मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
बालस्तरुणभक्तौ च वीरश्शक्...

श्रीषोडशमहागणपतिस्तुतिमाला - बालस्तरुणभक्तौ च वीरश्शक्...

गणपती स्तोत्र

बालस्तरुणभक्तौ च वीरश्शक्तिध्वजस्तथा ।
सिद्धिरुच्छिष्टविघ्नेशः क्षिप्राहेरंबनायकः ॥१॥

लक्ष्मीगणो महाविघ्नो विजयः कल्पहस्तकः ।
ऊर्ध्वविघ्नेशपर्यन्ताः षोडशैते गणाधिपाः ॥२॥

धर्ममर्थं च कामं च लभते यत्प्रसादतः ।
स्तोत्रं तद्विघ्नराजस्य कथ्यते षोडशात्मकम् ॥३॥

करस्थकदलीचूतपनसेक्षुकमोदकम् ।
बालसूर्यप्रभं देवं वन्दे बालगणाधिपम् ॥४॥

पाशांकुशापूपकपित्थजंबू-
फलं तिलान् वेणुमपि स्वहस्तैः ।
धत्ते सदा यस्तरुणारुणाभः
पायात् स युष्मान् तरुणो गणेशः ॥५॥

नालिकेराम्रकदलीगुडपायसधारिणम् ।
शरच्चंद्राभवपुषं भजे भक्तगणाधिपम् ॥६॥

वेतालशक्तिशरकार्मुकचर्मखड्ग-
खट्वांगमुद्गरगदांकुशनागपाशान् ।
शूलं च कुन्तपरशुध्वजमुद्वहन्तं
वीरं गणेशमरुणं सततं स्मरामि ॥७॥

आलिंग्य देवीं हरितां निषण्णं
परस्परस्पृष्टकटीनिवेशम् ।
संध्यारुणं पाशसृणीवहन्तं
भयापहं शक्तिगणेशमीडे ॥८॥

यः पुस्तकाक्षगुणदण्डकमण्डलुश्री-
निर्वर्त्यमान करभूषणमिन्दुवर्णम्
स्तंबेरमाननचतुष्टयशोभमानं
नित्यं स्मरेत् ध्वजगणाधिपतिं स धन्यः ॥९॥

पक्वचूतफलकल्पमंजरीं
इक्षुदण्डतिलमोदकैस्सह ।
उद्वहन् परशुहस्त ते नमः
श्रीसमृद्धियुत देव पिंगल ॥१०॥

नीलाब्जं दाडिमी वीणा शालीगुंजाक्षसूत्रकम् ।
दधदुच्छिष्टनामाऽयं गणेशः पातु मोक्षदः ॥११॥

पाशांकुशस्वदन्ताम्रफलवानाखुवाहनः ।
विघ्नं निहन्तु नस्सर्वं रक्तवर्णो विनायकः ॥१२॥

दन्तकल्पलतापाश रत्नकुंभांकुशोज्वलम् ।
बंधूककमनीयाभं ध्यायेत् क्षिप्रगणाधिपम् ॥१३॥

अभयवरदहस्तः पाशदन्ताक्षमालाः
सृणिपरशुदधानो मुद्गरं मोदकं च ।
फलमधिगतसिंहः पंचमातंगवक्त्रो
गणपतिरतिगौरः पातु हेरंबनामा ॥१४॥

 
बिभ्राणश्शुकबीजपूरकमलं माणिक्यकुंभांकुशौ
पाशंकल्पलतां च खड्गविलसद्ज्योतिस्सुधानिर्मलः ।
श्यामेनात्तसरोरुहेणसहितो देवीद्वयेनान्तिके
गौरांगो वरदानहस्तकमलो लक्ष्मीगणेशोऽवतात् ॥१५॥

कल्हारांबुज बीजपूरकगदा दंतेक्षुबाणैस्समं
बिभ्राणो मणिकुंभचापकलमान् पाशं च चक्रान्वितम् ।
गौरांग्या रुचिरारविंदकरया देव्या सदा संयुतः
शोणांगः शुभमातनोतु भगवान् नित्यं गणेशो महान् ॥१६॥

शंखेक्षुचापकुसुमेषुकुठारपाश-
चक्रांकुशैः कलममंजरिकागदाद्यैः ।
पाणिस्थितैः परिसमाहित भूषणश्रीः
विघ्नेश्वरो विजयते तपनीयगौरः ॥१७॥

पाशांकुशापूपकुठारदंत-
चंचत्कराकॢप्तवरांगुलीयकम् ।
पीतप्रभं कल्पतरोरधस्थं
भजामि नृत्तैकपदं गणेशम् ॥१८॥

कल्हारशालिकमलेक्षुकचापबाण
दंतप्ररोहकगदी कनकोज्वलांगः ।
आलिंगनोद्यतकरो हरितांगयष्ट्या
देव्या दिशत्वभयं ऊर्ध्वगणेश्वरो मे ॥१९॥

इति विरचितं गणेशमूर्ति-
ध्यानपरं स्तवमागमार्थसारम् ।
पठति सततं गणेशभक्त्या
त्रिजगति तस्य न किंचिदप्यलभ्यम् ॥२०॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP