श्री मुरुकाष्टकम्
देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय. Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.
॥श्री मुरुकाष्टकम् ॥ सिद्धिबुद्धिप्रदं देवं सुब्रह्मण्याग्रजं प्रभुम् । सोमाप्रतनयं वन्दे विघ्नराजमहर्निशम् ॥१॥ मुकारस्तु मुकुन्दस्स्यात् रुकारो रुद्रवाचकः। ककारस्तु ब्रह्मवादी मुरुको गुहवाचकः ॥२॥ मरुक श्रीमतान्नथ भोगमोक्षप्रदप्रमो। देवदेव महास्नेन पाहिपाहि सदा विभो ॥३॥ मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् । मोचकं सर्वदुःखानां मोहनाशं सदानुमः ॥४॥ मुरुकेण मुकुन्देन मुनीनां हार्दवासिना । वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥५॥ मुरुकाय नमः प्रात: मुरुकाय नमो निशि । मुरुकाय नमः सायं मुरुकाय नमो नमः ॥६॥ मुरुकास्परात्सत्यात् षण्मुखात् शिखिवाहनात् । गुहात्परं न जानेऽहं तस्वं किमपि सर्वदा ॥७॥ मुरकस्य महेशस्य वल्लीसेनापते: प्रभोः । चिदम्बर विलासस्य चरणौ सर्वदा भजे ॥८॥ मुरुके षण्मुखे देवे शिखिवाहे द्विषड्भुजे । कृत्तिकातनये शम्भौ सर्वदा रमतां मनः ॥९॥ मुरुकत्याष्टकमिदं सोमशेखरयज्वमिः । संस्तुतं यः पठेन्नित्यं शाश्वतं तस्य मङ्गळम् ॥१०॥ ॥ इति श्री मुरुकाष्टकं समाप्तम् ॥
N/A
References : N/A
Last Updated : September 16, 2025

TOP