संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| मध्यमदशतालविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - मध्यमदशतालविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत मध्यमदशतालविधानम् Translation - भाषांतर स्त्रीमानं दशतालं च लक्षणं वक्ष्यतेऽधुनापादादुष्णीषसीमान्तं सविंशतिशताङ्गुलम् ॥१॥तदेकाष्टांशकं चैव यवमानमुदीरितम्उष्णीषात्केशपर्यन्तं चतुर्मात्रं शिरोदयम् ॥२॥तस्याधो नेत्रसूत्रान्तं पञ्चाङ्गुलमिति स्मृतम्पुटान्तं नासिदीर्घं स्याद् वेदमात्रं प्रशस्यते ॥३॥पुटान्ताद्धनुपर्यन्तं सार्धं वह्न्यङ्गुलं भवेत्अर्धांशं गलसन्धिः स्याद् गलोत्तुङ्गं युगाङ्गुलम् ॥४॥हिक्कात् हृदयान्तं च सैकार्कमङ्गुलं भवेत्तस्मान्नाभिसीमान्तं मेढ्रान्तं तत्समं भवेत् ॥५॥मेढ्रात्तु चोरुतुङ्गं स्यात्षड्विंशमङ्गुलं भवेत्जानुतुङ्गं चतुर्मात्रं जङ्घा चोरुसमं भवेत् ॥६॥पादोत्सेधं युगाङ्गुल्यं पार्ष्ण्याऽङ्गुष्ठावसानकम्तलं षोडशमात्रं स्यादायाममिति कथ्यते ॥७॥हित्का सूरादधो बाहुदीर्घं षड्विंशदङ्गुलम्कूर्परं च द्विमात्रं स्याद् विंशांशं प्रकोष्ठायतम् ॥८॥मध्याङ्गुल्याग्रपर्यन्तं तलं त्रयोदशांशकम्आयामं तत्षडङ्गुल्यं मध्यमाङ्गुलिदीर्घकम् ॥९॥शेषं तु तलदीर्घं स्याद् वेदमङ्गुष्ठमायतम्सार्धपञ्चाङ्गुलायामं तर्जन्यनामिकायतम् ॥१०॥कनिष्ठाङ्गुलायतं चैव चतुर्मात्रं प्रशस्यतेमुखतारमर्कमात्रं स्यात्कर्णपर्यन्तमेव वा ॥११॥तस्याधो मुखविस्तारं कर्णान्तं रुद्र मात्रकम्सप्ताङ्गुलं गलतारं मध्यमूलं तदग्रकम् ॥१२॥पञ्चादशाङ्गुलं प्रोक्तं वक्षयोरन्तरं स्थलम्तस्याधो स्तनदेशे तु तारं पञ्चदशाङ्गुलम् ॥१३॥प्रत्येकं स्तनविस्तारमर्धाधिकनवाङ्गुलम्वेदार्धार्धाङ्गुलं तुङ्गमक्षिमध्याङ्गुलं भवेत् ॥१४॥विस्तारं द्व्यङ्गुलं प्रोक्तं स्तनचूचुकमण्डलम्स्तनान्तं हृदयान्तं स्यात्तारं त्रयोदशाङ्गुलम् ॥१५॥मध्योदरविशालं स्यादेकादशाङ्गुलं भवेत्तस्याधो नाभिदेशे तु तारं त्रयोदशाङ्गुलम् ॥१६॥नाभिदेशादधोदेशे तारं पञ्चादशाङ्गुलम्तस्याधो श्रोणिविस्तारं विंशत्यङ्गुलमेव च ॥१७॥चतुर्विंशाङ्गुलं श्रोण्यादधः कटिविशालकम्त्रयोदशांशं प्रत्येकं चोरुमूलविशालकम् ॥१८॥ऊरुमध्यविशालं स्याद् द्वादशाङ्गुलमीरितम्नवाङ्गुलं चाग्रविस्तारं सप्तांशं जानुविस्तृतम् ॥१९॥जङ्घामूलं रसाङ्गुल्यं मध्यतारं शराङ्गुलम्नलकान्तं युगाङ्गुल्यं गुल्फं सार्धयुगाङ्गुलम् ॥२०॥तारं स्यात्तलविस्तारं चतुर्मात्रं प्रशस्यतेअग्रतारं शराङ्गुल्यं पार्ष्णितारं युगाङ्गुलम् ॥२१॥अङ्गुष्ठायाम वेदांशं तर्जनी तत्समं भवेत्मध्यमाङ्गुलीदीर्घं स्यात्सार्धं वह्न्यङ्गुलं भवेत् ॥२२॥वह्न्यंशमनामिकायामं कनिष्ठं द्विमात्रकम्दीर्घाङ्गुष्ठं च विस्तारं द्व्यङ्गुलेनांशं तर्जनी ॥२३॥तारं सप्तषट्पञ्चयवमन्याङ्गुलं त्रयम्मध्याङ्गुल्यकनिष्ठान्तं विस्तारं परिकीर्तितम् ॥२४॥बाहुमूलविशालं च चाग्निं जङ्घाङ्गुलं भवेत्मध्यतारमर्धषण्मात्रमग्रतारं षडङ्गुलम् ॥२५॥कूर्परं सार्धपञ्चांशं विस्तारं परिकीर्तितम्प्रकोष्ठमूलविशालं तु पञ्चाङ्गुलमिति स्मृतम् ॥२६॥मध्यं सार्धयुगाङ्गुल्यं तारं चाग्रं युगाङ्गुलम्मणिबन्धविशालं स्याद् वह्न्यङ्गुलमिति स्मृतम् ॥२७॥तलतारं शराङ्गुल्यं कन्याङ्गुलाङ्गुष्ठविस्तृतम्षड्यवं तर्जनीतारम् तत्तुल्यमनामिकाविस्तृतम् ॥२८॥सार्धपञ्चयवं तारं कनिष्ठाङ्गुलिमूलकेमध्याङ्गुलविस्तारं च मूल सप्तयवं भवेत् ॥२९॥केशान्तं नेत्रसूत्रान्तं द्वयोर्मध्ये भ्रुवः स्थितिःएकांशं नेत्रविस्तारं नेत्रायामं गुणाङ्गुलम् ॥३०॥पुटबाह्यासानं स्याद् द्व्यङ्गुलं नासिविस्तृतम्मध्यतारं शिवाङ्गुल्यं तदर्धं मूलविस्तृतम् ॥३१॥पादोनद्विमात्रं स्यात्कक्षयोरन्तरं भवेत्भ्रूमूलं च द्वयोर्मध्ये चैकाङ्गुलमुदीरितम् ॥३२॥भ्रुवायामं नवाङ्गुल्यं भ्रुवतारं द्विमात्रकम्अक्षायामं त्रिधा चैकं तन्मध्ये कृष्णमण्डलम् ॥३३॥आपाकारं भ्रुवाकारं मत्स्याकारमक्षकं तथापुटतारोदयं चार्धमात्रं युक्त्या प्रयोजयेत् ॥३४॥तिलपुष्पाकृतिर्नासि पुटं निष्पावबीजवत्कुर्यादास्यायतं वेदमात्रं सृक्कान्तमेव च ॥३५॥उत्तरोष्ठविशाले तु यवपञ्चकमेव चअधरोष्ठं षड्यवं स्यादायामं च द्विमात्रकम् ॥३६॥कुक्कुटाण्डसमाकारं मुखं युक्त्या प्रकारयेत्भ्रूमध्यसमं कर्ण श्रोत्रतुङ्गं युगाङ्गुलम् ॥३७॥तत्समं नाललम्बं स्याद् घनमर्धाङ्गुलं भवेत्अश्वत्थपत्रवत्कुर्याद् योनितारं युगाङ्गुलम् ॥३८॥दीर्घं सप्ताङ्गुलं प्रोक्तमूर्ध्वतारायतं तत्समम्शेषं तु चोत्तमपङ्क्तितालवत्कारयेत् सुधीः ॥३९॥इति मानसारे वास्तुशास्त्रे स्त्रीमानमध्यमदशतालविधानं नाम षट्षष्टितमोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP