संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
प्रतिमाविधानम्

मानसारम् - प्रतिमाविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


षोडशप्रतिमादीनां विष्णुविभवसर्वतः
उष्णीषात्पादपर्यन्तं मानं संक्षिप्यतेऽधुना ॥१॥

लिङ्गमानवशाद् विष्णुमूलबेरवशात्क्रमात्
उत्तमं मध्यमं सार्धगर्भगेहविशालके ॥२॥

हर्म्यतारवशाद् द्वारं वंशाधिष्ठानपादुके
हस्तमानवशाद् गृह्यं तालमानावतालके ॥३॥

यजमानवशान्मूलबेरलिङ्गाङ्गुलं तथा
मानाङ्गुलवशान्मानं मानद्वादशभेदकम् ॥४॥

लिङ्गमानादिषण्मानं भोगमानं सिद्धिदम्
हस्तादिवशान्मानं भोगमोनं प्रशंसितम् ॥५॥

अङ्गुलं मुक्तिकामस्य कर्तुरिच्छावशान्नयेत्
तस्मात्तन्मूललिङ्गादिमानं मानधृतमुच्यते ॥६॥

लिङ्गे स्वयंभुवे ज्ञात्वा मानुषे च द्विधा भवेत्
स्वयंभुलिङ्गे तु शिरोमानं च संग्रहम् ॥७॥

परिणाहे यथा स्थूलं देशे विस्तारं मानयेत्
मानुषं लिङ्गतुङ्गे तु तच्छिरोमानकं त्यजेत् ॥८॥

विस्तारे परिणाहे तु यदिच्छं देहं गृह्यते
एवं लिङ्गद्वयोत्तुङ्गे पीठमानं त्यजेद् बुधैः ॥९॥

लिङ्गशुद्धोदयं वाथ तत्तन्नाहसमं भवेत्
केचित्तत्त्रियमानं तु षोडशांश विभाजिते ॥१०॥

तत्तदंशेन वृद्धिः स्याद्धीनं वा देशकान्तकम्
अथवा तत्तदंशेन लोकभूततलांशकम् ॥११॥

नवमेकादशं चैव द्व्यधिक्यं वाध हीनकम्
एवं लिङ्गवशात्प्रोक्तं विष्णुबेरवशोच्यते ॥१२॥

मूलबेरसमं वापि नेत्रान्तं वा पुटान्तकम्
हन्वन्तं बाहुसीमान्तं स्तनान्तं हृदयान्तकम् ॥१३॥

नाभ्यन्तं मेढ्रसीमान्तं नवमानम् चोत्सवोदयम्
तदर्धं कौतुकोत्सेधं कन्यसादि त्रयं त्रयम् ॥१४॥

शुद्धगर्भगृहं कृत्वा नन्दनन्दोदयं भवेत्
तदेवं नवमानं स्यान्नवतिविधमानकम् ॥१५॥

एवं गर्भगृहमानवशान्मानं प्रकल्पयेत्
प्रासादविधृते मानं गर्भगेहप्रमाणवत् ॥१६॥

शुद्धद्वारोदयं वाथ विस्तारे मे व वा
तत्पादाधिकहीनं वा तत्तयोर्मध्यमानके ॥१७॥

समं वा पादमाधिक्यं द्वारमानं दशोदयम्
अधिष्ठानोदयं चैव पादतुङ्ग द्वयं ततः ॥१८॥

प्रत्येकं नवधा कृत्वा नवमानमुदीरितम्
हस्तादिनवहस्तान्तं हस्तमानवशोदयम् ॥१९॥

तालादिनवतालान्तं नवतालादिमानकम्
मुष्ट्यादि नवमुष्ट्यन्तं मुष्टिमाननवोदयम् ॥२०॥

कर्तृतुङ्गसमं वापि नेत्रान्तं च पुटान्तकम्
हन्वन्तं स्कन्धसीमान्तं स्तनान्तं हृदयान्तकम् ॥२१॥

स्यात्कर्तृमानं नवोदयम्
एतेषां चाष्टमानं तज्जात्यंशैस्तु नियोजयेत् ॥२२॥

तन्मानं शिल्पिभिः प्राज्ञा षट्शुभायादि कारयेत्
अशुभायादिकं चोक्तं त्रिंशद्भाग विभाजिते ॥२३॥

तद्भागैकेन वृद्धिः स्याद् यश् शुभायादिसंभवम्
सकलं चोत्सवादीनां यश् शुभांशावसानकम् ॥२४॥

अंशकं मानमेवोक्तमङ्गुलैर्मानमुच्यते
यल्लिङ्गतुङ्गं संग्राह्य चतुर्विंशच्छतान्तकम् ॥२५॥

लिङ्गाङ्गुलमिति प्रोक्तं बेरं तालवशादपि
कृत्वा बेराङ्गुलं प्रोक्तं मानाङ्गुलमिहोच्यते ॥२६॥

यवताराष्टमात्रं स्याद् देवानामङ्गुलं भवेत्
मध्यं मुनियवाङ्गुल्यं षट्पञ्चाङ्गुलायतम् ॥२७॥

मानाङ्गुलमिति प्रोक्तं देहलब्धाङ्गुलं भवेत्
अङ्गुलद्वयमारभ्य जात्यंशम विनोदयम् ॥२८॥

द्वित्र्! यङ्गुलं समारभ्य मध्यं भूताङ्गुलारभेत्
सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥२९॥

पञ्चविंशच्छतान्तं स्याद् यश् शुभायादिसंभवम्
नागं नन्दं गुणं चाष्टनववेदगुणस्तथा ॥३०॥

भानुपङ्क्त्यष्टहर्मौ निनन्दक्षयं क्रमात्
शेषमायामयोन्यं च नक्षत्रं वारमंशकम् ॥३१॥

दरिद्रं दारनाशं च श्रीकं विजयाद्भुतम्
भुक्तिं मुक्तिं च भोगं च अर्थलाभद्वयावहम् ॥३२॥

कीर्तिदं पुष्कलं चैव द्वादशायां च तत्फलम्
सिद्धिदं विजयं चैव श्रीकरं चार्थहानिकम् ॥३३॥

भोगं च शत्रुनाशं च चक्षुमायार्थलाभकम्
मुदितं सौख्यकं चैव दशधा वेथतत् फलम् ॥३४॥

आयं सर्वहरं पुण्यं व्ययं सर्वहरं सुखम्
आयाधिक्यं व्ययं हीनं सर्वसंपत्क सदा ॥३५॥

यत्फलं शुभयुक्तं चेदायहीनं तदूषणम्
पूज्यं व्ययं सममेवं तत्र दोषो न विद्यते ॥३६॥

ध्वजः सिंहो वृषो हस्ति स तेषां शुभयोनयः
जन्मद्वयं चतुःषष्टिभिरष्टनन्दशुभक्षतम् ॥३७॥

नामजन्मादिनन्दं च गणनैस्तु विधीयते
कर्तृराश्यादिनाश्यं च सेना द्वितीयान्तकम् ॥३८॥

तृतीये मानजक्षादौ पूर्ववद् गणनैस्तु वा
तस्मात्तृतीयपर्यन्तमृक्षैः सर्वशुभावहम् ॥३९॥

गुरुशुक्रबुधचन्द्र मुख्यवारं प्रशस्यते
तस्करोधन षण्डश्च प्रेष्यान्यानि शुभांशकम् ॥४०॥

वर्ज्यं षष्ठाष्टमं राशिमन्यत्सर्वं शुभं भवेत्
गस् सर्वशुभं प्रोक्तं मानुषासुरं वर्जयेत् ॥४१॥

एकनेत्रं द्विनेत्रं वा संयुक्ता सं विसर्जयेत्
शुभयोगं शुभमेवं मृत्युयोगविनाशनम् ॥४२॥

यत्र दोषो गुणाधिक्यं तत्र दोषो न विद्यते
तेषामधिकगुणं वानं सर्वदोषकरं भवेत् ॥४३॥

तस्मात्परिहरेद् विद्वान् जनमेवं प्रकल्पयेत्
तन्मात्राङ्गुलमानोच्चमात्मार्थं प्र यम् ॥४४॥

कुर्यादायादि सर्वेषां चोक्तवच्छिल्पिवित्तमः
अन्यान्यमन्यतो ग्राह्यं चोक्तवत्तत्र वित्तमः ॥४५॥

ब्रह्माविष्णुरुद्रा णां बुधस्य जनकस्य च
अन्यैश्च व मानं तु संग्रहम् ॥४६॥

एवं तु चोत्सवादीनां स्थावरं जङ्गमादिनः ॥४७॥

इति मानसारे वास्तुशास्त्रे प्रतिमाविधानं नाम चतुःषष्टितमोऽध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP