संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
अग्रतः संस्कृतं मेऽस्तु प...

संस्कृताष्टकम् - अग्रतः संस्कृतं मेऽस्तु प...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


अग्रतः संस्कृतं मेऽस्तु पृष्ठतो मेऽस्तु संस्कृतम् ।
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥ १॥
संस्कृतं देवभाषाऽस्ति वेदभाषाऽस्ति संस्कृतम् ।
प्राचीन- ज्ञान- भाषा च संस्कृतं भद्रमण्डनम् ॥ २॥
वेदान्तानां पुराणानां शास्त्राणां च तथैव च ।
मंत्राणां तंत्रसूत्राणाम् आद्यभाषाऽस्ति संस्कृतम् ॥ ३॥
रामायणं महाकाव्यं महाभारतमेव च ।
उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥ ४॥
भासस्य कालिदासस्य भवभूतेश्च विश्रुता ।
बाण- शूद्रक- हर्षाणाम् काव्यभाषाऽस्ति संस्कृतम् ॥ ५॥
प्राणभूतं च यत्तत्त्वं सारभूतं तथैव च ।
संस्कृतौ भारतस्याऽस्य तन्मे यच्छतु संस्कृतम् ॥ ६॥
यत्र रामकथागानम् तत्राऽस्ते हनुमान् यथा ।
संस्कृताध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥ ७॥
शृणुमः संस्कृतं नित्यं वदामः संस्कृतं तथा ।
स्मरामः संस्कृतं नित्यं पठामः संस्कृतं तथा ॥ ८॥
रचनाकारः वसन्तः शंकरसुतः नानिवडेकरः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP