संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
श्रीचित्रापुरवासिनीं वरभव...

श्रीवल्लीभुवनेश्वर्यष्टकम् - श्रीचित्रापुरवासिनीं वरभव...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


श्रीचित्रापुरवासिनीं वरभवानीशङ्करत्वप्रदां ओतप्रोतशिवान्वितां गुरुमयीं गाम्भीर्यसन्तोषधाम् । हृद्गुह्याङ्कुरकल्पितं गुरुमतं स्रोतायते तां सुधां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥१॥
चिन्मुद्राङ्कितदक्षिणास्यनिहितां श्रीभाष्यकारश्रियं तां हस्तामलकप्रबोधनकरीं क्षेत्रे स्थितां मातृकाम् । श्रीवल्ल्युद्भवपुष्पगन्धलहरीं सारस्वतत्रायिकां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥२॥
श्रीविद्योदितकौमुदीरसभरां कारुण्यरूपात्मिकां मूर्तीभूय सदा स्थितां गुरुपरिज्ञानाश्रमाश्वासनाम् । सान्निध्याङ्गणशिष्यरक्षणकरीं वात्सल्यसारास्पदां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥३॥
तन्वीं रक्तनवार्कवर्णसदृशीं खन्डेन्दुसम्मण्डितां पीनोत्तुङ्गकुचद्वयीं कुटिकटीं त्र्यक्षां सदा सुस्मिताम् । पाशाभीतिवरैश्वराङ्कुशधरां श्रीपर्णपादां परां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥४॥
श्रीमच्छङ्करसद्गुरुर्गणपतिर्वातात्मजः क्षेत्रपः प्रासादे विलसन्ति भूरि सदये नित्यस्थिते ह्रींमयि । युष्मत्स्नेहकटाक्षसौम्यकिरणा रक्षन्ति दोग्ध्रीकुलं श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥५॥
गोप्त्रीं वत्ससुरक्षिणीं मठगृहे भक्तप्रजाकर्षिणीं यात्रादिव्यकरीं विमर्शकलया तां साधके संस्थिताम् । प्रायश्चित्तजपादिकर्मकनितां ज्ञानेश्वरीमम्बिकां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥६॥
श्रीसारस्वतगेयपेयजननीं ज्ञानादिविद्याप्रदां लोके भक्तसुगुप्तितारणकरीं कार्पण्यदोषापहाम् । आर्यत्वप्रविकासलासनकरीं हृत्पद्मविद्युत्प्रभां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥७॥
क्षुद्रा मे भुवनेश्वरि स्तुतिकथा किं वा मुखे ते स्मितं याऽसि त्वं पदवर्णवाक्यजननी वर्णैः कथं वर्ण्यताम् । वासस्ते मम मानसे गुरुकृपे नित्यम् भवेत् पावनि नान्या मे भुवनेश्वरि प्रशमिका नान्या गतिर्ह्रींमयि ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP