संस्कृत सूची|संस्कृत स्तोत्र साहित्य|अष्टकम्‌|
शिक्षाष्टकं

शिक्षाष्टकं

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.

चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं श्रेयः कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् |
आनन्द-अम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं सर्वात्मस्नपनं परं विजयते श्रीकृष्ण संकीर्तनम् ॥१॥
नाम्नां अकारि बहुधा निज-सर्व-शक्तिः तत्रार्पिता नियमितः स्मरणे न कालः |
एतादृशी तव कृपा भगवन्-ममापि दुर्दैवम्-ईदृशम्-इहाजनि न-अनुरागः ॥२॥
तृणादपि सुनीचेन तरोरपि सहिष्णुना . अमानिना मानदेन कीर्तनीयः सदा हरिः ॥३॥
न-धनं न-जनं न-सुन्दरीम् कवितां वा जगदीश कामये |
मम जन्मनि जन्मनि ईश्वरे भवताद् भक्तिः अहैतुकी त्वयि ॥४॥
अयि नन्द-तनूज किंकरम् पतितं मां विषमे-भव-अम्बुधौ |
कृपया तव पाद-पंकज- स्थित धूलि-सदृशं विचिंतय ॥५॥
नयनं गलद्-अश्रु-धारया वदनं गद्गद-रुद्धया गिरा |
पुलकैर् निचितं वपुः कदा तव नाम-ग्रहणे भविष्यति ॥६॥
युगायितं निमेषेण चक्षुषा प्रावृषायितम् |
शून्यायितं जगत् सर्वं गोविन्द-विरहेण मे ॥७॥
आश्लिष्य वा पाद-रतां पिनष्टु माम्-अदर्शनान् मर्म-हतां करोतु वा |
यथा तथा वा विदधातु लंपटः मत्-प्राण-नाथस् तु स एव न-अपरः ॥८॥
शिक्षाष्टक ( चैतन्यमहाप्रभु)

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP