मानसारम् - अङ्गदूषणविधानम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
आलयाद्यङ्गसर्वेषु हीनाधिक्यं भवेद्यदि
राजराष्ट्रादिकर्तॄणां दोषप्राप्तिरिहोच्यते ॥१॥
विस्तारे च समुत्सेधे उपाने च मसूरके
पादे च प्रस्तरे चैव वेदिकायां गले तथा ॥२॥
शिखरे स्तूपिकायाश्च नासिकापञ्जरादिभिः
द्वारे च भद्र देशे च मृणालादिषु देशके ॥३॥
गर्भगेहे तले सर्वे सोपानादिषु सालके
गोपुरैः मण्डपाद्यैः च चान्तराले त्वलिन्द्र के ॥४॥
प्रच्छादने प्रपाङ्गे च उपप्रान्ते तथोत्तरे
भित्तिदेशे च भागे च सर्वाङ्गे च न दोषयुक् ॥५॥
तस्मात्तु दोषसंप्राप्तिः शिल्पिदृष्टानि वारयेत्
विस्तारे न्यूनं तत्मात्तु कर्तृदारिद्र य्मावहेत् ॥६॥
तद्भूयोधिकमानं चेद् दारानाशो भवेद् ध्रुवम्
आदितुङ्गविहीनं चेत्कर्तृव्याधिमतो विदुः ॥७॥
तदेवाधिकमानं चेच्छत्रुवृद्धिर्न संशयः
अन्तर्जन्म बहिर्जन्म निम्रमुन्नतया स्थितम् ॥८॥
निर्वंशमेव तत्सर्वं कर्तृवंशं भवेद् ध्रुवम्
तज्जन्मदेशमार्गे च निम्रोन्नतमथापि ते ॥९॥
निर्गमोद्गमने वापि पुत्रनाशमवाप्नुयात्
अधिष्ठानोत्तुङ्गहीनं स्यात्स्थाननाशं धनक्षयम् ॥१०॥
वप्रादिवर्गसर्वेषु तन्मार्गे निम्नमुन्नतम्
कर्तॄणां क्षयरोगः स्यात्तुङ्गेन करणेन च ॥११॥
पादतुङ्गाधिकं हीनं गोत्रनाशं कुलक्षयम्
प्रस्तरोत्तुङ्गहीनं चेद् विनश्योत्तत्क्षणादेव ॥१२॥
तदेवाधिकं मानं चेत् प्रमाणं कर्तृनाशनम्
वेदिकायां विहीनं चेत् कर्तुर्दृष्टिर्दीनं व्रजेत् ॥१३॥
तत्कर्णेऽधिकहीनं चेद् भोजनेन विनाशनम्
शिखराङ्गाधिकं हीनं कर्तुः स्यात्स्फोटनं शिरः ॥१४॥
स्तूपिकमधिकं हीनं चेज्जनानां तु दरिद्र कम्
नासिकाङ्गमधिकं हीनं चेत् कर्तृरोगं भविष्यति ॥१५॥
पञ्जराद्यङ्गं हीनं चेदधिकं श्रीविनाशनम्
द्वारे च भद्र देशे च मानहीनाधिकं तु चेत् ॥१६॥
महारोगं भवेत्कर्तू राजाराष्ट्रं विनश्यति
मृणाल्यधिकहीनं चेत् कुक्षिरोगो भवेद् ध्रुवम् ॥१७॥
जालकाधिकहीनं स्यात् श्रीहीनमर्थनाशनम्
शुद्धगर्भगृहमाधिक्यं हीनं चेद् ग्रामनाशनम् ॥१८॥
हर्म्यजन्म समारभ्य सालजन्म प्रदेशकम्
उत्तमं मानयेन्मानं जालस्योन्नतनिम्नकम् ॥१९॥
समन्ततो निम्नत्वमुन्नतत्वं प्रकारयेत्
कृतमज्ञानतो वस्तु सर्वसंपद्विनाशनम् ॥२०॥
प्राकारान्तप्रदेशं स्यात्परिवारालयादिकम्
सालजन्मसमं चैव धाम्नोजन्मसमं तु वा ॥२१॥
अथवा विपरीतं चेज्जनानां संपदं हरेत्
सोपानमधिकं हीनं कर्ता पङ्गुर्भवेद् ध्रुवम् ॥२२॥
सालाङ्गमधिकं हीनं चेच्चौरैरर्थं विनश्यति
गोपुराङ्गमधिकं हीनं सर्वनाशं न संशयः ॥२३॥
मण्डपादि सभाशाला तत्तन्न्यूनाधिकं तु चेत्
सर्वसंपद्विनाशाय राजा राष्ट्रं विनश्यति ॥२४॥
अन्तर त्वलिन्द्रं वा हीनाधिक्यं प्रमाणकम्
कर्तॄणां परिवारादि पुत्रपौत्रविनाशनम् ॥२५॥
ऊर्ध्वतालस्य चाङ्गेषु मानं हीनाधिकं तु चेत्
लोके भवेत्त्वनावृष्टिः स्वयं वृष्ट्या विनश्यति ॥२६॥
प्रपाङ्गमधिकहीनं चेल्लोके दारिद्र मावहेत्
लुपमानमधिकं हीनं सज्जनेन च प्रविनश्यति ॥२७॥
अन्तश्चैव बहिश्चैव विपरीतोत्तरं तु चेत्
विद्यावृद्धिविनाशं स्याद् बन्धुनाशं भवेत् ध्रुवम् ॥२८॥
कुड्याङ्गमधिकहीनं चेद् विस्तारे चोदयेऽपिवा
द्विजातिसर्ववर्णानां सर्वनाशकरं भवेत् ॥२९॥
भित्तिश्रोण्यधिकं हीनं स्थाननाशं धनक्षयम्
तत्रहीनाधिकं चेत्पादस्थानाङ्घ्रिकाश्रयम् ॥३०॥
सर्वेषां भित्तिमानेषु तत्र दोषो न विद्यते
पादस्थानं विना भित्तिं सर्वदोषसमुद्भवम् ॥३१॥
यत्तद्वास्तु यथा कुर्यात्तत्तदंशाधिकाङ्घ्रिकान्
तथाङ्घ्रियोरन्यथा स्यात्तु पुत्रपौत्रविनाशनम् ॥३२॥
उक्तवत्स्यादङ्घ्रिकांशं च कुर्यात्तच्छुभदं सदा
ऊहापोहादिकीर्तिभ्यां शास्त्रोक्ते तु यदा तथा ॥३३॥
उहि हीना चोक्तहीनात्मधि कर्तृ विनश्यति
तस्मात्तु शिल्पिविद्वद्भिः परिग्रहोक्तवत्कुरु ॥३४॥
अङ्गहीनाधिकं दोषमेवमुक्तं पुरातनैः ॥३५॥
प्रासाद मण्डप तथावरुणादिदेशे
साङ्गे च गोपुरपदे त्वपरेषु सर्वे
दोषाधिकं यदि भवेत्त्वथवा गुणाधिकम्
तन्मर्त्यदेवनृपतिष्वपि तत्फलं स्यात् ॥३६॥
इति मानसारे वास्तुशास्त्रे अङ्गदूषणविधानं नाम ऊनसप्ततितमोऽध्यायः
N/A
References : N/A
Last Updated : October 07, 2022
TOP