श्री गोकर्णक्षेत्रे श्रीगणाधिपतिस्तुतिः - कुक्षिस्फुरन्नागभीत्या मू...
गणपती स्तोत्र
कुक्षिस्फुरन्नागभीत्या मूषिकः प्रपलायते ।
इति मत्वा मयूरं किमारूढोऽसि गणाधिप ॥१॥
मत्कुक्षिसुस्थमखिलं जगदिति सर्वान्प्रबोधयितुम् ।
बृहदुदरतां कृपाब्धे धत्से किं करिवरास्य त्वम् ॥२॥
त्वद्दर्शनकृतहासं चन्द्रमसं हन्तुमुद्युक्तम् ।
त्वामनुनेतुं ताराः कुसुमव्याजेन सेवन्ते ॥३॥
यच्चातुर्येणैव हि लोकानुद्धर्तुमम्बिकानाथः ।
गोकर्णे स्थितिमकरोल्लोकहितं तं प्रणौमि विघ्नेशम् ॥४॥
॥इति श्रीगणाधिपतिस्तुतिः संपूर्णा॥
N/A
References : N/A
Last Updated : January 03, 2019
TOP