गणेशसुभाषितानि - अगजाननपद्मार्कं गजाननमहर्...
देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.
अगजाननपद्मार्कं गजाननमहर्निशं । अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥१॥
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं मह: ॥२॥
अभिप्रेतार्थसिद्धयर्थं पूजितो य: सुरासुरै: सर्वविध्नच्छिदे तस्मै गणाधिपतये नम: ॥३॥
अविरलमदधाराधौतकुम्भ: शरण्य: फणिवरवृतगात्र: सिद्धसाध्यादिवन्द्य: । त्रिभुवनजन विघ्नध्वान्त विध्वंसदक्षो वितरतु गजवक्त्र: सन्ततं मड्रलं व: ॥४॥
अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुल: । उद्भिन्ननवश्मश्रुश्रेणिरवि द्विपमुखो जयति ॥५॥
अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिड्मुखेषु । विक्षेपलीलाकरशीकराणां करोतु व: प्रीतिमिभाननस्य ॥६॥
आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबाधम् । वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि ॥७॥
आलम्बे जगदालम्बे हेरम्बचरणाम्बुजे । शुष्यन्ति यद्ररज: स्पर्शात्सद्य: प्रत्यूहव्याधय: ॥८॥
उच्चैरुत्तालगण्डस्थलबहुलगलद्दानपानप्रमत्तस्फीतालिव्रातगीतिश्रुतिविधृतिकलोन्मीलितार्धाक्षिपक्ष्मा । भक्तप्रत्यूहपृथ्वीरुहनिवहसमुन्मूलनोच्चैरुदञ्चच्छुण्डादण्डाग्र उग्रार्भक इभवदनो व: स पायादपायात् ॥९॥
उच्चैर्ब्रह्माण्डखण्डद्बितयसहचरं कुम्भयुग्मं दधान: प्रेड्खन्नागारिपक्षप्रटिभटविकटश्रोत्रतालभिराम: । देव: शममोरपत्यं भुजगपतितनुस्पर्धिवर्धिष्णुहस्तस्त्रैलोक्याश्चर्यमूर्ति: स जयति जगतामिश्वर: कुञ्जरास्य: ॥१०॥
एकदन्तद्रतिसित: शम्मो: सू नु: श्रियेऽस्तु व: । विद्याकन्द इवोद्भिन्ननवाड्कुरमनोहर: ॥११॥
एकरद द्बैभातुर निस्त्रिगुण चतुर्भुजोऽपि पञ्चकर । जय षण्मुखनुत सप्तच्छदगन्धिमदाष्टतनुतनय ॥१२॥
कल्याणं वो विधत्तां करटमदधुनीलोलकल्लोलमालाखेलद्रोलम्बकोलाहलमुखरितदिक्चक्रमालान्तरालम् । प्रत्नं वेतण्डरत्नं सततपरिचलत्कर्णतालप्ररोह- द्बाताड्कूराजिहीर्षादर विवृतफणाश्रृड्रभूषाभुजड्रम् ॥१३॥
क्तोडं तातस्य गच्छन्विशदबिसधिया शावकं शीतभानोराकर्षन्गालवैश्वानर निशितशिखारोचिषा तप्यमान: । गड्राम्भ: पातुमिच्छुर्भुज गपतिफणाफूत्कृतैर्दूयमानो मात्रा सम्बोध्य नीतो
दुरितमपनयेब्दालवेषो गणेश: ॥१४॥
गजाननाय महसे प्रत्यूहतिमिरच्छिदे । अपारकरुणापूरतरड्रितदृशे नम: ॥१५॥
गण्डस्थलीगलदमन्दमदप्रवाहमाद्यद् द्बिरेफमधुरस्वरदत्तकर्ण: । हर्षादिवालसनिमीलितनेत्रयुग्मो विघ्नच्छिदे भवतु भूतप- तिर्गणेश: ॥१६॥
चलत्कर्णानिलोद्भतसिन्दिइरार्यणिताम्बर: । जयत्यकालेऽपि सृजन्सन्ध्यामिव गजानन: ॥१७॥
जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्बलिं बध्नता स्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धराम् । पार्वत्या महिषासुरप्रमथने सिद्धाधिपै: सिद्धये ध्यात: पञ्चशरेण विश्वजितये पायात्स नागानन: ॥१८॥
दन्ताग्रनिर्भिन्नहिमाचलोर्वीरन्ध्रोत्थिताहीन्द्रमणिप्रभौघे नागानन: स्तम्भधिया कपोलौ घर्षन्पितृभ्यां हसित: पुनातु ॥१९॥
दन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु धृतादिवराहलीलम् । उल्लाघनोत्फणफणाधरगीयमानक्रीडावदानभिभ- राजमुखं नमाम: ॥२०॥
दूरितसमूहबलाहकपटलीसंहरणपवमानम् ॥२१॥
दोर्द्योतद्दन्तखण्ड: सकलसुरगणाडम्बरेषु प्रचण्ड: सिन्दूराकीर्णगण्ड: प्रकटितविलसच्चारुचान्द्रीयखण्ड: । गण्डस्थानान्तघण्ड: स्मरहतनय: कुण्डलीभूतशुण्डो विघ्नानां कालदण्ड: स भवतु भवतां भूतये वक्रतुण्ड: ॥२२॥
नमस्तस्मै गणेशाय यत्कण्ठ: पुष्करायते ॥ मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ॥२३॥
पायाद्रजेन्द्रवदन: स इमां त्रिलोकीं यस्योद्रतेन गगने महता करेण । मूलावलग्रसितदन्तबिसाड्कुरेण नालयितं तपनबिम्बसरोरुहस्य ॥२४॥
मड्रलकलशद्वयमयकुम्भमदभेतं भजत गजवदनम् । यज्ञनतोयतरलैस्तिलतुलनालम्बिरोलम्बै: ॥२५॥
य: सिन्धौ फेनराशिर्मुवि कुमुदवनं व्योम्नि नक्षत्रलक्ष्मीरब्धौ मुक्तासमूहस्तरुषु सुमनसो मानसे हंससड्घ: । श्रीकण्ठे भूतिलेश: शिखरिषु मणयो दिक्षु नीहारपात: पाण्डु: शुण्डाग्रजन्मा जयति गणपते: शीकराणां विलास: ॥२६॥
युगपत्स्वगण्डचुम्बनलोलौ पितरौ निरीक्ष्य हेरम्ब: । तन्मुखमेलनकुतुकी स्वाननमपनीय परिहसन्पायात् ॥२७॥ लक्ष्मीं तनोतु सुतरामितरानपेक्षमड्घ्रिद्वयं निगमशा- खिशिखाप्रवालम् । हेरम्बभम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधारधुरन्धरं न: ॥२८॥
वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् । अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम् ॥२९॥
विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाट् विघ्नव्यालकुलभिमानगरुडो विघ्नेभपञ्चानन: । विघ्नोत्तुड्रगिरिप्रमेदनपविर्विघ्नाम्बुधौ वाडवो विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वर: पातु व: ॥३०॥
विघ्नेश: सर्वविघ्नान्परिहरतु स यत्कर्णतालादुदञ्चद्वायुव्याधूतकण्ठस्थलयुगलगलद्भूरिसिन्दूरपूरै: । आरुण्याद्वैतभावं गतवति जगति कापि नो भाति भानुर्नैवासौ शीतभानु: क्कचिदपि नितरां भासते वा कृशानु: ॥३१॥
विघ्नेशो व: स पायाद्विहतिषु जलधीन्पुष्कराग्रेण पीत्वा यस्मिनुद्धृत्य तोयं वमति तदखिलं दृश्यते व्योम्नि देवै: । क्काप्यम्भ: क्कापि विष्णु: क्कचन कमलभू: क्काप्यनन्त: क्कचिच्छ्री: क्काप्यौर्व: क्कापि शैला: क्कचन मणिगणा: क्कापि नक्रादिसत्त्वा: ॥३२॥
शिवयो: सुधा हरिद्रादीप्तिमतो: सारभृज्जगत्पित्रो: । त्रिभुवन विघ्नध्वंसी करिकल्प: कश्चिदरुणिमा जयति ॥३३॥
सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हित्रासान्नासाग्ररन्घ्रं विशति फणिपतौ भोगसड्कोचभाजि । गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेर्वैनायक्यश्चिरं वो
वदनविधुतय: पान्तु चीत्कारवत्य: ॥३४॥
हस्तपड्कजनिविष्टमोदकव्याजसञ्चरदशेषपुमर्थम् । नौमि किञ्चिदवधूनितशुण्डादण्डकुण्डलितभण्डितगण्डम् ॥३५॥
N/A
References : N/A
Last Updated : July 12, 2016
TOP