संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| गृहमानस्थानविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - गृहमानस्थानविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत गृहमानस्थानविधानम् Translation - भाषांतर द्विजातीनां च सर्वेषां वर्णानां वासयोग्यकम्गृहाणां मानविन्यासं स्थानं च वक्ष्यतेऽधुना ॥१॥ग्रामे च नगरे वापि पत्तने खटकेऽपिवावने वा चाश्रमे वापि नद्यद्रे श्च पार्श्वके ॥२॥तेषां तु वेश्मनः स्थानं कल्पयेच्छिल्पिवित्तमःद्वित्रिदण्डं समारभ्य द्विद्विदण्डविवर्धनात् ॥३॥पङ्क्त्यैकपङ्क्तिदण्डान्तं पञ्चधा विपुलं भवेत्पादाधिकमथाध्यर्धं पादोनं द्विगुणं तु वा ॥४॥द्विगुणान्तं गृहायामं गृहचान्तरमधिकम्दीर्घ पादाधिकं दीर्घमन्तपादत्रयान्तकम् ॥५॥गृहायामसमं वापि तस्मात्पादाधिकं तु वाअर्धाधिक त्रिपादं चाधिक्यं वा त्रिगुणान्तकम् ॥६गृहतारायतं ह्येवं विस्तारं गृहतारतत्गृहायामविशाले तु परमशायिकपदं न्यसेत् ॥७॥ब्रह्मस्थानं विनान्येषां सर्वेषां वासयोग्यकम्आर्यो विवस्वान् मित्रं भूधरश्च चतुष्टये ॥८॥द्विजानां मुख्यहर्म्यं स्यात्कल्पयेत्तच्छ्रियावहम्विवश्चिति पदे चैव मित्रके भूधरे तथा ॥९॥भूपानां मुख्यवासं स्यादन्यजातेरयोग्यकम्आपाद्यष्टामरदेशे वर्णानां वासयोग्यकम् ॥१०॥इन्द्रा दिषु चतुर्दिक्षु द्विजानां वासयोग्यकम्यमे च वारुणे चैव भूपाना मुख्यवासकम् ॥११॥वरुणे च शशस्थाने वैश्यानां वासयोग्यकम्नैरृत्ये सोमे ईशे च शूद्रा णां वासयोग्यकम् ॥१२॥अनिलानलदेशे च सर्वेषां वासयोग्यकम्उत्तरेशानपर्जन्ये सर्वेषां पचनालयम् ॥१३॥अन्तरिक्षाग्निपूषा च वर्णानां कूपयोग्यकम्याम्ये च नैरृते वापि सर्वेषां भोजनालयम् ॥१४॥वायव्ये विप्रजातीनां देवताभोजनालयम्अदिते चेशकोणे वा पितॄणां देवतार्चनम् ॥१५॥भल्लाटे च मृगे चैव द्विजानां गृहणीगृहम्गन्धर्वे भृङ्गराजे वा मृगे चैवान्तरिक्षके ॥१६॥सर्वेषां भूपतीनां च महिष्यावासयोग्यकम्पुष्पदन्ते स्वकर्णे वा चायुधानां च मण्डपम् ॥१७॥वरुणे चासुरे नागे मुख्ये पर्जन्यसोमकेवैश्यानां तु परेषां तु गृहिण्यावासयोग्यकम् ॥१८॥सत्यके चान्तरिक्षे वा सर्वेषां शयनालयम्शेषे चैवासुरे चैव वरुणे वासनालयम् ॥१९॥सोमे मृगपदे चैव हेमरत्नस्य वासकम्नागे चैव द्विजानां च हुत कर्मालयं भवेत् ॥२०॥अदिते सर्वजातीनां स्नपनार्थालयं भवेत्तत्रैव सन्धिकार्यार्थं तद्बाह्ये चरणालयम् ॥२१॥यमे च नैरृते वापि सूतकारालयं भवेत्इन्द्रे चैव महेन्द्रे वा दासानामालयं तथा ॥२२॥ततश्चेशानबाह्ये तु चतुर्धारालयं भवेत्पूषे च वितते चैव धेनोरालयमेव च ॥२३॥द्वारस्य वामपार्श्वे तु वाहनानां तदालयम्आपश्चैवापवत्सा च बालालोकनमण्डपम् ॥२४॥ब्रह्मस्थानसमीपे तु विवाहाद्यर्थमण्डपम्इन्द्रे च इन्द्र राजे च वस्त्राच्छादनमण्डपम् ॥२५॥रुद्र रुद्र जये वापि कन्यकारालयं भवेत्सावित्रे च सवित्रे वा पुत्राणां चैव वासकम् ॥२६॥मृगे च सर्वजातीनां विद्याभ्यासार्थमण्डपम्तस्य बाह्यप्रदेशे तु तैलाभ्यङ्गार्थमण्डपम् ॥२७॥अन्त्ये चावरणे चैशे वास्थानमण्डपं भवेत्सोमे चैव विशालार्थं मण्डपं कल्पयेत्ततः ॥२८॥मृगे वा मुख्यके वापि विलासीनां तदालयम्पावके पूषके वाथ सत्यके वा महेन्द्र के ॥२९॥सखीनां च गृहं कुर्यात्तत्रैवानुचरालयम्द्वारस्य दक्षिणे पार्श्वे रक्षकारालयं भवेत् ॥३०॥तत्रैव परिवारार्थं योधकानां तथालयम्गृहक्षते यमे चैव महिषाद्यालयं भवेत् ॥३१॥गन्धर्वे भृङ्गराजे चन्द्र दृष्टानास्यत् तदालयम्वृषे वा नैरृते वापि दिनादीनां गृहं भवेत् ॥३२॥वरुणे पुष्पदन्ते वा युवराजगृहं भवेत्महेन्द्रे पुष्पदन्ते वा मुख्ये वाथ गृहक्षते ॥३३॥सर्वेषामपि वर्णानां द्वारं कुर्याद् विशेषतःभूपानां मुख्यके द्वार विना चोक्तं पुरातनैः ॥३४॥पावके वानिले वापि धान्यकर्णनमण्डपम्नागे वा मुख्यके वापि धान्यागारं तु कल्पयेत् ॥३५॥शोषे वा चासुरे वापि पुष्पमण्डपं संस्थितम्चतुर्दिक्षु चतुष्कोणे सोपायास्थानमीरितम् ॥३६॥वायवे चाथ भल्लाटे नागे वा सर्वहर्म्यकेकुर्यान्नृत्ताङ्गनानां च नृत्तयोग्यं तु मण्डपम् ॥३७॥रोगस्य च पदे चैव कुक्कुटावासयोग्यकम्दौवारिके च सुग्रीवे मेषवासं च कारयेत् ॥३८॥एकं वाथ द्विसालं वा त्रिसालं वार्धभित्तिकम्भूपानां पञ्चसालान्तं द्वित्रिसालमथापि वा ॥३९॥अन्तःसालपदे रोगे नित्यान्त मण्डपं न्यसेत्मुख्ये वासं तु सर्वेषां चोक्तवत्कारयेत्सुधीः ॥४०॥सर्वेषामपि वर्णानां स्थानयोग्यं द्विजन्मनाम्क्षत्रियादित्रयाणां च उक्तरीत्या प्रयोजयेत् ॥४१॥सर्वेषां देवतास्थानं मुख्यं वा कल्पयेत्सुधीःप्रधाने सोपवासं च धनार्थाय भवेदिह ॥४२॥कतुश्चित्तवशाद्वापि सर्वेषां तु प्रधानकम्अन्यत्सालं तु सर्वेषां चैकपक्षालयक्रमात् ॥४३॥अन्यत्सालं तु सर्वेषामालयार्थं द्विपक्षकम्भित्तिमानं तु सर्वेषां प्राकारस्योक्तवत्कुरु ॥४४॥द्वारे च द्वारशालादिगोपुरान्तः क्रमान्न्यसेत्वैश्यशूद्र गृहे द्वारं चैकादित्रितलान्तकम् ॥४५॥कुर्यात्तु शूद्र जातीनां द्वारं शालावसानकम्मुख्यादि चोपवासैश्च सर्वं प्रागुक्तवन्नयेत् ॥४६॥यत्रैव कर्तुर्धिष्णावशतो विमानम्सद्मादिकं सकलसीमविहारकुड्यम्कोशादिनीतिहयमन्दिरदन्तिशालाकुर्यात्ततोऽन्यदखिलं नगरं च शास्त्रात् ॥४७॥इति मानसारे वास्तुशास्त्रे गृहमानस्थानविधानं नाम षट्त्रिंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP