मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| काश्यां तु बहवो विघ्नाः क... गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... गणेशाष्टोत्तरशतनामार्चनस्तोत्रम् - काश्यां तु बहवो विघ्नाः क... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : ganeshagodprayerstotraगणपतीगणेशदेवतादेवीस्तोत्र श्रीगणेशाय नमः । Translation - भाषांतर काश्यां तु बहवो विघ्नाः काशीवासवियोजकाः। तच्छान्त्यर्थं ढुण्ढिराजः पूजनीयः प्रयत्नतः ॥१॥ अष्टोत्तरशतैर्दिव्यैर्गणेशस्यैव नामभिः। कर्तव्यमतियत्नेन नवदूर्वाङ्कुरार्पणम् ॥२॥ हिरण्मयतनुं शुद्धं सर्वार्तिहरमव्ययम्। वरदं गणपं ध्यात्वा पूजा कार्या प्रयत्नतः ॥३॥ ऋषिर्विघ्नेशः इत्यादिनाम्नां सर्वेश्वरः शिवः । देवता विघ्नराजोऽत्र छन्दोऽनुष्टुप् शुभप्रदम् ॥४॥ सर्वप्रत्यूहशमनं फलं शक्तिः सुधात्मिका । कीलकं गणनाथस्य पूजा कार्येति कामदा ॥५॥ विघ्नेशो विश्ववदनो विश्वचक्षुर्जगत्पतिः। हिरण्यरूपः सर्वात्मा ज्ञानरूपो जगन्मयः ॥६॥ ऊर्ध्वरेता महाबाहुरमेयोऽमितविक्रमः । वेदोवेद्यो महाकायो विद्यानिधिरनामयः ॥७॥ सर्वज्ञः सर्वगः शान्तो गजास्यो विगतज्वरः । विश्वमूर्तिरमेयात्मा विश्वाधारः सनातनः ॥८॥ सामगानप्रियो मन्त्री सत्वाधारः सुराधिपः । समस्तसाक्षिनिर्द्वन्द्वो निर्लिप्तोऽमोघविक्रमः ॥९॥ नियतो निर्मलः पुण्यः कामदः कान्तिदः कविः । कामरूपी कामवेषो कमलाक्षः कलाधरः ॥१०॥ सुमुखः शर्मदः शुद्धो मूषकाधिषवाहनः । दीर्घतुण्डधरः श्रीमाननन्तो मोहवर्जितः ॥११॥ वक्रतुण्डः शूर्पकर्णः पवनः पावनो वरः । योगीशो योगिवन्द्याङ्घ्रिरुमासूनुरघापहः ॥१२॥ एकदन्तो महाग्रीवः शरण्यः सिद्धिसेवितः । सिद्धिदः करुणासिन्धुर्भगवान् भव्यविग्रहः ॥१३॥ विकटः कपिलो ढुण्ढिरुग्रो भीमो हरः शुभः । गणाध्यक्षो गणाराध्यो गणेशो गणनायकः ॥१४॥ ज्योतिःस्वरूपो भूतात्मा धूम्रकेतुरनाकुलः । कुमारगुरुरानन्दो हेरम्बो वेदसंस्तुतः ॥१५॥ नागोपवीती दुर्धर्षो बालदूर्वाङ्कुरप्रियः । भालचन्द्रो विश्वधामा शिवपुत्रो विनायकः ॥१६॥ लीलावलम्बितवपुः पूर्णः परमसुन्दरः । विद्यान्धकारमार्तण्डो विघ्नारण्यदवानलः ॥१७॥ सिन्दूरवदनो नित्यो विष्णुः प्रमथपूजितः । शरण्यदिव्यपादाब्जो भक्तमन्दारभूरुहः ॥१८॥ रत्नसिंहासनासीनो मणिकुण्डलमण्डितः । भक्तकल्याणदोऽमेयकल्याणगुणसंश्रयः ॥१९॥ एतानि दिव्यनामानि गणेशस्य महात्मनः । पठनीयानि यत्नेन सर्वदा सर्वदेहिभिः ॥२०॥ नाम्नामेकैकमेतेषां सर्वसिद्धिप्रदायकम् । सर्वविघ्नेशनाम्नां तु फलं वक्तुं न शक्यते ॥२१॥ एकैकमेव तन्नाम दिव्यं जप्त्वा मुनीश्वराः । प्रत्यूहमात्ररहितास्तिष्ठन्ति शिवपूजकाः ॥२२॥दूर्वायुग्मानि सङ्गृह्य नूतनान्यतियत्नतः । पूजनीयो गणाध्यक्षो नाम्नामेकैकसङ्ख्यया ॥२३॥ नभस्यशुक्लपक्षस्य चतुर्थ्यां विधिपूर्वकम् । वक्रतुण्डेशकुण्डे तु स्नानं कृत्वा प्रयत्नतः ॥२४॥ वक्रतुण्डेशमाराध्यं सर्वाभीष्टप्रदायकम् । ध्यायेदधहरं शुद्धं काञ्चनाभमनामयम् ॥२५॥ ततः पूजा यथाशास्त्रं कृत्वा दूर्वाङ्कुरैर्नवैः । पूजा कार्या विशेषेण नामोच्चारणपूर्वकम् ॥२६॥ ततश्च मोदकैर्दिव्यैः सुगन्धैघृतपाचितैः । नैवेद्यं कल्पयेदिष्टं गणेशाय शुभावहम् ॥२७॥ अन्यैश्च परमान्नाद्यैर्भक्ष्यैर्भोज्यैर्मनोहरैः । तोषणीयः प्रयत्नेन वक्रतुण्डो विनायकः ॥२८॥ प्रदक्षिणनमस्कारा दिव्यतन्नामसङ्ख्यया । कर्तव्या नियतं शुद्धैर्मौनव्रतपरायणैः ॥२९॥ ततः सन्तर्प्य विधिवच्छैवान् ब्राह्मणसत्तमान् । पुनरभ्यर्च्य विघ्नेशमिमं मन्त्रमुदीरयेत् ॥३०॥ वक्रतुण्ड सुराराध्य सूर्यकोटिसमप्रभ । निर्विघ्नेनैव सततं काशीवासं प्रयच्छ मे ॥३१॥ इति सम्प्रार्थ्य विधिवत् पूजां कृत्वा पुनर्मुदा । नमस्कृत्वा प्रसाद्यैनं गच्छेत् ढुण्ढिविनायकम् ॥३२॥ ढुण्ढिराजार्चनं सम्यक् कर्तव्यं विधिपूर्वकम् । तत्रैव च विशेषेण पूजां कृत्वा ततः परम् ॥३३॥ पूजनीयाः प्रयत्नेन सर्वदा मोदकप्रियाः । शिवप्रीतिकरा नित्यं शुद्धाः पञ्च विनायकाः ॥३४॥ क्षिप्रसिद्धिप्रदं क्षिप्रगणेशं सुरवन्दितम् । सम्पूज्य पूर्ववत्सम्यक् गच्छेदाशाविनायकम् ॥३५॥ आशाविनायकं सम्यक् पूजयित्वा ततः परम् । अर्कविघ्नेश्वरः सम्यक् पूजनीयः प्रयत्नतः ॥३६॥ पूर्ववत्पूजनीयः स्यात्ततः सिद्धिविनायकः । पूजनीयस्ततः सम्यक् चिन्तामणिविनायकः ॥३७॥ सेवाविनायकोऽप्येवं सम्पूज्यस्तदनन्तरम् । दुर्गाविनायकस्यापि पूजा कार्या ततः परम् ॥३८॥ एवं सम्पूज्य विधिवद्भक्तिश्रद्धासमन्वितैः । शैवाः शङ्करतत्त्वज्ञा भोजनीयाः प्रयत्नतः ॥३९॥ एवं सम्पूजिताः सम्यक् प्रीतास्ते गणनायकाः । काशीवासं प्रयच्छन्ति निर्विघ्नेनैव सादरम् ॥४०॥ आज्येन कापिलेनैव सार्धलक्षत्रयाहुतीः । हुत्वैतन्नामभीः सम्यक् सर्वविद्याधिषो भवेत् ॥४१॥ एतानि दिव्यनामानि प्रतिवासरमादरात् । पठित्वा गणनाथस्थ पूजा कार्या प्रयत्नतः ॥४२॥ यस्यकस्यापि सन्तुष्टो गणपः सर्वसिद्धिदः । अत एव सदा पूज्यो गणनाथो विचक्षणैः ॥४३॥ गणेशादपरो लोके विघ्नहर्ता न विद्यते । तस्मादन्वहमाराध्यो गणेशः सर्वसिद्धिदः ॥४४॥ काशीनिवाससिद्ध्यर्थं विष्णुना पूजितः पुरा । पुरा विघ्नेश्वरः सम्यक्पूजितो दण्डपाणिना ॥४५॥ कर्कोटकेन नागेन गणेशः पूजितः पुरा । शेषेण पूजितः पूर्वं गणेशः सिद्धिदायकः ॥४६॥ काशीयात्रार्थमुद्युक्तो विधिर्विघ्नकुलाकुलः । पूजयामास विघ्नेशं विधिवद्भक्तिपूर्वकम् ॥४७॥ सूर्येणाभ्यर्चितः पूर्वं चन्द्रेणेन्द्रेण च प्रिये । देवैरन्यैश्च विधिवत्पूजितो गणनायकः ॥४८॥ मर्त्यानाममराणां च मुनिनां वा वरानने । न सिद्ध्यन्त्येव कार्याणि गणेशाभ्यर्चनं विना ॥४९॥ इति श्री शिवरहस्यान्तर्गतकाशीमाहात्म्ये हरगौरीसंवादे गणेशाष्टोत्तरशतनामार्चनस्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP