संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
सुग्रीवमित्रं परमं पवित्र...

श्रीरामचन्द्राष्टकम् - सुग्रीवमित्रं परमं पवित्र...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् ।
कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥१॥
संसारसारं निगमप्रचारं धर्मावतारं हृतभूरिभारम् ।
सदा निर्विकारं सुखसिन्धुसारं श्रीरामचन्द्रं सततं नमामि ॥२॥
लक्ष्मीविलासं जगतां निवासं भूदेववासं शरदिन्दुहासम् ।
लंकाविनाशं भुवनप्रकाशं श्रीरामचन्द्रं सततं नमामि ॥३॥
मन्दारमालं वचने रसालं गुणैर्विशालं हृतसप्ततालम् ।
क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥४॥
श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामम् ।
विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सततं नमामि ॥५॥
वेदान्तवेद्यं सकलैश्चमान्यं हृतारिमानं क्रतुषु प्रधानम् ।
गजेन्द्रपालं विगताभिमानं श्रीरामचन्द्रं सततं नमामि ॥६॥
लीलाशरीरं रणरङ्गधीरं विश्वैकवीरं रघुवंशधीरम् ।
गंभीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥७॥
अघेऽतिभीतं सुजने विनीतं तमोविहीनं मनुवंशदीपम् ।
ताराप्रगीतं व्यसने च मित्रं श्रीरामचन्द्रं सततं नमामि ॥८॥
रामचन्द्राष्टकं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं तस्य पापं सद्यो विनश्यति ॥९॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP