मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| मदासुरं सुशांतं वै दृष्ट्... गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... एकदंतस्तोत्रम् - मदासुरं सुशांतं वै दृष्ट्... एकदंतस्तोत्रम्It is another type of Ganesh stotra Tags : ganapatiganeshgodgoddessprayerstotraगजाननगणेशदेवतादेवीस्तोत्र श्रीगणेशायनम: ॥ Translation - भाषांतर मदासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: । भृग्वादयश्च मुनय एकदंतं समाययु: ॥ १ ॥प्रणम्य तं प्रपूज्यदौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदंतं गणेश्वरम् ॥ २ ॥देवर्षय ऊचु: ॥ सदात्मरूपं सकलादिभूतममायिनं सोहमचिंत्यबोधम् ।अनादिमध्यांतविहीनमेकं तमेकदंतं शरणं व्रजाम: ॥ ३ ॥अनंतचिद्रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम् । ह्रदिप्रकाशस्य धरं स्वधीस्थं तमेकदंतं शरणं व्रजाम: ॥ ४ ॥विश्वादिभूतं ह्रदि योगिनां वै प्रत्यक्षरूपेण विभांतमेकम् । सदा निरालंबसमाधिगम्यं तमेकदंतं० ॥ ५ ॥ स्वबिंबभावेन विलासयुक्तं बिंदुस्वरूपा रचिता स्वमाया । तस्यां स्ववीर्यं प्रददाति यो वै तमेकदंतं० ॥ ६ ॥त्वदीयवीर्येण समर्थभूता माया तया संरचितं च विश्वम् । नादात्मकं ह्यात्मतया प्रतीतं तमेकदंतं श० ॥ ७ ॥त्वदीयसत्ताधरमेकदंतं गणेशमेकं त्रयबोधितारम् । सेवंत आपुस्तमजं त्रिसंस्थास्तमेकदंतं० ॥ ८ ॥ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै। आनंदरूपं समभावसंस्थं तमेक० ॥ ९ ॥तदेव विश्वं कृपया तवैव संभूतमाद्यं तमसा विभातम् । अनेकरूपं ह्यजमेकभूतं तमेक० ॥ १० ॥ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् । सत्त्वात्मकं श्वेतमनंतमास्यं तमेक० ॥ ११ ॥तदेव स्वप्नं तपसा गणेश संसिद्धिरूपं विविधं वभूव । सदेकरूपं कृपया तवापि तमेक० ॥ १२ ॥संप्रेरितं तच्च त्वया ह्रदिस्थं तथा सुसृष्टं जगदंशरूपम् । तेनैव जाग्रन्मयमप्रमेयं तमेक० ॥ १३ ॥जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव । तदा विभिन्नं भवदेकरूपं तमेक० ॥ १४ ॥एवं च सृष्ट्वा प्रकृतिस्वभावात्तदंतरे त्वं च विभासि नित्यम् । बुद्धिप्रदाता गणनाथ एकस्तमेक० ॥ १५ ॥त्वदाज्ञया भांति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभांति खे वै । आधारहीनानि त्वया धृतानि तमेक० ॥ १६ ॥त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णु: । त्वदाज्ञया संहरको हरोऽपि तमेक० ॥ १७ ॥यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽप: प्रवहंति नद्य: । सीमां सदा रक्षति वै समुद्रस्तमेक० ॥ १८ ॥यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणोऽचलो वै तमेक० ॥ १९ ॥यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च काम: । यदाज्ञया कालधरोऽर्यमा च तमेक० ॥ २० ॥यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽर्ग्निजठरादिसंस्थ: । यदाज्ञया वै सचराचरं च तमेक० ॥ २१ ॥सर्वांतरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति । अनंतरूपं ह्रदि बोधकं वै तमेक० ॥ २२ ॥यं योगिनो योगबलेन साध्यं कुर्वति तं क:स्तवनेन स्तौति । अत: प्रणामेन सुसिद्धिदोऽस्तु तमेक० ॥ २३ ॥गृत्समद उवाच ॥ एवं स्तुत्वा च प्रह्लाद देवा: समुनयश्च वै । तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुता: ॥ २४ ॥स तानुवाच प्रीतात्मा ह्येकदंत: स्तवेन वै । जगाद तान्महाभागान्देवर्षीन्भक्तवत्सल: ॥ २५ ॥एकदंत उवाच॥ प्रसन्नोऽस्मि च स्तोत्रेण सुरा: सर्षिगणा: किल । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६ ॥भवत्कृतं मदीयं वै स्तोत्रं प्रीतिपदं मम । भविष्यति न संदेह: सर्वसिद्धिप्रदायकम् ॥ २७ ॥यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठत: । पुत्रपौत्रादिकं सर्व लभते धनधान्यकम् ॥ २८ ॥गजाश्वादिकमत्यंतं राज्यभोगं लभेद् ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शांतिदायकम् ॥ २९ ॥मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां श्रृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३० ॥एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् । पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१ ॥न तस्य दुर्लभं कित्र्चित्र्त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन्मर्त्य: सर्वत्र विजयी भवेत्॥ ३२ ॥नित्यं य: पठते स्तोत्रं ब्रह्मभूत: स वै नर: । तस्य दर्शनत: सर्वे देवा: पूता भवंति वै ॥ ३३ ॥एवं तस्य वच: श्रुत्वा प्रह्रष्टा देवतर्षय: । ऊचु: करपुटा: सर्वे भक्तियुक्ता गजाननम् ॥ ३४ ॥। इति श्रीएकदंतस्तोत्र संपूर्णम् । N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP