संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
तपसा धर्ममाराध्य पुष्करे ...

यमाष्टकम् - तपसा धर्ममाराध्य पुष्करे ...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ।
धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् ॥१॥
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ।
अतो यन्नाम शमनं इति तं प्रणमाम्यहम् ॥२॥
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ।
कर्मानुरूपं कालेन तं कृतान्तं नमाम्यहम् ॥३॥
भिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ।
नमामि तं दण्डधरं यश्शास्ता सर्वजीविनाम् ॥४॥
विश्वं च कलयत्येव यस्सर्वेषु च सन्ततम् ।
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥५॥
तपस्वी ब्रह्मनिष्टो यः सम्यमी सन् जितेन्द्रियः ।
जीवानां कर्मफलदः तं यमं प्रणमाम्यहम् ॥६॥
स्वात्मारमश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ।
पापिनां क्लेशदो नित्यं पुण्यमित्रं नमाम्यहम् ॥७॥
यज्जन्म ब्रह्मणोंशेन ज्वलन्तं ब्रह्मतेजसा ।
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ॥८॥
यमाष्टकमिदं नित्यं प्रातरुत्ताय यः पटेत् ।
यमात् तस्य भयं नास्ति सर्वपापात् विमुच्यते ॥९॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP