संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
चाञ्चल्यारुणलोचनाञ्चितकृप...

भ्रमराम्बाष्टकम् - चाञ्चल्यारुणलोचनाञ्चितकृप...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्क
चूडामणिम्चारुस्मेरमुखाम् चराचरजगत्सम्रक्षणीम् तत्पदाम् ।
चञ्च्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जिताम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ १ ॥
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थली
म् कर्पूरद्रावमिक्षचूर्णखदिरामोदोल्लसद्वीअटिकाम् ।
लेलापाङ्गतरङ्गितैराधिकृपासारैर्नतानन्दिनीम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ २ ॥
राजन्मत्तमरालमन्दगमनाम् राजीवपत्रेक्षणाम्
राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् ।
राजीवायतमन्दमण्डितकुचाम् राजाधिराजेश्वरीम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ३ ॥
षट्ताराम् गणदीपिकाम् शिवसतीम् षड्वैरिवर्गापहाम्
षट्चक्रान्तरसम्स्थिताम् वरसुधाम् षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदाम् षड्भावगाम् षोडशीम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ४ ॥
श्रिनाथादृतपालितात्रिभुवनाम् श्रिचक्रसम्चारिणीम्
ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम् ।
दीनानामातिवेलभाग्यजननीम् दिव्याम्बरालम्कृताम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ५ ॥
लावण्याधिकभूषिताङ्गलतिकाम् लाक्षालसद्रागिणीम्
सेवायातसमस्तदेववनिताम् सीमन्तभूषान्विता ।
भावोल्लासवशीकृतप्रियतमाम् भण्डासुरच्छेदिनीम् श्री
शैलस्थलवासिनीम् भगवतीम् श्रिमातर.म् भावये ॥ ६ ॥
धन्याम् सोमविभावनीयचरिताम् धाराधरश्यामलाम्
मुन्याराधनमेधिनीम् सुमवताम् मुक्तिप्रदानव्रताम् ।
कन्यापूजनपुप्रसन्नहृदयाम् काञ्चीलसन्मध्यमाम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ७ ॥
कर्पूरागरुकुङ्कुमाङ्कितकुचाम् कर्पूरवर्णस्थिताम्
कृष्टोत्कृष्टसुकृष्टकर्मदहनाम् कामेश्वरीम् कमिनीम् ।
कामाक्षीम् कृणारसार्द्रहृदयाम् कल्पान्तरस्थायिनीम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ८ ॥
गायत्रीम् गरुडध्वजाम् गगनगाम् गान्धर्वगानप्रिया
म् गम्भीराम् ग्जगामिनीम् गिरिसुताम् गन्धाक्षतालम्कृत ।
मगङ्गागौत्मगर्गसम्नुतपदाम् गम् गौतमीम् गोमतीम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ९ ॥
॥ इति श्रिमत्परमह.म्सपरिव्रजकाचार्यस्य श्रिगोविन्दभगवत्पूज्यपाद
शिष्यस्यश्रिमच्छ.म्करभगवतः कृतौ भ्रमराम्बाष्टकम् सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP