संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ३१

विष्णुस्मृतिः - अध्यायः ३१

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


त्रयः पुरुषस्यातिगुरवो भवन्ति ॥३१.१॥

माता पिता आचार्यश्च ॥३१.२॥

तेषां नित्यं एव शुश्रूषुणा भवितव्यं ॥३१.३॥

यत्ते ब्रूयुस्तत्कुर्यात् ॥३१.४॥

तेषां प्रियहितं आचरेत् ॥३१.५॥

न तैरननुज्ञातः किंचिदपि कुर्यात् ॥३१.६॥

एत एव त्रयो वेदा एत एव त्रयः सुराः ।
एत एव त्रयो लोका एत एव त्रयोऽग्नयः ॥३१.७॥

पिता गार्हप्त्योऽग्निः दक्षिनाग्निर्माता गुरुराहवनीयः ॥३१.८॥

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृत्यास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥३१.९॥

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्वेव ब्रह्मलोकं समाश्नुते ॥३१.१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP