मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
परब्रह्मरूपं चिदानन्दरूपं...

मयूरेश्वरस्तोत्रम् - परब्रह्मरूपं चिदानन्दरूपं...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


परब्रह्मरूपं चिदानन्दरूपं परेशं सुरेशं गुणाब्धिं गुणेशम् ।

गुणातीतमीशं मयूरेशवन्द्यं गणॆशं नताः स्मो नताः स्मो नताः स्मः ॥१॥

जगद्वन्द्यमेकं पराकारमेकं गुणानां परं कारणं निर्विकल्पम् ।

जगत्पालकं हारकं तारकं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥२॥

महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् ।

सदा भक्तपोषं परं ज्ञानकोशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥३॥

अनादिं गुणादिं सुरादिं शिवायाः महातोषदं सर्वदा सर्ववन्द्यम् ।

सुरार्यन्तकं भुक्तिमुक्तिप्रदं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥४॥

परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् ।

असंख्यावतारं निजाज्ञाननाशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥५॥

अनेकक्रियाकारकं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् ।

क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥६॥

महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् ।

जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥७॥

महेशादिदेवैः सदा ध्येयपादं सदा रक्षकं तत्पदानां हतारिम् ।

मुदा कामरूपं कृपावारिधिं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥८॥

य इदं पठति स्तोत्रं स कामान् लभतेऽखिलान् ।

सर्वत्र जयमाप्नोति मानवायुः श्रियं पराम् ॥९॥

पुत्रवान् धनसंपन्नो वश्यतामखिलं नयेत् ।

सहस्रावर्तनात् कारागृहस्थं मोचयेज्जनम् ॥१०॥

N/A

References : N/A
Last Updated : February 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP