श्रीगणपतिषोडशनामस्तोत्रम् - सुमुखश्चैकदन्तश्च कपिलो ग...
गणपती स्तोत्र
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो विनायकः ॥१॥
धूमकेतुर्गणाध्यक्षः फालचंद्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरंबः स्कंदपूर्वजः ॥२॥
षोडशैतानि नामानि यः पठेत् शृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे सर्वकार्ये च विघ्नस्तस्य न जायते ॥३॥
N/A
References : N/A
Last Updated : January 03, 2019
TOP