चण्डिकाष्टकम्
सहस्रचन्द्रनित्दकातिकान्त- चन्द्रिकाचयै- दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः ।
कृतामलाऽवलाकलेवरं वरं भजामहे महेशमानसाश्रयन्वहो महो महोदयम् ॥ १ ॥
विशाल- शैलकन्दरान्तराल- वासशालिनीं त्रिलोकपालिनीं कपालिनी मनोरमामिमाम् ।
उमामुपासितां सुरैरूपास्महे महेश्वरीं परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम् ॥ २ ॥
अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे समानयन्ति मूर्द्धरागत परागमंघ्रिजम् ।
महाविरागिशंकराऽनुरागिणीं नुरागिणी स्मरामि चेतसाऽतसीमुमामवाससं नुताम् ॥ ३ ॥
भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन् निचोल- लोलकुन्तलां स्वलोक- शोक- नाशिनीम् ।
अदभ्र- सम्भृतातिसम्भ्रम- प्रभूत- विभ्रम- प्रवृत- ताण्डव- प्रकाण्ड- पण्डितीकृतेश्वराम् ॥ ४ ॥
अपीह पामरं विधाय चामरं तथाऽमरं नुपामरं परेशिदृग्- विभाविता- वितत्रिके ।
प्रवर्तते प्रतोष- रोष- खेलन तव स्वदोष- मोषहेतवे समृद्धिमेलनं पदन्नुमः ॥ ५ ॥
भभूव्- भभव्- भभव्- भभाभितो- विभासि भास्वर- प्रभाभर- प्रभासिताग- गह्वराधिभासिनीम् ।
मिलत्तर- ज्वलत्तरोद्वलत्तर- क्षपाकर प्रमूत- भाभर- प्रभासि- भालपट्टिकां भजे ॥ ६ ॥
कपोतकम्बु- काम्यकण्ठ- कण्ठयकंकणांगदा- दिकान्त- काश्चिकाश्चितां कपालिकामिनीमहम् ।
वरांघ्रिनूपुरध्वनि- प्रवृत्तिसम्भवद् विशेष- काव्यकल्पकौशलां कपालकुण्डलां भजे ॥ ७ ॥
भवाभय- प्रभावितद्भवोत्तरप्रभावि भव्य भूमिभूतिभावन प्रभूतिभावुकं भवे ।
भवानि नेति ते भवानि! पादपंकजं भजे भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम् ॥ ८ ॥
दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या भव्यामिमां स्तुतिमुमापतिना प्रणीताम् ।
यः श्रावयेत् सपुरूहूतपुराधिपत्य भाग्यं लभेत रिपवश्च तृणानि तस्य ॥ ९ ॥
रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ । शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः ॥ १० ॥
॥ इति कविपत्युपनामक- श्री उमापतिद्विवेदि- विरचितं चण्डिकाष्टकं सम्पूर्णम् ॥
Translation - भाषांतर
N/A