मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| अनिर्वाच्यं रूपं स्तवननिक... गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... गणेशमहिम्न: स्तोत्रम् - अनिर्वाच्यं रूपं स्तवननिक... गणेशमहिम्न: स्तोत्रम्Still another type of Ganesh Stotra Tags : ganapatiganeshgodgoddessprayerstotraगजाननगणेशदेवतादेवीस्तोत्र श्रीगणेशाय नम: Translation - भाषांतर अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलितस्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महत: । यतो जातं विश्वं स्थितमपि सदा यत्र विलय: स कीदृग्गीर्वाण : सुनिगमनुत: श्रीगणपति: ॥ १ ॥गणेशं गाणेशा: शिवमिति च शैवाश्च विबुधा रविं सौरा विष्णुं प्रथम पुरुषं विष्णुभजका: । वदन्त्येकं शाक्ता जगदुदयमूलां परशिवां न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥ २ ॥तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं समीमांसा वेदांतिन इति परं ब्रह्म सकलम् ।अजां सांख्यो ब्रूते सकलगुणरूपां च सततं प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥ ३ ॥कथं ज्ञेयो बुद्धे परतर इयं बाह्यसरणिर्यथा धीर्यस्य स्यात्स: च तदनुरूपो गणपति: । महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुवद्घनज्योतिर्बिन्दुर्गगनसदृशा किं च सदसत् ॥ ४ ॥अनेकास्यापाराक्षिकरचरणोऽनन्तह्रदयस्तथा नानारूपो विविधवदन: श्रीगणपति: । अनन्ताह्व: शक्त्या विविधगुणकर्मैकसमये त्वसंख्यातानन्ताभिमतफलदोऽनेकविषये ॥ ५ ॥न यस्यांतो मध्यो न च भवति चादि: सुमहतामलिप्त: कृत्वेत्थं सकलमपि खंवत्स च पृथक् । स्मृत: संस्मर्तणां सकलह्रदयस्थ : प्रियकरो नमस्तस्मै देवाय च सकलवंद्याय महते ॥ ६ ॥गणेशाद्यं बीजं दहनवनितापल्लवयुतं मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलद: । सबिंदुश्चांगाद्या गणक ऋषिछन्दोऽस्य च निचृत्स देव: प्राग्बीजं वियदपि च शक्तिर्जपकृताम् ॥ ७ ॥गकारो हेरंब सगुण इति पुंनिर्गुणमयो द्विधाप्येको जात: प्रकृतिपुरुषो ब्रह्म हि गण: । सचेशश्चोत्पत्तिस्थितिलयकरोऽयं प्रमथको यतो भूतं भव्यं भवति पतिरीशो गणपति: ॥ ८ ॥गकार: कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृशो णकार: कण्ठाधो जठरसदृशाकार इति च । अधोभव: कट्यां चरण इति हीशोऽस्य च तनुर्विभातीत्थं नाम त्रिभुवनसमं भूर्भुव: स्व: ॥ ९ ॥गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं सकृत्प्रोच्चैरुच्चारितमिति नृभि: पावनकरम् । गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं न विज्ञातो नाम्न: सकलमहिमा कीदृशविध: ॥ १० ॥गणेशेत्याह्वं य: प्रवदति मुहुतस्य पुरत: प्रपश्यंस्तद्वक्रं स्वयमपि गणस्तिष्ठति तदा । स्वरूपस्य ज्ञानं त्वमुक इति नाम्नास्य भवति प्रबोध: सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥ ११ ॥गणेशो विश्वेऽस्मिन्स्थित इहच विश्वं गणपतौ गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम् । समुक्तं नामैकं गणपतिरिदं मङ्गलमयं तदेकास्ये दृष्टे सकलविबुधास्येक्षणसमम् ॥ १२ ॥बहुक्लेशैर्व्याप्त: स्मृत उत गणेशे च ह्रदये क्षणात्क्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत् । वने विद्यारंभे युधि रिपुभये कुत्र गमने प्रवेशे प्राणांते गणपतिपदं चाशु विशति ॥ १३ ॥गणाध्यक्षो ज्येष्ठ: कपिल इतरो मङ्गलनिधिर्दयालुर्हेरंबो वरद इति चिंतामणिरज: । वरानीशो ढुंढिर्गजवदननामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ॥ १४ ॥महेशोऽयं विष्णु: सकविरविरिंदु: कमलज: क्षितिस्तोयं वह्नि: श्वसन इति खं त्वद्रिरुदधि:। कुजस्तार: शुक्रो गुरुरुडुबुधोऽगुश्च धनदो यम: पाशी कव्य: शनिरखिलरुपो गणपति: ॥ १५ ॥मुखं वह्नि पादौ हरिरपि विधाता प्रजननं रविर्नेत्रे चन्द्रो ह्रदयमपि कामोऽस्य मदन: । करौ शक्र: कटयाववनिरुदरं भाति दशनं गणेशस्यासन्वै ऋतुमयवपुश्चैव सकलम् ॥ १६ ॥अनर्घ्यालंकारैररुणवसनैर्भूषिततनु: करींद्रास्य: सिंहासनमुपगतो भाति बुधराट् । स्मितास्यात्तन्मध्येऽप्युदितरविबिंबोपमरुचि: स्थिता सिद्धिर्वामे मतिरिततगा चामरकरा ॥ १७ ॥समंतात्तस्यासन्प्रवरमुनिसिद्धासुरगणा: प्रशंसंतीत्यग्रे विविधनुतिभि: सांजलिपुटा: । बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरैर्गणक्रीडामोदप्रमुदविकटाद्यै: सहचरै: ॥ १८ ॥वशित्वाद्यष्टाष्टादशदिगखिलाल्लोलमनुवाग्धृति: पाद: खङ्गो जनरसबला: सिद्धय इमा: । सदा पृष्ठे तिष्ठंत्यनिमिषदृशस्तन्मुखलया गणेशं सेवंतेऽप्यतिनिकट सूपायनकरा: ॥ १९ ॥मृगांकास्या रंभाप्रभृतिगणिक यस्य पुरत: सुसंगीतं कुर्वत्यपि कुतुकगंधर्वसहिता: । मुद: पारो नात्रेत्यनुपमप्रमोदैर्विगलिता: स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥ २० ॥हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे गणेश: पार्वत्या बलिविजयकालेऽपि हरिणा । विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे नरै: सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुष: ॥ २१ ॥अयं सुप्रासादे सुर इव निजानंदभुवने महान् श्रीमानाद्यो लघुतरगृहे रंकसदृश: । शिशुद्वारे द्वा:स्थो नृप इव सदा भूपतिगृहे स्थितो भूत्वोमांके शिशुगणपतिर्लालनपर: ॥ २२ ॥अमुष्मिन्संतुष्टे गजवदन एवापि विबुधे ततस्ते संतुष्टस्त्रिभुवनगता: स्युर्बुधगणा: । दयालुर्हेरंबो न च भवति यस्मिंश्च पुरुषे वृथा सर्व तस्य प्रजननमत: सांद्रतमसि ॥ २३ ॥वरेण्यो भूशुंडी गुरुगुरुकुजा मुग्दलमुखा ह्यपारास्तद्भक्ता जपहवनपूजास्तुतिपरा: । गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गण: ॥ २४ ॥मृद: काचिद्धातोश्छविविलिखिता वाऽपि दृषद: स्मृता व्याजान्मूर्ति: पथि यदि बहिर्येन सहसा । अशुद्धोद्धा द्रष्टा प्रवदति तदाह्वां गणपते: श्रुत: शुद्धो मर्त्यो भवति दुरिताद्विस्मय इति ॥ २५ ॥बहिर्द्वारस्योर्ध्व गजवदनवर्ष्मे धनमयं प्रशस्तं वा कृत्वा विविधकुशलैस्तत्र निहतम् । प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं विलोक्यानन्दस्तां भवति जगतो विस्मय इति ॥ २६ ॥सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये मृदो मूर्ति कृत्वा गणपतितिथौ ढुंढिसदृशीम्। समर्चन्त्युत्साह: प्रभवति महान् शर्वसदने विलोक्यानंदस्तां प्रभवति नृणां विस्मय इति ॥ २७ ॥तथा ह्येक: श्लोको वरयति महिम्नो गणपते: कथं स श्लोकेऽस्मिन् स्तुत इति भवेत्संप्रपतिते । स्मृतं नामास्यैकं सकृदिदमनंताह्वयसमं यतो यस्यैकस्य स्तवनसदृशं नान्यदपरम् ॥ २८ ॥गजवदन विभो यद्वर्णितं वैभवं ते त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु । त्वमसि च करुणाया: सागर: कृत्स्न दाताऽप्यति तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥ २९ ॥सुस्तोत्रं प्रपठतु नित्यमेतदेव स्वानंद प्रति गमनेऽप्ययं सुमार्ग: । संचित्यं स्वमनसि तत्पदारविन्दं स्थाप्याग्रे स्तवनफलं नती: करिष्ये ॥ ३० ॥गणेशदेवस्य माहात्म्यमेतद्य: श्रावयेद्वापि पठेच्च तस्य । क्लेशा लयं यांति लभेच्च शीघ्रं स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥ ३१ ॥॥ इति श्रीपुष्पदंतविरचितश्रीगणेशमहिम्न: स्तोत्रं संपूर्णम् ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP