मानसारम् - रथलक्षणम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
देवभूसुरभूपनामारोहार्थं तु योग्यकम्
रथमानं क्रमाद् वक्ष्ये लक्षणं विधिना सह ॥१॥
चक्रं चैव रथाकारं रथमानं च भूषणम्
त्रिवितस्तिं समारभ्य षट्षडङ्गुलवर्धनात् ॥२॥
पञ्चहस्तावसानं स्यात्पञ्चादशविशालकम्
वितस्तिद्वयमारभ्य वितस्त्येकेन वर्धनात् ॥३॥
सार्धवेदकरान्तं स्यात्पूर्ववत्संख्यया चेति
एवं तु चक्रविस्तारं देवभूसुरभूपतेः ॥४॥
अङ्गुलद्वयमारभ्य एकैकाङ्गुलवर्धनात्
सप्तादशाङ्गुलान्तं स्याद् घनं पञ्चादशस्तथा ॥५॥
चक्रं वृत्ताकृतिं कुर्याद्युक्त्याथ पट्ट योजितम्
विस्तारं च त्रिधा कृत्वा मध्ये कुक्ष्यंशकेन तु ॥६॥
तन्मध्ये तु त्रिमात्रादौ सप्तादशांङ्गुलान्तकम्
पञ्चादशं च विपुलं नाभिकुक्षस्य वेशनम् ॥७॥
छिद्रं वृत्ताकृतिं ह्येव वृत्ताश्रं वाथ कुक्षिकम्
त्रिमात्रं पूर्ववद्वृद्ध्या सप्ता दशाङ्गुलान्तकम् ॥८॥
पञ्चादशविधि प्रोक्तमेवं कुक्षिविनिर्गतम्
अन्तर्बहिश्च कुक्षिः स्यात्सर्वालङ्कारसंयुतम् ॥९॥
वितस्तित्रयमारभ्य षट्षडङ्गुलवर्धनात्
पञ्चहस्तावसानं स्यात्सशिखाक्षायतं तथा ॥१०॥
शिखां विनायतं वापि चैकमेकादशायतम्
पञ्चाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥११॥
एकविंशाङ्गुलान्तं स्यान्नवधा चाक्षविस्तृतम्
सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥१२॥
त्रयोविंशाङ्गुलान्तं स्याच्चाक्षोत्सेधं तु पूर्ववत्
शिखाश्च क्रतारं तुल्यं तारं युक्त्यायतं तथा ॥१३॥
शालजम्बूकसारं च सरलं वकुलार्जुनम्
मधुकं तिन्त्रिणी चैव वर्वरद्रुममेव च ॥१४॥
व्याघ्री च क्षीरिणी चैव खादिरं कृकरं शमी
एवं चक्रादिदारुभ्यां युक्त्या बलवशान्न्यसेत् ॥१५॥
दन्ततारे चतुष्पञ्चभागैकं शल्यविस्तृतम्
समं वाथ्यर्धमेवं वा द्वयं तिर्यग्गतायतम् ॥१६॥
दन्तधारसमाधिक्यं कीलायाममुदीरितम्
कुर्याद् दन्ताग्रके छिद्रं युक्त्या कीलं प्रयोजयेत् ॥१७॥
अक्षोपरि तथातारं मानं चाप्यथ वक्ष्यते
सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ॥१८॥
पञ्चहस्तान्तविस्तारं भारं पञ्चादशं भवेत्
विस्तारद्विगुणान्तं च तत्पादांशेन वर्धनात् ॥१९॥
पुरं पृष्ठायतं ह्येवं नवमानमुदीरितम्
त्रिचतुष्पञ्चषट्सप्तसाष्टनन्ददशाङ्गुलम् ॥२०॥
एतत्तु भारयुक्तं स्यात्क्षुद्रे तु द्वयमेव च
मुखे पृष्ठे पट्टके स्यात्कुर्यादुक्तविशालवत् ॥२१॥
सर्वेषां च रथाधारं दारुविस्तारमेव च
तत्पञ्चांशेनवृद्धिः स्याद् द्विगुणान्तं तथोदयम् ॥२२॥
रथाधारोदये देशे चोपधारं प्रयोजयेत्
भारायामे चतुष्पञ्चषट्सप्तांशविभाजिते ॥२३॥
एकैकांशविहीनं स्यात् शेषांशेनायतं तथा
रथाधारसमुत्सेधं विस्तारस्याधिकं तथा ॥२४॥
पादमर्धं त्रिपादं च तत्समं चाधिकोदयम्
दारुतारसमं कुर्यात्सर्वालङ्कारसंयुतम् ॥२५॥
तस्याधः कर्णनं कुर्यादक्षोत्सेधार्धमेव च
तत्तदेशे तु छिद्रं स्यादक्षभारे रथान्तकम् ॥२६॥
छिद्रे प्रवेशयेत्कीलं युक्त्यायपट्टं योजितम्
उपाधाराग्रपृष्ठे तु पट्टिकान्तं प्रयोजयेत् ॥२७॥
रथाधारोपरिदेशे चोपपीठं समं तथा
भारोत्सेधसमं वापि द्विगुणं त्रिगुणं तथा ॥२८॥
सर्वालङ्कारसंयुक्तं चोपपीठोक्तवद् भवेत्
तदूर्ध्वे प्रस्तराकारमुत्तरादिक्रियान्वितम् ॥२९॥
हरिकरिमकररूपैः पत्रचित्रादिसर्वैः
परिकरं तु युगानां नाटकैर्भूतयक्षैः
रसिकरफणिकास्ते तोरणैः क्षुद्र पादैः
कृतमथ करिकर्णैर्नासिकाभूषणाढ्यम् ॥३०॥
कुर्याद्युक्त्या च शोभार्थं युक्त्यास्त्वधो विना रथम्
रथाधारो पर्युक्तं च रथमानमिहोच्यते ॥३१॥
त्रिभिर्वेदवितस्त्यादौ षट्षडङ्गुलवर्धनात्
पञ्चसार्धकरं पञ्चहस्तान्तं विस्तृतं भवेत् ॥३२॥
ऊर्ध्वे चान्तस्थले च दशधा परिकीर्तितम्
तस्मादेकवितस्तयादौ षट्षडङ्गुलवर्धनात् ॥३३॥
सपादद्विकरान्तं स्यादष्टधा निर्गमं भवेत्
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवांशकम् ॥३४॥
एवं युक्त्या तलं कुर्याद् मूलादग्रावसानकम्
वितस्त्येकं समारभ्य त्रित्र्! यङ्गुलविवर्धनात् ॥३५॥
एकहस्तवसानं स्यात् एकादश शिखोन्नतम्
पञ्चदशाङ्गुलारभ्य त्रित्र्! यङ्गुलविवर्धनात् ॥३६॥
सप्तादशाङ्गुलान्तं स्यात्तृतीये तु शिखोन्नतम्
वितस्त्येकं समारभ्य पादाधिककरान्तकम् ॥३७॥
तृतीये पञ्चधोत्सेधं त्रित्र्! यङ्गुलविवर्धनात्
एकहस्तं समारभ्य त्रिवितस्त्यन्तमुच्चकम् ॥३८॥
चतुर्थे पञ्चधा प्रोक्तं पूर्ववद् वर्धयेत्क्रमात्
त्रिमात्राधिकहस्तादौ त्रयस्त्रिंशाङ्गुलान्तकम् ॥३९॥
कुर्यात्पञ्चविधं प्रोक्तं पञ्चधामतलोन्नतम्
पादाधिक्यं तु हस्तादौ सत्रिपादकरान्तकम् ॥४०॥
एवं तु षट्तलं प्रोक्तं पञ्चधा चोच्छ्रयं भवेत्
पादोनत्रिवितस्त्यादौ त्रित्र्! यङ्गुलविवर्धनात् ॥४१॥
त्रिपादस्त्रिवितस्त्यान्तं सप्तान्ते पञ्चधोदयम्
त्रिवितस्ति समारभ्य त्रित्रिमात्रविवर्धनात् ॥४२॥
द्विहस्ताष्टतलोपञ्च पञ्चधायमिति स्मृतम्
सपादत्रिवितस्त्यादौ त्रित्रिमात्रविवर्धनात् ॥४३॥
पादयुगवितस्त्यन्तं नवतले शिरोदयम्
अधश्चैकवितस्त्यादि द्विद्व्यङ्गुलविवर्धनात् ॥४४॥
अष्टविंशाङ्गुलोत्सेधं चैकादिनवान्तकम्
वितस्त्येकं समारभ्य एकैकाङ्गुलवर्धनात् ॥४५॥
मूलादग्रावसानं स्याद् युक्त्या युग्मदशात् न्यसेत्
चतुर्विशाङ्गुलान्तं च पञ्चविंशाङ्गुलान्तकम् ॥४६॥
प्रत्येकं तु तलानां तु ऊर्ध्वभूमोधिकोन्नतम्
तलानामपि सर्वेषां कुट्टिमं तत्प्रकल्पयेत् ॥४७॥
तदधिष्ठानमाने तु चोक्त्मानेन पूर्वके
सोपपीथमधिष्ठानं केवलं वा मसूरकम् ॥४८॥
उपपीठस्य मानं तत्त्यक्त्वाधिष्ठानमेव च
यथाधिष्ठानगण्ये तु कुर्यात् गण्याधिकोन्नतम् ॥४९॥
सर्वेषाम् देवतारूपं कुर्यात्सर्वं विचक्षणः
रथाः सर्वे समाश्राः स्युर्भद्र युक्तम् अथापि वा ॥५०॥
वितस्त्येकं समारभ्य त्रित्रिमात्रविवर्धनात्
त्रिवितस्त्यन्तं भद्रा णां निर्गमं परिकल्पयेत् ॥५१॥
रथाधारे त्रिभागैकं चतुर्भागत्रिभागिकम्
पञ्चभागं त्रिभागं वा विस्तारस्यार्धमेव वा ॥५२॥
चतुर्दिक्षु चतुर्भद्रं स्यात् त्रिद्व्यैकहरिं तु वा
भद्र मध्ये तु भद्रं स्याच्चोक्तवत्कारयेत्सुधीः ॥५३॥
युक्त्या च भद्रं सर्वेषां नासिकायुक्तमेव वा
पक्षे च कुड्मलं युक्तं वक्त्रानां तु सुयोजयेत् ॥५४॥
पूर्वोक्तरथनामानि चाधुना प्रवक्ष्यते
नभस्वान्भद्र कं चैव भद्रं स्यात्प्रभञ्जनम् ॥५५॥
निवाताख्यं भद्र कं चैव पवनाख्यं च भद्र कम्
पृषद् चेन्द्र कं चैवमनिलाख्यं च भद्र कम् ॥५६॥
एतानि रथनामानि चाश्रयुक्तं रथे विदुः
नभस्वान्भद्रं वेदाश्रं प्रभञ्जनं षडश्रकम् ॥५७॥
वाताख्यं द्विभद्रं स्यात्पवनाख्यं त्रिभद्र कम्
पृषतं चेन्द्र काख्यं स्याद् दशाश्रं भद्र संयुतम् ॥५८॥
द्वादशं भद्र संयुक्तमनिलाख्यमुदीरितम्
केचित्तु युक्तमेवं वा पट्टाश्रं रथमेव वा ॥५९॥
वृत्तं वा चायतं वृत्तं वा पट्टाश्रे चायतं तु वा
अष्टाश्रं वा षडश्रं वा द्व्यश्रवृत्तमथापि वा ॥६०॥
वेदाश्रं नागरं प्रोक्तं वस्वश्रं द्रा विडं भवेत्
सुवृत्तं वेसरं प्रोक्तं रन्ध्रं स्यात्तु षडश्रकम् ॥६१॥
द्व्यश्रवृत्तं समाकारं आलिङ्गं परिकल्पयेत्
पूर्वोक्ताकारायामे तद्देवाख्यं विदुर्बुधाः ॥६२॥
पूर्वोक्तभद्र सर्वेषां नानादिनरथे भवेत्
रथताराङ्घ्रिकांशेन वर्धनं द्विगुणायतम् ॥६३॥
पूर्वोक्तक्षुद्र मानेन देवभूसुरभूपतेः
युद्धार्थं च मखार्थं स्यान्मध्यनित्योत्सवार्थकम् ॥६४॥
देवानां भूपतीनां च महामानं महोत्सवैः
युद्धयोग्यं यथासर्वे चक्रत्रयसमन्वितम् ॥६५॥
मखार्थमर्धरथं यथासर्वे वेदपादसमन्वितम्
नित्योत्सवं यथासर्वे पञ्चचक्रसमन्वितम् ॥६६॥
महोत्सवरथाना च सर्वेषां चक्र वर्तते
षट्सप्ताष्टनवं वाथ दशचक्रं क्रमाद् विदुः ॥६७॥
युद्धयोग्यं त्रिकं वेदि मखार्थं द्वयमेव वा
नित्योत्सवरथाश्चैकद्वित्रिवेदि प्रकल्पयेत् ॥६८॥
महोत्सवरथे वेदि त्रितयादि नवान्तकम्
कल्पयेत्सार्वभौमस्य चैव नवश्चेति वेदिका ॥६९॥
महाराजे सप्तकान्तमेकादि प्रकल्पयेत्
नरेन्द्रा ख्यनृपतेः पञ्चकादि योजयेत् ॥७०॥
पार्ष्णिकाख्यस्य भूपानामेकादि चतुरान्तकम्
विष्णोरत्र्! यम्बकस्यापि चैकाद्ये नववेदिकाः ॥७१॥
बौद्धादिजिनकान्तानां सप्तान्तं चैकादितः
अन्येषामपि देवानां वेदीनां वेदसंख्यकम् ॥७२॥
एकादिपञ्चसंख्यान्तं कुर्याच्छिल्पिवरैरपि
रथानामूर्ध्वदेशस्य चालङ्कारं प्रवक्ष्यते ॥७३॥
मानं यथायुक्तिवशादेकद्वित्रितलं तु वा
कुर्याद् देवरथानां तु शेषमागमतोक्तवत् ॥७४॥
अथाधो गुरुपादसरोरुहम्
गुरुवरं च षण्मुखं सरस्वतिं
गणपतिं त्वथ शङ्करवल्लभाम्
विविधवाहनवस्त्रविभूषितान् ॥७५॥
अथ रथाभरणं परिकथ्यते
शिखिशिखण्डकचामरतोरणम्
विविधकिङ्किणीनिर्मलदर्पणम्
व्यजनकेतकमाल्यमनोहरम् ॥७६॥
आदौ रथस्य तलतोऽपि भुर्वरवेश्या
लास्याङ्गना सकलभावन सम्यक् विवस्त्राम्
अत्युच्चमर्दलनिस्वन धार्य
चोर्ध्वेऽर्थमल्पमरुतं मग्ने दधानाम् ॥७७॥
वीणावेणुमृदङ्गपानि बहुशो विद्वत्सभापण्डितैः
सामन्तादिनृपालपुत्रसचिवैः पुरोहितैर्ब्राह्मणैः
किञ्चित् ध्यापकनृत्तनाथनिवहान् संवेष्ट्य तच्छिल्पिभिः
युक्तं विष्णुमहेश्वरानपि तथा भक्तैश्च संवेष्टितान् ॥७८॥
द्वारपालकसयक्षकिन्नरान्
नागकन्यकगरुत्ननिध्यपि
कल्पवृक्षयुतचक्रवर्तिभिः
मण्डितं कुरु सर्ववेदिभिः ॥७९॥
इति मानसारे वास्तुशास्त्रे रथलक्षणविधानं नाम त्रिचत्वारिंशोऽध्यायः
N/A
References : N/A
Last Updated : October 07, 2022
TOP