संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
करारविन्देन पदारविन्दं मु...

मुकुन्दाष्टकम् - करारविन्देन पदारविन्दं मु...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्यपत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥१॥
संहृत्यलोकान् वटपत्रमध्येशयानमाद्यन्तविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ॥२॥
आलोक्यमातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् ।
सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ॥३॥
इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् ।
सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ॥४॥
कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गे नटनप्रियं तम् ।
तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि ॥५॥
शिक्येनिधायाज्यपयोदधीनि कार्यात्गतायां व्रजनायिकायाम् ।
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि ॥६॥
लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कुरदंतपंक्तिम् ।
बिम्बाधरापूरितवेणुनादं बालं मुकुन्दं मनसा स्मरामि ॥७॥
उलूखले बद्धमुदारचौर्यं उत्तुङ्गयुग्मार्जुनभङ्गलीलम् ।
उत्फुल्ल्पद्मायतचारुनेत्रम् बालं मुकुन्दं मनसा स्मरामि ॥९॥
एवं मुकुन्दाष्टकमादरेण सकृत् पठेद्यस्सलभते नित्यम् ।
ज्ञानप्रदं पापहरं पवित्रं श्रियं च विद्यां च यशश्च मुक्तिम् ॥१०॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP