संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
द्वादशतलविधानम्

मानसारम् - द्वादशतलविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अन्यभूमिविधानस्य लक्षणं वक्ष्यतेऽधुना
भूमिलम्बविधाने तु विस्तारोत्सेधमुक्तवत् ॥१॥

क्षुद्रा ल्पमध्यमुख्ये तु यन्मानोरम्य मानयेत्
विमानस्य विमाने तु चोक्तवद्भक्तिसंग्रहम् ॥२॥

पाञ्चालं द्रा विडं चैव मध्यकान्तं कलिङ्गकम्
वरातं केरलं चैव वंशकं मागधं तथा ॥३॥

जनकं स्फूर्जकं चैव दशकान्तं प्रकीर्तितम्
रविभूमिविशाले तु चाष्टविंशांशकं भवेत् ॥४॥

महाशाला दशांशं स्याच्छेषं पूर्ववदाचरेत्
पाञ्चालं द्रा विडं चैव रविभूम्यल्पहर्म्यके ॥५॥

मध्यमालयविस्तारे त्रयस्त्रिंशद्विभाजिते
त्रिभागं कूटविस्तारं मध्यभद्रै कभागिकम् ॥६॥

महाशाला नवांशं स्याच्छेषं पूर्ववदाचरेत्
मध्यकान्तमिति प्रोक्तं तस्य कूटद्विभागिकम् ॥७॥

अनुशाला षडंगं स्यात्तस्याङ्गं पूर्ववद्भवेत्
एवं कालिङ्गकान्तं स्यान्नानालङ्कारसंयुतम् ॥८॥

चतुराधिकत्रिदशभागं हर्म्यविशालके
अष्टांशेन महाशाला पार्श्वे शाला शिवांशकं ॥९॥

द्व्यंशानुपञ्जरशाला तदर्धं चान्तरालकम्
अनुशाला त्रिभागं स्यादेकांशमन्तरालकम् ॥१०॥

द्विंशं पञ्जरशाला च पार्श्व हारं शिवांशकम्
कूटानां च द्विभागं स्यात्सर्वं युक्त्यं सभद्र कम् ॥११॥

महाशाला युगांशेन मध्यमत्रप्रकारयेत्
तले तले विमाने तु शालापञ्जरषोडशम् ॥१२॥

क्षुद्र शाला द्विहारा च तन्मध्ये चाष्टकं भवेत्
चतुर्दिक्षु महाशाला चतुष्कूट तले तले ॥१३॥

एवं वराटकान्तं स्याच्छेषं भागं तु पूर्ववत्
तदेव भूतभागेन क्षुद्र शालाविशालकम् ॥१४॥

हारा च तत्त्रिभागेन युक्त्या च समलङ्कृतम्
शेषं प्रागुक्तवत्कुर्यात्तदेव केरलकान्तकम् ॥१५॥

तदेव हारां तन्मध्ये चैकभागेन सौष्ठिकम्
वंशकान्तमिति प्रोक्तं शेषं पूर्ववदाचरेत् ॥१६॥

तदेवानुशालामध्ये भद्र शालैकभागिकम्
एवं मागाधकान्तं स्यात्कर्णकूट सभद्र कम् ॥१७॥

तदेव महाशाला तु द्विभागं मध्यभद्र कम्
जनकान्तमिति प्रोक्तम् श्रेष्ठो रवितलान्वितः ॥१८॥

एकादशतलोत्तुङ्गे त्रयोदशाशमाधिकम्
तद्भागेन युगांशं तु कुट्टिमोदयमीरितम् ॥१९॥

अष्टांशं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम्
अर्धांशं तु शिखोपेतं शेषांशं प्राग्वदुच्छ्रयम् ॥२०॥

एवं द्वादशतलं स्यात्तुङ्गं युक्त्या समाचरेत्
एकेन परितोऽलिन्दं तदूर्ध्वोर्ध्वतलानि च ॥२१॥

एकानेकतलान्ते च चादिभूमिवशाद्विदुः
अनादृत्यंशकं कृत्वा तदूर्ध्वोर्ध्वतला न्यसेत् ॥२२॥

एकद्वित्रित्रिदण्डं वा मध्यशालाच निर्गमम्
अर्धमेक द्विदण्डं वा क्षुद्र शालादिनिर्गमम् ॥२३॥

एकांशात्यर्धदण्डं वा सर्वेषां भद्र निर्गमम्
तले तले च पादादि बहुकृटं चालिन्दकम् ॥२४॥

सर्वाङ्गं कर्णहर्म्यादि सान्तरप्रस्तरान्वितम्
विनाभद्रं महाशाला चैकशाला समन्वितम् ॥२५॥

एकभद्रो र्ध्वशाला च मध्यकोष्ठसमन्वितम्
द्विभद्रं चेन्महाशाला मूर्ध्निशाला प्रकल्पयेत् ॥२६॥

सभद्र महाशाला भद्र शाला समन्वितम्
ऊर्ध्वशाला सभद्रा ढ्यं प्रस्तारं समलङ्कृतम् ॥२७॥

निर्गमाङ्गं महाशाला क्षुद्र शाला सवेशनम्
यत्तत्प्रासादमध्ये तु महाशाला प्रकल्पयेत् ॥२८॥

सर्वेषां हारमध्ये तु क्षुद्र शाला प्रकल्पयेत्
यथा हर्म्ये द्विऋक्षे च कर्णकूटं विनिक्षिपेत् ॥२९॥

क्षुद्र शालां तु हारा च वेशनं युक्तितो न्यसेत्
नासिकापञ्जरादीनां तोरणाद्यं तु पञ्जरम् ॥३०॥

सर्वेषां हर्म्यके हारं चोक्तवत्समलङ्कृतम्
एकद्वित्रिद्विभागं वा प्रासादनिर्गमं भवेत् ॥३१॥

अथवा हस्तमानेन चैकानेकेन वर्धयेत्
द्विभूम्यान्ततलान्तं चैकादशकरान्तकम् ॥३२॥

क्रमात्तु निर्गमं कुर्याद्युक्त्या तत्रैव शिल्पिभिः
अनाख्यातानि चाङ्गानि यस्मिन् हर्म्येषु चोक्तवत् ॥३३॥

तत्तदङ्गानि सर्वाणि सर्वहर्म्येषु योजयेत्
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥३४॥

नानापञ्जरादीनां नानावर्णैश्च तोरणम्
नानानासिकाकूटं नानाहारैरलङ्कृतम् ॥३५॥

नानाप्रस्तरसंयुक्तं नानागलविभूषितम्
नानावेदिका कुर्यान्नानालङ्कारभूषितम् ॥३६॥

नानापालिकादीनां नानाङ्गैस्तूपिकान्वितम्
नानाकारं तु पद्मं स्यान्नाना पालिकादिभिः ॥३७॥

कुर्यात्तु सर्वहर्म्याणां शिल्पिभिः समलङ्कृतम्
तले तले विमानादि दिक्षु दिक्ष्वादिकोष्ठके ॥३८॥

तत्तद्देवालये देवांस्तत्तत्प्रागुक्तवन्नयेत्
यक्षविद्याधरादीनां गणभूतादिराक्षसान् ॥३९॥

जन्मादिसप्तमात्रं च रोहिण्या चापरस्त्रियः
विश्वकर्माद्यगस्त्यादिनारद श्रुतिधोषकान् ॥४०॥

सालोक्यादिपदैः सर्वभक्तांश्च लक्षणोक्तवत्
असंख्यातस्त्रयस्त्रिंशद् ब्रह्मादीनां च सर्वशः ॥४१॥

हर्म्यमूले तले चोर्ध्वे सर्वत्र परिकल्पयेत्
अन्यान्यनुक्तमानानां चाङ्गं युक्त्या प्रयोजयेत् ॥४२॥

सोपानलक्षणम्
देवानां मानुषाणां च हर्म्यादीनां च सर्वशः
आरोहावरोहार्थं च सोपानलक्षणां तथा ॥४३॥

हर्म्यादिमण्डपादीनां प्राकारादि च गोपुरे
तथा पर्वतदेशे तु वापीकूपतटाकके ॥४४॥

नगरग्रामादिसर्वेषां कल्पयेच्छिल्पिवित्तमः
अचलं च चलं चैव द्विधा सोपानमीरितम् ॥४५॥

शिलाभिश्चेष्टकैर्वापि दारुभिः सचलं मतम्
सर्वैश्चैवाचलं प्रोक्तं क्षुद्र सोपानसंयुतम् ॥४६॥

सर्वेषां मुखभद्रा णां पार्श्वे सोपानसंयुतम्
पार्श्वयोर्द्वारदेशे तु मुखसोपानमेव वा ॥४७॥

आरोथ सर्वहर्म्ये दक्षिणद्वारभद्र के
तत्पार्श्वे पूर्वदिग्देशे सोपानं कारयेच्छुभम् ॥४८॥

गुह्यान्तद्वारदेशे तु वामे सोपानसंयुतम्
आराध्यदेवदेवस्य प्रदर्शनमगर्हितम् ॥४९॥

तस्मात्तु मुखभद्रे तु पार्श्वे सोपान कारयेत्
पार्श्वयोः पृष्ठदेशे तु तत्पूर्वे पक्षपार्श्वके ॥५०॥

यत्र देशे तु सोपानं तत्र दोषो न विद्यते
प्रमुखे मुखसोपानं न कुर्याच्छिल्पिवित्तमः ॥५१॥

अपरे पार्श्वयोर्द्वारे भद्र हीनत्रयं तु चेत्
तत्पूर्वके तु सोपानं कुर्यात्सम्पत्प्रदायकम् ॥५२॥

प्रपाङ्गे प्रमुखे भद्रे सोपानं पूर्वपार्श्वयोः
कुर्यात्तु तन्त्रविच्छिल्पी चोक्तमेवं पुरातनैः ॥५३॥

तैतलानामिति प्रोक्तं कुर्यात्सोपानमुह्यताम्
नराणां सर्वहर्म्येषु वक्ष्ये सोपानलक्षणम् ॥५४॥

तपस्व्यादिद्विजातीनां वर्णानां च विशेषतः
देवानामुक्तवत्कुर्याद्गेहं सर्वेषु योजयेत् ॥५५॥

द्विजानां भूपतीनां च सर्वेषां भद्र देशके
पार्श्वे सोपानसंयुक्तं तत्पूर्वे वाथ प्रकल्पयेत् ॥५६॥

अलिन्दयुक्तं तद्द्वारे वामे सोपानसंयुतम्
विनालिन्दप्रदेशे तु प्रमुखे सोपानमेव च ॥५७॥

वैश्यानां शूद्र जातीनां सोपानं वक्ष्यतेऽधुना
यत्तद्द्वारादिभद्रा णां युक्त्या सोपानसंयुतम् ॥५८॥

गोपुराणां तु तत्पार्श्वे सोपानं लक्षणान्वितम्
अद्रि देशे समारोह्य यत्र तत्रैव कारयेत् ॥५९॥

वापीकूपतटाके वा परितः सोपानसंयुतम्
चतुर्दिक्षु चतुष्कोणे चान्तरालेऽथवा पुनः ॥६०॥

एवमेवं यथादेशे भद्र सोपानमेव वा
तत्रैव श्रेष्ठदिग्देशे कुलद्वारं प्रकल्पयेत् ॥६१॥

तत्पूर्वे च द्विपार्श्वे कुर्यात्सोपानमुक्तवत्
अचलं च इति प्रोक्तं चलं स्थाप्यं यथेष्टकम् ॥६२॥

द्वादशाङ्गुलमारभ्य त्रित्र्! यङ्गुलविवर्धनात्
सार्धहस्तावसानं स्यान्नवधा विस्मृतं भवेत् ॥६३॥

सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात्
सार्धवेदकरान्तं च फलमेकं तदायति ॥६४॥

एकहस्तं समारभ्य षट्षडङ्गुलवर्धनात्
तत्त्रिहस्तावसानं स्याच्च लसोपानविस्तृतम् ॥६५॥

द्विहस्तं तु समारभ्य चतुर्हस्तावसानकम्
त्रिहस्तादिपञ्चहस्तान्तं षट्षडङ्गुलवर्धनात् ॥६६॥

एतदचलसोपानं विस्तारं नवधा भवेत्
जन्मादिस्तूपिपर्यन्तं कुर्यात्तुङ्गं हि योजयेत् ॥६७॥

लुपमानोक्तवत्कुर्यात्सोपानायाममुह्यताम्
अद्रि सोपानदेशे तु दीर्घमानं यथेष्टकम् ॥६८॥

विस्तारं पूर्ववत्कुर्यादचलं चोक्तवद्भवेत्
परितः सोपानविस्तारं तटाकाद्याकारतत् तथा ॥६९॥

परितः सर्वसोपानं कुर्यात्प्रागुक्तवन्नयेत्
पट्टिकात्रयमारभ्य वर्धयेद्द्विद्विपट्टिका ॥७०॥

त्रयोविंशच्छतान्तं स्याद्देवानामिति कथ्यते
पट्टमद्रि मार्गपर्यन्तं तिर्यक् चोर्ध्वोर्ध्व चोक्तवत् ॥७१॥

मानुषाणां तु सोपानं पट्टिकायुग्मसंयुतम्
त्रिचतुष्पञ्चषण्मात्रं चलं सोपानपादके ॥७२॥

तद्घनं च विशाले तु समं वा पादमाधिकम्
अर्धाधिकं तु पादोनद्विगुणस्त्रिगुणं ततः ॥७३॥

दण्डद्वयसमायुक्तं चित्रयुक्तं तु पट्टिकाः
एकद्वित्र्! यङ्गुलं वापि पट्टिकाघनमेव च ॥७४॥

द्वित्रिवेदशराङ्गुल्यं षट्सप्ताङ्गुलमेव वा
अष्टनन्ददशाङ्गुल्यं पट्टिकाविस्तृतं भवेत् ॥७५॥

एवं तु चलसोपानमचलं तत्प्रवक्ष्यते
पञ्चषडङ्गुलारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥७६॥

द्वादशैकार्कमात्रान्तं पट्टिकोत्सेधविस्तृतम्
आधिक्याङ्गुलविस्तीर्णं हीनमानोदयं भवेत् ॥७७॥

सोपानपार्श्वयोर्देशे हस्तिहस्तविभूषितम्
हस्तमूलविशाले तु चोक्ताङ्गुलीन मानयेत् ॥७८॥

मूलेन तत्त्रिभागैकं हस्ताग्रान्तं क्षयं क्रमात्
हस्तिहस्तवदाकारं द्वारयुक्तं मनोहरम् ॥७९॥

त्रिचतुष्पञ्चवक्त्रं वा मूलेन सिंहाननैर्युतम्
अग्राधो धारपट्टं स्यात्पट्टिका चोक्तमानकम् ॥८०॥

अग्राधारं पालिकाकारं पट्टिका वेदिकाकृतिः
सर्वालङ्कारसंयुक्तं सोपानं लक्षणान्वितम् ॥८१॥

अद्रि सोपानपार्श्वे तु न कुर्यात्पार्श्वयोङ्घ्रिकम् ॥८२॥

अनेकहर्म्यस्य विशालदेशके
सभूषणोन्मानं यथा प्रविश्यते
कुर्वन्ति दोषं किल भर्तृकर्तॄणाम्
उक्ते मानं कुरुते तु सम्पत् ॥८३॥

जातिहर्म्यादि
वक्ष्येऽहं जातिहर्म्याणामायादिलक्षणं क्रमात्
पूर्वोक्तानां विमानानां विस्तरादिवशात् हि ॥८४॥

आय व्ययं च योनि च नक्षत्रं वारमंशकम्
तिथिर्वाथ षडेतानि तथायादिविदो विदुः ॥८५॥

सञ्चितासञ्चितानां च अंशैरायादिभिर्युतम्
अपसञ्चितहर्म्याणां तिथ्यन्तं षड्ग्रहीष्यते ॥८६॥

एक त्रिपादमर्धं च पादहस्तं यथाक्रमम्
जातिश्छन्द विकल्पं च आभासं च चतुर्विधम् ॥८७॥

एतत्तदेव संयुक्तं हर्म्याणां मानकल्पनम्
षट्सप्ताष्टकवृद्धिः स्याद्द्वादशान्तं क्षयं नयेत् ॥८८॥

शेषं तदायमित्युक्तं सञ्चितादि यथाक्रमम्
सप्ताष्टनववृध्या तु हरेत्पङ्क्त्या व्ययं भवेत् ॥८९॥

एकद्वित्रयवृध्या तु क्षपयेत्वष्टा च योनिकम्
षट्सप्ताष्टवृद्ध्या तु सप्तविंशक्षयो भवेत् ॥९०॥

तच्छेषं चापि नक्षत्रं गणयेदश्विनीक्रिमात्
षडष्टनन्दवृद्ध्या तु सप्तभिः क्षपयेत्ततः ॥९१॥

शेषं तद्वारेमित्युक्तं अर्कवारादिवारयुक्
त्रिभिर्वेदास्तु वृद्धिः स्यान्नन्दहानि नवांशकम् ॥९२॥

तिथि रन्ध्रोण वृद्धिः स्यात्त्रिंशता क्षयो भवेत्
सिध्यादि द्वादशायः स्याच्छिखरादिव्ययं दश ॥९३॥

ध्वजादिमष्टयोनिः स्यात्तस्करादिनवांशकम्
प्रथमादितिथिरित्येवं चोक्तवद्गणयेत्सुधीः ॥९४॥

एवमायादिषड्वर्गं शुद्धिं ग्राह्यां शुभं त्यजेत् ॥९५॥

आयादि षड्वर्ग सुरैर्विमाने
चायादिकं क्षीणव्ययं शुभं स्यात्
ग्रामादिकर्तृनृपतिककृयानाम्
सर्वं शुभं तत्कुरुते तु विद्वान् ॥९६॥

इति मानसारे वास्तुशास्त्रे द्वादशतलविधानं नाम त्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP