वज्रपञ्जरस्तोत्रम् - शिव उवाच ॥ वज्रपञ्जरकं ना...
वी देवतांची
स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर
असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने
इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise,
that praise aspects of Devi and Devtas. Stotras are invariably uttered
aloud and consist of chanting verses conveying the glory and attributes
of God.
Stotras are the type of popular devotional mainly Sanskrit
literature and are not bound by the strict rules as some other Hindu
scriptures, such as the Vedas. Stotras are accessible by the everyday
householder, in the form of chant also.
शिव उवाच ॥
वज्रपञ्जरकं नाथ ब्रहि मे गणपप्रियम् ॥
ज्ञानमयं महान्धस्य नाशकं सुखदायकम् ॥१॥
गणेश उवाच ॥
आदौ नित्यविर्धि कृत्वा पूजयित्वा गजाननम् ॥
वज्रपञ्जरकं ग्राह्यं सर्वांज्ञानमिनाशनम् ॥२॥
त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचन्द्रम् ॥
नराकारदेहं सदायोगशार्न्ति गणेशं भजे सर्ववन्द्यं परेशम् ॥३॥
एवं ध्यात्वा गणेशानं मानसैरुपचारकै: ॥
पूजयेत्तं नमस्कृत्य धारयेद्वज्रपञ्जरम् ॥४॥
बिन्दुरूपो वक्रतुण्डो रक्षतु मे परस्सदा ॥
देहांश्चतुर्विधान्स्तत्वान्स्तत्वाधारसनातन: ॥५॥
देहमोहयुतश्चेकदन्त: सोऽहंस्वरूपधृक् ॥
देहिनं मां विशेषेण रक्षतु श्रमनाशनम् ॥६॥
नानाबोधान्स्तथा देवो महोदर प्रतापवान् ॥
रक्षतु मे सदाबोधानन्दसंस्थो ह्यहर्निशम् ॥७॥
साख्यं रक्षतु सांस्येश: गजानन सुसिद्धिद: ॥
असत्येषु स्थितं मां स लम्बोदरश्च रक्षतु ॥८॥
सत्सु स्थितं सुमोहेन. विकटं मां परात्पर: ॥
रक्षतु भक्तवात्सल्यात्सदैवामृतधारक: ॥९॥
आनन्देषु स्थितं नित्यं रक्षतु मां समात्मक: ॥
विघ्नराजो महाविघ्नैर्नानाखेलकरप्रभु: ॥१०॥
अव्यक्तेषु स्थितं मा स घूम्रवर्णस्वरूपधृक् ॥
रक्षतु मां सुखाकारसहज: सर्वपूजित: ॥११॥
स्वसंवेद्येषु सुस्थं मां गणेशं स्वस्वरूपधृक् ॥
रक्षतु योगभावेन संस्थितो स्थाननायक: ॥१२॥
अयोगेषु स्थितं नित्यं रक्षतु मां गणेश्वर: ॥
निवृत्तिरूपधृक् साक्षात्सुसमाधिसुखे रत: ॥१३॥
योगशान्तिधरो यान्तु रक्षतु योगसंस्थितम् ॥
गणाधीश: प्रसन्नात्मा सिद्धिबुद्धिसमन्वित: ॥१४॥
पुरो मां गजकर्णश्च रक्षतु विघ्नहारक: ॥
आग्नेयां दक्षिणे भागे चिन्तामणिप्रतापवान् ॥१५॥
पश्चिमे रक्षतु ढुण्ढिर्हेरम्बो वायुदिक्स्थितम् ॥
विनायकश्चोत्तरे तु प्रमोद ऐशिदिक्स्थितम् ॥१६॥
ऊर्ध्वं सिद्धिपति: पातु बुद्धीशोऽध: स्थितं सदा ॥
सर्वाङ्गेषु मय़ूरेश: पातु मां भक्तिलालस: ॥१७॥
यत्र यत्र स्थितं मां तु रक्षतु योगपस्सदा ॥
परशुपाशसंयुक्तो वरदाभयधारक: ॥१८॥
इदं गणपते: प्रोक्तं वज्रपञ्जरकं परम् ॥
धारयस्व महादेव विजयी त्वं भविष्यसि ॥१९॥
य इदं पञ्जरं धृत्वा यत्र कुत्र स्थितो भवेत् ॥
न तस्य जायते क्वापि भयं नानास्वभावजम् ॥२०॥
य: पठेत् पञ्जरं नित्यं स ईप्सितमवाप्नुयात् ॥
वज्रसारतनुर्भूत्वा चरेत्सर्वत्र मानव: ॥२१॥
त्रिकालं य: पठेत् नित्यं स गणेश इवापर: ॥
निर्विघ्नस्सर्वकार्येषु ब्रह्मभूतो भवेन्नर: ॥२२॥
य: श्रुणोति गणेशस्य पञ्जरं वज्रसंज्ञकम् ॥
आरोग्यादिसमायुक्तो भवति गणपप्रिय: ॥२३॥
धनं धान्यं पशुं विद्यां आयुष्यं पुत्रपौत्रकम् ॥
सर्वसंपत्समायुक्त: ऐश्वर्यं पठनाल्लमेत् ॥२४॥
न भयं तस्य वज्रात्तु चक्रात्छूलात्मवेत् कदा ॥
शङ्करादे: महादेव पठनादस्य नित्यश: ॥२५॥
यं यं चिन्तयते मर्त्य: तं तं प्राप्नोति शाश्वतम् ॥
पठनादस्य विघ्नेशपञ्जरस्य निरन्तरम् ॥२६॥
लक्षावृत्तिकृतेनैव सिद्धपञ्जरको भवेत् ॥
स्तम्भयेत् सोऽपि सूर्ये तु ब्रह्माण्डं वशमानयेत् ॥२७॥
एवमुक्त्वा गणेशानोऽन्तर्दधे मुनिसत्तम ॥
शिवो देवादिभिर्युक्तो हर्षित: सम्बभूव ह ॥२८॥
लक्षावृत्तिं चकारासौ यथाविधिपरायण: ॥
सिद्धपञ्जरको स्तोत्रं भूत्वा यदा वधकदैत्यपम् ॥२९॥
गणेशं मनसा ध्यात्वा कृत्वा युद्धं सुदारुणम् ॥
त्रिशूलेनान्धकं सोऽपि विव्याध गर्वसंयुतम् ॥३०॥
एवमन्धकदैत्येशं जित्वा शम्भु: प्रतापवान् ॥
देवान्संस्थापयामास स्वस्थनेषु सुनिर्मयात् ॥३१॥
विश्वं च धर्मसंयुक्तं चकार शङ्करस्स्वयम् ॥
मार्गशीर्षव्रतेनैव पञ्जरेण समन्वित: ॥३२॥
इदमन्धकनाशार्थं चरित्रं य: श्रुणोति च ॥
पठते स लभते प्रीतिं गणेशे सर्वसिद्धये ॥३३॥
इति श्रीमदान्त्येपुराणोपनिषदि मौ० म० ॥अ० धू०॥
॥ वज्रपञ्जरस्तोत्नं संपूर्णम् ॥
N/A
References : N/A
Last Updated : July 12, 2016
TOP