५.११९॥

पितापुत्रविरोधे साक्षिणां दशपणो दण्डः ॥५.१२०॥

यस्तयोश्चान्तरे स्यात्तस्योत्तमसाहसः ॥५.१२१॥

तुलामानकूटकर्तुश्च ॥५.१२२॥

तदकूटे कूटवादिनश्च ॥५.१२३॥

द्रव्याणां प्रतिरूपविक्रयिकस्य च ॥५.१२४॥

संभूय वणिजां पण्यं अनर्घेणावरुन्धतां ॥५.१२५॥

प्रत्येकं विक्रीणतां च ॥५.१२६॥

गृहीतमूल्यं यः पण्यं क्रेतुर्नैव दद्यात्, तस्यासौ सोदयं दाप्यः ॥५.१२७॥

राज्ञा च पणशतं दण्ड्यः ॥५.१२८॥

क्रीतं अक्रीणतो या हानिः सा क्रेतुरेव स्यात् ॥५.१२९॥

राजनिषिद्धं विक्रीणतस्तदपहारः ॥५.१३०॥

तरिकः स्थलजं शुल्कं गृह्णन्दशपणान्दण्ड्यः ॥५.१३१॥

ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुसारिणां नाविकः शौल्किकः शुल्कं आददानश्च ॥५.१३२॥

तच्च तेषां दद्यात् ॥५.१३३॥

द्यूते कूटाक्षदेविनां करच्छेदः ॥५.१३४॥

उपधिदेविनां संदंशच्छेदः ॥५.१३५॥

ग्रन्थिभेदकानां च ॥५.१३६॥

उत्क्षेपकानां च करच्छेदः ॥५.१३७॥

दिवा पशूनां वृकाद्युपघाते पाले त्वनायति पालदोषः ॥५.१३८॥

विनष्टपशुमूल्यं च स्वामिने दद्यात् ॥५.१३९॥

अननुज्ञातां दुहन्पञ्चविंशतिं कार्षापणान् ॥५.१४०॥

महिषी चेत्सस्यनाशं कुर्यात्, तत्पालस्त्वष्टौ माषान्दण्ड्यः ॥५.१४१॥

अपालायाः स्वामी ॥५.१४२॥

अश्वस्तूष्ट्रो गर्दभो वा ॥५.१४३॥

गौश्चेत्तदर्धं ॥५.१४४॥

तदर्धं अजाविकं ॥५.१४५॥

भक्षयित्वोपविष्टेषु द्विगुणं ॥५.१४६॥

सर्वत्र स्वामिने विनष्टसस्यमूल्यं च ॥५.१४७॥

पथि ग्रामे विवीतान्ते न दोषः ॥५.१४८॥

अनावृते च ॥५.१४९॥

अल्पकालं ॥५.१५०॥

उत्सृष्टवृषभसूतिकानां च ॥५.१५१॥

यस्तूत्तमवर्णान्दास्ये नियोजयेत्तस्योत्तमसाहसो दण्डः ॥५.१५२॥

त्यक्तप्रव्रज्यो राज्ञो दास्यं कुर्यात् ॥५.१५३॥

भृतकश्चापूर्णे काले भृतिं त्यजन्सकलं एव मूल्यं दद्यात् ॥५.१५४॥

जाज्ञे च पणशतं दद्यात् ॥५.१५५॥

तद्दोषेण यद्विनश्येत्तत्स्वामिने ॥५.१५६॥

अन्यत्र दैवोपघातात् ॥५.१५७॥

स्वामी चेत्भृतकं अपूर्णे काले जह्यात्, तस्य सर्वं एव मूल्यं दद्यात् ॥५.१५८॥

पणशतं च राजनि ॥५.१५९॥

अन्यत्र भृतकदोशात् ॥५.१६०॥

यः कन्यां पूर्वदत्तां अन्यस्मै दद्यात्, स चौरवच्छास्यः ॥५.१६१॥

वरदोषं विना ॥५.१६२॥

निर्दोषां परित्यजन् ॥५.१६३॥

पत्नीं च ॥५.१६४॥

अजानानः प्रकाशं यः परद्रव्यं क्रीणीयात्, तत्र तस्य न दोषः ॥५.१६५॥

स्वामी द्रव्यं आप्नुयात् ॥५.१६६॥

यद्यप्रकाशं हीनमूल्यं च क्रीणीयात्, तदा क्रेता विक्रेता च चौरवच्छास्यौ ॥५.१६७॥

गणद्रव्यापहर्ता विवास्यः ॥५.१६८॥

तत्संविदं यश्च लङ्घयेत् ॥५.१६९॥

निक्षेपापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः ॥५.१७०॥

राज्ञा चौरवच्छास्यः ॥५.१७१॥

यश्चानिक्षिप्तं निक्षिप्तं इति ब्रूयात् ॥५.१७२॥

सीमाभेत्तारं उत्तमसाहसं दण्डयित्वा पुनः सीमां कारयेत् ॥५.१७३॥

जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः ॥५.१७४॥

अभक्ष्यस्याविक्रेयस्य विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसं दण्डनीयः ॥५.१७५॥

भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु ॥५.१७६॥

मध्यमेषु मध्यमं ॥५.१७७॥

तिर्यक्षु प्रथमं ॥५.१७८॥

प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्ड्यः ॥५.१७९॥

कूटसाक्षिणां सर्वस्वापहारः कार्यः ॥५.१८०॥

उत्कोचोपजीविनां सभ्यानां च ॥५.१८१॥

गोचर्ममात्राधिकां भुवं अन्यस्याधीकृतां तस्मादनिर्मोच्यान्यस्य यः प्रयच्छेत्स वध्यः ॥५.१८२॥

ऊनां चेत्षोडश सुवर्णान्दण्ड्यः ॥५.१८३॥

एकोऽश्नीयाद्यदुत्पन्नं नरः संवत्सरं फलम् ।
गोचर्ममात्रा सा क्षोणी स्तोका वा यदि वा बहु ॥५.१८४॥

ययोर्निक्षिप्त आधिस्तौ विवदेतां यदा नरौ ।
यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता ॥५.१८५॥

सागमेन तु भोगेन भुक्तं सम्यग्यदा तु यत् ।
आहर्ता लभते तत्र नापहार्यं तु तत्क्वचित् ॥५.१८६॥

पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥५.१८७॥

त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि ।
लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥५.१८८॥

नखिनां शृङ्गिणां चैव दंष्ट्रिणां आततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥५.१८९॥

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनं आयान्तं हन्यादेवाविचारयन् ॥५.१९०॥

नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युं ऋच्छति ॥५.१९१॥

उद्यतासिविषाग्निं च शापोद्यतकरं तथा ।
आथर्वणेन हन्तारं पिशुनं चैव राजसु ॥५.१९२॥

भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः ।
यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् ॥५.१९३॥

उद्देशतस्ते कथितो धरे दण्डविधिर्मया ।
सर्वेषां अपराधानां विस्तरादतिविस्तरः ॥५.१९४॥

अपराधेषु चान्येसु ज्ञात्वा जातिं धनं वयः ।
दण्डं प्रकल्पयेद्राजा संमन्त्र्य ब्राह्मणैः सह ॥५.१९५॥

दण्ड्यं प्रमोचयन्दण्ड्याद्द्विगुणं दण्डं आवहेत् ।
नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः ॥५.१९६॥

यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् ॥५.१९७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP