संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
गोपुरविधानम्

मानसारम् - गोपुरविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


तैतलानां नृपाणां च गोपुराणां च लक्षणम्
मानानां सार संगृह्य शास्त्रे संक्षेपतः क्रमात् ॥१॥

तैतलस्योक्तमानं यन्मानुषाणां न कारयेत्
नराणां योग्यमानं यत्तैतलानां तु योग्यकम् ॥२॥

क्षुद्रे क्षुद्र मानोक्तं मुख्ये मुख्यं तु मानकम्
अज्ञानाद्विपरीतं चेत्स्थाननाशं धनक्षयम् ॥३॥

तस्मात्तु गोपुरैर्मनं परिहृत्योक्तवत्कुरु
आद्यके द्वारशोभं तु द्वारशाला द्वितीयके ॥४॥

द्वारप्रासाद मध्ये च द्वारहर्म्यं मयाधिके
महामर्यादि कुड्ये महागोपुरमीरितम् ॥५॥

एवं तु कारयेच्छिल्पी सालानां द्वारके तथा
त्रिपञ्चसप्तकरान्तादेकादशकरं तु वा ॥६॥

एवं तु द्वारशोभस्य विशालं पञ्चधा मृस्तम्
पञ्चारत्नि समारभ्य त्रयोदशकरान्तकम् ॥७॥

द्वारशालाविशालं च पञ्चधा परिकीर्तितम्
सप्तहस्तं समारभ्य पञ्चत्रिधाकरान्तकम् ॥८॥

द्वारप्रासादविस्तारं पञ्चभेदविदो विदुः
नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥९॥

सप्तादशकरान्तं स्याद् द्वारहर्म्यविशालता
एकादशकरारभ्य नवपङ्क्तिकरान्तकम् ॥१०॥

पञ्चधा विपुलं प्रोक्तं महागोपुरमेव च
पादाधिकम तदाध पादोनं तत्समाधिकम् ॥११॥

विस्तारायामा ते सर्वे गोपुराणां विशेषतः
अथवा द्विहस्तवृद्धिं स्याच्चत्वारिशत्करान्तकम् ॥१२॥

त्रिगुणोपरिहस्तान्तं विंशदायाम शोभके
शालाविशालतामारभ्य द्विद्विहस्तविवर्धनात् ॥१३॥

पञ्चाशत्करसीमान्तं पञ्चविंशतिमायतम्
द्वारप्रासादविस्तारात्पूर्ववद्वर्धयेत्क्रमात् ॥१४॥

षष्टिहस्तावसानं स्यात्त्रिंशदायाम पूर्ववत्
द्विद्विहस्तविवृद्धेन हस्तसप्ततिकान्तकम् ॥१५॥

द्वारहर्म्यविशालोर्ध्वे पञ्चत्रिंशदायतम्
महागोपुरविस्तारं द्विद्विहस्तविवर्धनात् ॥१६॥

अशीतिहस्तावसानं चत्वारिंशत्तदायतम्
अथवारत्निमानेन वर्धमानायतं मतम् ॥१७॥

विस्तारद्विगुणान्तं च एकभागेनवर्धनात्
शोभादिगोपुरान्तस्य तारो भित्ति वशोच्यते ॥१८॥

द्वित्रिवेदशरांशं च षड्भागं शोभविस्तृते
पञ्चषट्सप्तभागं च अष्टनन्द विभाजिते ॥१९॥

एवं तु द्वारशाले तु विस्तारे तत्प्रकल्पयेत्
सप्ताष्टनवभागं च पङ्क्तिरेकादशस्तथा ॥२०॥

द्वारप्रासादविस्तारे भागमेवं प्रकल्पयेत्
अष्टनन्दांशकांशं तु एकादशार्कभागिकम् ॥२१॥

एतेषां द्वारहर्म्ये तु विस्तारो युक्तितो न्यसेत्
नवपङ्क्तिसभागं तु सैकार्कमनुभागिकम् ॥२२॥

महागोपुरविस्तारे भागमेवं प्रकल्पयेत्
तद्विस्तारार्धमुत्सेधं त्रिपादं तत्समं तु वा ॥२३॥

एवं तु द्वारपादोच्चं जन्मपादाग्रसीमकम्
तदर्धं द्वारविस्तारं तद्विशालं तथोदयम् ॥२४॥

सपादसार्धभागोन द्विगुणानां तु मानुषे
सर्वेषां द्वारतुङ्गे च विस्तारे च विशेषतः ॥२५॥

विस्तारात्पादहीनेन विस्तारार्धावसानकम्
पञ्चषट्सप्तभागे तु द्विगुणं सार्धयुग्मकम् ॥२६॥

द्विंशार्धार्धं गुणांशं वा द्वारं सर्वोदयं भवेत्
तत्तद्भागविशालं स्यात्तत्तत्तुङ्गवशेन हि ॥२७॥

तदुत्सेधार्धविस्तारं द्वारगोपुर विन्यसेत्
अथवा चोपपीठं स्यान्मानं त्यक्त्वा तथोच्छ्रयम् ॥२८॥

शान्तिकात् पञ्चधोत्तुङ्गं चाधुना वक्ष्यते क्रमात्
गोपुरस्य विशालार्धं तत्तत्पादाधिकोदयम् ॥२९॥

तदर्धाधिकमुत्सेधं तत्त्रिभागाधिकोन्नतम्
तत्समं चाधिकोत्तुङ्गं द्विगुणात्पादाधिकोन्नतम् ॥३०॥

एवं तु पञ्चधा द्वारं तुङ्गं सर्वेषु गोपुरे
अथवा हस्तमानेन द्वारमानं प्रवक्ष्यते ॥३१॥

एकहस्तं समारभ्य षट्षडङ्गुलवर्धनात्
द्विहस्तान्तं द्वारविस्तारं द्वारशोभं तु पञ्चधा ॥३२॥

द्विहस्तादित्रिहस्तान्तं पञ्चधा द्वारविस्तृतम्
एवं तु द्वारशाले तु हस्तत्रय समारभेत् ॥३३॥

षट्षडङ्गुलवृद्ध्येन चतुर्हस्तावसानकम्
पञ्चधा द्वारविस्तारं द्वारप्रासादमध्यमे ॥३४॥

चतुर्हस्तं समारभ्य पञ्चहस्तावसानकम्
द्वारहर्म्ये प्रदेशे तु द्वारतारं तु पञ्चधा ॥३५॥

पञ्चहस्तं समारभ्य हस्तषट्कावसानकम्
गोपुरे द्वारविस्तारं पञ्चधा परिकीर्तितम् ॥३६॥

अथवा द्वारशोभादिगोपुरान्तं यथाक्रमम्
एकद्वित्रिचतुष्पञ्चहस्तादौ रत्निवर्धनात् ॥३७॥

पञ्चषट्सप्तहस्तं च साष्टहस्तं नवान्तकम्
एतेभ्यो द्वारसर्वेषां विस्तारद्विगुणोन्नतम् ॥३८॥

देवानां द्वारमेवोक्तं मानुषाणां विशेषतः
द्विगुणाष्टांशहीनं वा सप्तांशं चैकहीनकम् ॥३९॥

षडंशांशैकहीनं वा पञ्चांशं चैकहीनकम्
चतुर्भागैकहीनं वा द्वारतुङ्गं प्रकल्पयेत् ॥४०॥

उत्तराधो प्रदेशान्तं जन्मोर्ध्वं द्वारमारभेत्
द्वारोत्सेधमिदं कुर्यात्तस्यां तद्द्वारपट्टिका ॥४१॥

शेषं युक्त्या प्रयुञ्जीयात् द्वारमेवं तु सर्वशः
मूलहर्म्यवशाद्वक्ष्ये गोपुराणां च मानकम् ॥४२॥

मूलप्रासादविस्तारं समं वा पादमधिकम्
अथवात्यर्धंविस्तारं पादोनद्विगुणं तु वा ॥४३॥

द्विगुणं वा प्रकर्तव्यं द्वारशोभादिविस्तारम्
प्रत्येकं पञ्चधा मानमायामं पूर्ववद्भवेत् ॥४४॥

मूलाधिष्ठानपादस्य समाधिष्ठानपादकम्
अथवाधिष्ठानपादोच्च वेदभूतषडंशकम् ॥४५॥

सप्तकाष्टांशकं कृत्वा तत्तदेकैकहीनकम्
शेषं तद्द्वारशोभादीन् पादाधिष्ठानतुङ्गकम् ॥४६॥

उपपीठं विना कुर्याद् द्वारतुङ्गमिति स्मृतम्
शोभे चैकभूमिं स्याद् द्वितीये द्वितलं भवेत् ॥४७॥

द्वारप्रासाददेशे तु त्रितलं चैव कारयेत्
हर्म्ये चतुस्तलं कुर्यात्तलं पञ्चक गोपुरम् ॥४८॥

अन्येषां महता देशे षोडशान्तं तलान्वितम्
एकत्रिपञ्चभूमादौ द्विद्विभूमिविवर्धनात् ॥४९॥

त्रिविधं चैकभूमौ च एकार्कतलसीमकम्
द्वित्रिवेदतलादौ च चतुर्दशतलान्तकम् ॥५०॥

द्वितले च त्रिविधं प्रोक्तं द्विद्विभूमिविवर्धनात्
त्रितलात् पञ्चत्रयान्तं त्रितलं त्रिविधं प्रोक्तम् ॥५१॥

चतुःषडष्टभूमादौ षोडशान्तं तलसीमकम्
कन्यसं त्रिविधं प्रोक्तं कुर्यादेवं चतुस्तले ॥५२॥

पञ्चसप्ततलं नन्दतलादौ द्विद्विवर्धनात्
सप्तादशतलान्तं स्यात्त्रिविधं पञ्चभूमिके ॥५३॥

देवानां मूलहर्म्ये स्यादधिकं च समोन्नतम्
शोभादिगोपुरे सर्वे चैवमुक्तं पुरातनैः ॥५४॥

नराणां मूलहर्म्यस्य समं हीनोन्नतं तु वा
मूलस्याधिकभूमिं चेद्रा जराष्ट्रं विनश्यति ॥५५॥

एवं तु द्वारशोभे च चोक्तवत्कारयेत्शुधीः
अन्यथा द्वारदेशे तु यथाचोक्तवदाचरेत् ॥५६॥

द्वारपादोदयो वेदभागं कुर्याद्विचक्षणः
एकांशं चोपपीठोच्चं तत्समं च मसूरकम् ॥५७॥

द्विभागं पादतुङ्गं स्यात्कारयेल्लक्षणान्वितम्
द्वारपादोदये धातुपङ्क्तिभागं विभाजिते ॥५८॥

उपपीठं शरांशं च वेदभागं मसूरकम्
अधिष्ठानं द्विगुणाङ्घ्रितुङ्गमेवं प्रकल्पयेत् ॥५९॥

द्वारपादोदये नन्दभागं कुर्याद्विचक्षणः
उपपीठोदयं चाक्षिभागमेव मसूरकम् ॥६०॥

तद्द्वयं पादतुङ्गे च कुर्यादेकोनविंशतिम्
भागं तद्द्वारपादोच्चे सप्तभागोपपीठकम् ॥६१॥

वेदभङ्गमधिष्ठानमष्टभागाङ्घ्रितुङ्गकम्
द्वारपादोदये चैव षड्भागमेवं विभाजिते ॥६२॥

उपपीठोदयं क्षिप्रं भागमंश मसूरकम्
तस्मात्तु पादतुङ्गं च द्विभागं चैव कारयेत् ॥६३॥

द्वारपादोदयं चैवविंशद् भागं विभाजिते
उपपीठोदयं चैव नवभागं प्रकल्पयेत् ॥६४॥

अधिष्ठानं वेदभागं तु वसुभागाङ्घ्रितुङ्गकम्
एकादशविभागे तु द्वारपादोदयं भवेत् ॥६५॥

पञ्चांशं चोपपीठोच्चं द्व्यंशाधिष्ठान मानतः
पादतुङ्गं चतुर्भागमथवा द्वारपादके ॥६६॥

तुङ्गे च त्रयोविंशद् भागमेवं विभाजिते
एकादशोपपीठं च चतुर्भागं मसूरकम् ॥६७॥

वसुभागाङ्घ्रितुङ्गं स्यात्षड्भागं तु विभाजिते
त्रिभागं चोपपीठं तु शिवभाग मसूरकम् ॥६८॥

द्विभागं पादतुङ्गं स्यात्तदूर्ध्वे प्रस्तरादिकम्
शिखान्तं चोर्ध्वमाने तु तलानामधुनोच्यते ॥६९॥

अधिष्ठानसमं मञ्च तत्समं गलतुङ्गकम्
गलोच्चद्विगुणं प्रोक्तं शिखरस्योदयं न्यसेत् ॥७०॥

शिखरोर्ध्वं शिखोत्तुङ्गं स्तूपित्रयसमेव च
एवमेकतलं प्रोक्तं द्वितलादितलेव च ॥७१॥

क्षुद्र मध्यं च मुख्यानां गोपुरे तु विशेषतः
प्रस्तरादिशिखान्तं स्याद् गण्यमानं प्रवक्ष्यते ॥७२॥

यस्याधिष्ठानमानं च तस्यमानवशोच्यते
मसूरोच्चसमं वापि तदष्टांशोनमेव वा ॥७३॥

पञ्चअट्सप्तहीनं वा प्रस्तरोदयमेव च
ऊर्ध्वभूमाङ्घ्रिकोत्तुङ्गमधः पादवशोच्यते ॥७४॥

अष्टसप्तकषट्पञ्चभागमेकोनमेव वा
तत्तद्भागोनमानं तु ऊर्ध्वोर्ध्वचरणोदयम् ॥७५॥

तले तले प्रस्तराणां तु कारयेदेव मानतः
क्षुद्र गोपुरमेवं तु कारयेद् गण्यमानकम् ॥७६॥

नवमेकादशैकार्कमधिष्ठानोदयं भवेत्
तत्तद्भागार्धभागेन शेषं तत्प्रस्तरोदयम् ॥७७॥

अथ पादोदयं तत्तद्भागोनं चोर्ध्वपादकम्
प्रस्तरं चैव मानं तु कारयेत्तु तले तले ॥७८॥

यस्य मानावस्या नान्तं चोत्तरान्तं विधीयते
तदूर्ध्वे प्रस्तरं युक्तं तस्यार्धं चोर्ध्ववेदिका ॥७९॥

तद्द्वयं गलतुङ्गं स्यात्प्रस्तरोच्चद्वयं शिरः
शिखरार्धं शिखोत्तुङ्गं तेषां गोपुरमेव च ॥८०॥

एवं तु मध्यमानं तु गोपुरणां तु गण्यकम्
मुख्यगोपुरगण्यं तु वक्ष्यते विधिनाधुना ॥८१॥

पूर्ववच्चैकभूमोक्तं द्वितलादि विशेषतः
द्वारपादोदयं चैव द्वारविस्तारमानकम् ॥८२॥

उपपीठोदयं मानं मसूरकाङ्घ्रितुङ्गकम्
शेषं प्रागुक्त्वत्कुर्यादूर्ध्वमानं प्रवक्ष्यते ॥८३॥

अधिष्ठानत्रिपादं च ऊर्ध्वपादं च तुङ्गकम्
अथोपादत्रिपदं च ऊर्ध्वपादोदयं भवेत् ॥८४॥

अधोमञ्चत्रिपादं च उपरि प्रस्तरं भवेत्
अथवा भूतषट्सप्तकाष्टनन्ददशांशकम् ॥८५॥

तत्तदेकैकहीनं वा चोर्ध्वपादाधिकोदयम्
तदर्धं वेदिकोत्तुङ्गं तद्द्वयं ग्रीवतुङ्गकम् ॥८६॥

ग्रीवतुङ्गद्वयं चैव शिखरस्योदयं भवेत्
तदर्धं तच्छिखोत्तुङ्गं द्वितले पञ्चकं शिखम् ॥८७॥

प्रस्तरं पूर्ववन्मानमादिपादादि पूर्ववत्
प्रस्तरोदयमानं यत्तदर्धं वेदिकोदयम् ॥८८॥

वेदिकाश्चोर्ध्वकान्तं स्यात्पूर्ववत्परिकल्पयेत्
द्वितुङ्गे त्रिद्विनेत्रं वा सप्तनेत्रं समन्वितम् ॥८९॥

एवं त्रितलमाख्यातं चतुर्भूम्यादि होच्यते
अर्धाधिष्ठानमानं यत्षड्भागं च विभाजिते ॥९०॥

समं वा पादशरांशं वा प्रस्तरोदयमीरितम्
भूतषड्विंशकं वापि चोर्ध्वपादोदयं तथा ॥९१॥

आदिप्रस्तरमानं तु त्रिपादं चोर्ध्वमञ्चकम्
वेद सार्ध शरांशं तु चोर्ध्वपादोदयं भवेत् ॥९२॥

सत्रिभागं द्विभागं स्याच्चोर्ध्वपादोर्ध्वमञ्चकम्
गुणसार्धं चतुर्भागमूर्ध्वपादमथापि वा ॥९३॥

सार्धद्विभागं मञ्चं च वेदिकोच्चार्धभागिकम्
तद्द्वयं गलतुङ्गं स्यात् शिरभागं गलस्तथा ॥९४॥

शिरतुङ्गार्धभागं तु स्तूपितुङ्गं प्रकल्पयेत्
नवसंख्या शिखा प्रोक्तं द्वितलं तु च पूर्ववत् ॥९५॥

अथवा चतुरश्रं च स्तूपिरेकं चतुर्मुखम्
एवं चतुःस्थलं प्रोक्तं पञ्चभूम्याधुनोच्यते ॥९६॥

पूर्ववद् भागमानेन प्रस्तरं पूर्ववद् भवेत्
सार्धभूतांशकं चैवमुपरिश्चाङ्घ्रितुङ्गकम् ॥९७॥

द्वितीयं प्रस्तरोत्तुङ्गं सत्रिभागं द्विभागिकम्
ऊर्ध्वपाद शरांशं तु तृतीयं प्रस्तरोदयम् ॥९८॥

सार्धद्विभागमानेन ऊर्ध्वपाद युगांशकम्
चतुर्थं प्रस्तरोत्सेधं सपादद्वयांशकं भवेत् ॥९९॥

तदूर्ध्वङ्घ्रियुगांशं तु पञ्चभाग द्विभागिकम्
वेदिकोच्चं शिवांशं स्याद् ग्रीवोच्चं तु द्विभागिकम् ॥१००॥

द्विभागं शिखरतुङ्गं स्यात् शिखरार्धं तच्छिखोदयम्
द्विललाटे महानासि चैकादशशिखान्वितम् ॥१०१॥

अन्येषां च तलानां च प्रस्तरादि च पूर्ववत्
पादानामपि सर्वेषां प्रस्तराणां तले तले ॥१०२॥

एवं मानं प्रकुर्वीत वेदिकादिगलान्वितम्
शिखरादि शिखामानं पूर्ववद्युक्तितो न्यसेत् ॥१०३॥

अथवा द्वारशोभादि गोपुराणां विशेषतः
विस्तारद्विगुणोत्सेधं जन्मादिस्तूपिकान्तकम् ॥१०४॥

द्विगुणार्धं च हीनं वा चाधिक्यं च त्रिधोन्नतम्
सार्धं तु द्विगुणोत्सेधं पादोनं द्विगुणोन्नतम् ॥१०५॥

क्षुद्र गोपुरमेवं तु मध्यमं तत्प्रवक्ष्यते
क्षुद्रा त्तु पादहीनं वा सार्धहीनोदयं तु वा ॥१०६॥

एवं तु मध्यमं प्रोक्तं मध्यमात्पादहीनकम्
विस्तारादर्धमुत्सेधं मुख्यगोपुरमेव च ॥१०७॥

पूर्ववत्प्रस्तराद्यन्तं चोर्ध्वे स्तूपिकान्तकम्
गण्यमानं च सर्वेषां भागमानं वशोच्यते ॥१०८॥

तच्चतुर्भागिकं कृत्वा एकभागं गलोदयम्
शिखरोच्च द्विभागं कुर्यादेकांशं तच्छिखोदयम् ॥१०९॥

एवमेकतलं प्रोक्तं द्वितले भागमुच्यते
कृत्वा द्विरष्टभागं यद्भूतांशं चोर्ध्वपादकम् ॥११०॥

द्विभागं प्रस्तरोत्तुङ्गमेकांशं वेदितुङ्गकम्
कोलकं गलतुङ्गं स्याद्वेदांशं मस्तकोदयम् ॥१११॥

तदर्धं स्तूपिकोत्सेधं शेषं तु पूर्ववद् भवेत्
तदुद्धे पञ्चविंशांशं कृत्वा च त्रितलं विदुः ॥११२॥

द्वितीयाङ्घ्योच्चं षड्भागं सार्धद्वयांशकं प्रति
तदूर्ध्वे सार्धपञ्चांशं पादायामं तृतीयकम् ॥११३॥

अन्तिमं च द्विभागं स्याद् वेदिकोदयमीरितम्
ग्रीवतुङ्गंकलाभागं शिखरोच्चं युगांशकम् ॥११४॥

स्तूपितुङ्ग द्वयं प्रोक्तं प्रत्यूर्ध्वादिशिखान्तकम्
स्वाधिक्यं दशांशं तद्विभजेत्तु चतुस्थले ॥११५॥

तदंशे सार्धबन्धांशं पादोच्चं तद्वितीयकम्
अर्धाधिकशिवांशान्तं तदूर्ध्वे प्रस्तरमानकम् ॥११६॥

सार्धद्रि भाग पादोचं सपादांश कपोतकम्
सत्रिपादद्वयाङ्घ्रिश्च प्रस्तरोच्चं शिवांशकम् ॥११७॥

वेदिकोच्चं तदर्धं स्याद् ग्रीवोच्चं सार्धभागिकम्
तद्द्वयं शिखरोत्तुङ्गं तदर्धं तच्छिखोदयम् ॥११८॥

प्रस्तरस्योपरिष्टात्तु स्तूपिकान्तोदयं तथा
षट्पञ्चभागिकं कृत्वा भूतांशं पादतुङ्गकम् ॥११९॥

नेत्रांशं प्रस्तरोत्तुङ्गं सार्धवेदाङ्घ्रितुङ्गकम्
त्रिपादोपेतमेकांशं प्रस्तरोदयमीरितम् ॥१२०॥

सपादवेदाङ्घ्रितुङ्गं स्यात्सार्धभागोर्ध्वमञ्चकम्
सार्धबन्ध्वाङ्घ्रितुङ्गं च पादांशं प्रस्तरोदयम् ॥१२१॥

तदूर्ध्वे वेदि तुङ्गार्धं कन्धरं सार्धभागिकम्
तद्द्वयं शिखरतुङ्गं स्यात्पादांशं तच्छिखोदयम् ॥१२२॥

एवं पञ्चतलं प्रोक्तं शेषं प्रागुक्तवद् भवेत्
अथवा द्वारशोभादि पादुकान्तं शिखान्तकम् ॥१२३॥

भागमानवशाद् गण्यमानं यत्प्रोच्यते बुधैः
पूर्वैस्तु तुङ्गमानं तद्दशभागाद्विभाजिते ॥१२४॥

द्विभागं चोपपीठोच्चं तस्मादेकांश कुट्टिमम्
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥१२५॥

तत्समं ग्रीवतुङ्गं स्यात्तद्द्वयं शिखरोदयम्
एकांशं तच्छिखोदयं शेषमानं तु पूर्ववत् ॥१२६॥

एवमेकतलं प्रोक्तं द्वितलं भागमुच्यते
जन्मादिपूर्वपर्यन्तं नवपङ्क्त्यंशकं भवेत् ॥१२७॥

त्र्! यंशं चोपपीठोच्चं कुट्टिमं च द्विभागिकम्
पाददीर्घं युगांशं स्यात्सत्रिपादांश मञ्चकम् ॥१२८॥

सत्रिपादद्वयांशं च मूलपादोदयं तथा
कपोतप्रतिरेकांशं वेदितुङ्गं तदर्धकम् ॥१२९॥

ग्रीवोच्चमेकभागं स्याच्छिखरोच्चं कलांशकम्
तदर्धं स्तूपिकोत्तुङ्गं शेषं प्रागुक्तवन्नयेत् ॥१३०॥

त्रितले पूर्ववत्तुङ्गं त्रिस्सप्तांश विभाजिते
चतुर्भागोपपीठोच्चं सार्धांशं मसूरकम् ॥१३१॥

गुणांशं पादतुङ्गं स्यात्कपोतं सार्धभागिकम्
सार्धद्वयांशं पादोच्चं प्रस्तरोच्चं शिवांशकम् ॥१३२॥

सपादद्व्यंशका जङ्घा मञ्चायामं त्रिपादकम्
तदूर्ध्वेऽर्धांशं वेद्युच्चं चोर्ध्वेग्रीव शिवांशकम् ॥१३३॥

ग्रीवद्वयसमं मूर्ध्नि ग्रीवतुल्यं शिखोदयम्
शेषं प्रागुक्तवदुद्दिष्टं चतुस्तलमिहोच्यते ॥१३४॥

जन्मादि स्तूपिपर्यन्तं कृत्वैकं त्रिंशदंशकम्
षड्भागं चोपपीठोच्चं द्व्यंशाधिष्ठानमानकम् ॥१३५॥

तद्द्वयं पाददीर्घं तु सत्रिपादांश मञ्चकम्
सपादद्विंशकं पादं मञ्चतुङ्गं शिवांशकम् ॥१३६॥

पादायामं गुणांशं स्यात्सपादांशं कपोतकम्
पादोनत्रिंशकं चोर्ध्वे पादायामं प्रकल्पयेत् ॥१३७॥

प्रस्तरं चैकभागं स्यात्तदर्धं वेदिकोदयम्
तद्द्वयं ग्रीवतुङ्गं स्याद् ग्रीवतुङ्गद्वयं शिरः ॥१३८॥

एकांशं स्तूपिकोत्तुङ्गं शेषं पूर्ववदाचरेत्
जन्मादिस्तूपिकान्तं च चत्वारिंशाष्टभागिकम् ॥१३९॥

तद्भागोपानमर्धांशं ग्रीवपादाष्टकांशकम्
उपपीठमधिष्ठानं तुङ्गं सार्धद्वयांशकम् ॥१४०॥

तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम्
सार्धवेदाङ्घ्रित्तुङ्गं स्यात्सपादद्व्यंशमञ्चकम् ॥१४१॥

पादाधिक्यं चतुर्भागं पाद मञ्च द्विभागिकम्
वेदांशं पादतुङ्गं च सत्रिपादांश मञ्चकम् ॥१४२॥

तदूर्ध्वे चरणोत्तुङ्गं सत्रिपादगुणांशकम्
प्रस्तरात्यर्धभागं तु वेदितुङ्गं त्रिपादकम् ॥१४३॥

तद्द्वयं गलतुङ्गं स्याद्गुणांशं शिखरोदयम्
सार्धभागं शिखोत्तुङ्गं मेवं पञ्चतलं विदुः ॥१४४॥

शेषं च पूर्ववत्कुर्याद्द्वारशोभादि पञ्चधा
घनं चाप्यघनं चैव विन्यासमथ वक्ष्यते ॥१४५॥

विस्तारायाम शोभादि पूर्ववद् गोपुरान्तकम्
यन्मानं बहिरन्येन चूलिकामानसंमितम् ॥१४६॥

एकं हस्तं समारभ्य षड्षडङ्गुलवर्धनात्
शोभादिगोपुरान्तायनिर्गमं पञ्चधा भवेत् ॥१४७॥

अथवा भित्तिपादं स्याद् दण्डमानेन संयुतम्
एकदण्डं समारभ्य दशदण्डावसानकम् ॥१४८॥

यथा विमानसंयुक्तं तत्र दोषो न विद्यते
अज्ञान मानविच्छेद्यं सर्वदोषकरं भवेत् ॥१४९॥

तस्मात्परिहरेद्विद्वान्माननिर्गममेव च
यथातारे तु धातांशं गर्भगेहं गुणांशकम् ॥१५०॥

एकमावृतभित्ति स्यादेवमेकतलं भवेत्
द्वितले तार सप्तांशं वेदांशं गर्भगेहकम् ॥१५१॥

परितस् सार्धभागेन भित्तिविष्कम्भमानकम्
तदंशे कूटशालामण्डितं भित्तितो न्यसेत् ॥१५२॥

तत्समं चान्तरालं स्यान्मध्यकोष्ठं गुणांशकम्
तस्मात्तु कूटयोर्मध्ये चान्तरालं प्रकल्पयेत् ॥१५३॥

अन्तरालं विशेषेण पञ्जरादिविभूषितम्
एवं तु द्वितलं प्रोक्तं कारयेद् द्वारशालके ॥१५४॥

त्रितले ताररन्ध्रांशे गर्भगेहं गुणांशकम्
आवृतभित्तिरेकांशं तत्समांशेनालिन्दकम् ॥१५५॥

तद्बहिश्चावृतांशेन कूटकोष्ठादि पूर्ववत्
द्वारप्रासादमेवं तु द्वारहर्म्यो धुनोच्यते ॥१५६॥

विस्तारे दशभागे तु गर्भगेहं त्रियंशकम्
तद्बाह्येवृतभित्तिश्च अंशेनावृतलिन्द्रि कम् ॥१५७॥

अंशेन कर्णहर्म्यादि परितोऽशेन कूटकम्
मुखशालैस्तु भूतांश शेषं चान्तरालकम् ॥१५८॥

एवं चतुस्तलं प्रोक्तं पञ्चभूमिरिहोच्यते
विस्तारैकदशांशं तु नालिगेहं गुणांशकम् ॥१५९॥

तद्बहिर्द्व्यंशमेकेन वृधा कुड्यविशालकम्
तत्तद्बाह्यावृतांशेन कुर्यादालिन्द्र कं भवेत् ॥१६०॥

एकांशं कूटशालादि कर्णहर्म्यावृतं तथा
एकांशं कूटविस्तारं महाशाला त्रयांशकम् ॥१६१॥

एकैकं चान्तरालं स्यात्क्षुद्र शालैकभागिकम्
विस्तारद्विगुणान्येव भागमेकेन वर्धनात् ॥१६२॥

यथेष्टा यततार सर्वे कूटकोष्ठादि विन्यसेत्
पादान्यान् भद्र संयुक्तम् देशेषु पद विन्यसेत् ॥१६३॥

प्रधाने चोर्ध्वदेशे वा कुर्याद् दोषो न विद्यते
एकदण्डं द्विदण्डं वा त्रिदण्डं भद्र निर्गमम् ॥१६४॥

अन्येषां हर्म्यमानेन युक्त्या तत्रैव योजयेत्
एवं तद्घनमानोक्तमघनं वक्ष्यतेऽधुना ॥१६५॥

विस्तारायामभक्ति स्यादुक्तवद्युक्तितो न्यसेत्
द्वित्रिभाग विशाले तु आयतं तत्प्रकल्पयेत् ॥१६६॥

भक्तित्रिभागमेकांशं भित्तिविस्तारमेव च
शेषं तद्गर्भगेहं तु मध्यभागे तु वेशनम् ॥१६७॥

अथवा चायतं वेदभागं कुर्याद् विचक्षणः
हर्म्यार्धं भित्तिविस्तारं शेषं तु गर्भगेहके ॥१६८॥

भित्त्यर्धं परितोलिन्द्र द्वारदेशे विशालता
त्रिभागं भद्र विस्तारं सार्धभागं तु निर्गमम् ॥१६९॥

नवपङ्क्तंशकं चापि रुद्र भागांशमेव च
एवं तु मध्यकोष्ठं च निर्गमं च द्विभागिकम् ॥१७०॥

तस्य मध्ये तु भद्रं वा पञ्चषड्भागमेव वा
अथवा सप्तभागं तु वसुभागं तथैव च ॥१७१॥

एकांशं निर्गमं कुर्यात्षट्सप्तांशमथापि वा
एवं तु चान्तरालं स्यान्मध्ये मध्यशालयुक् ॥१७२॥

द्विभागं वा त्रिभागं वा विस्तारं निर्गमांशकम्
तद्द्वयोरन्तरं कुर्याद्युक्त्या तत्रैव भूषितम् ॥१७३॥

एकं वा कर्णकूटं तु तथैवान्तर्विशेषतः
भित्तिबाह्यावृतांशेन कर्णकूटाद्बहिस्तथा ॥१७४॥

एवं जलस्थलं प्रोक्तमूर्ध्वाधोभूमि विन्यसेत्
शेषं तु पूर्ववत्कुर्यादेवं तु त्रितलं मतम् ॥१७५॥

मध्यकोष्ठविशाले तु पूर्ववत्स्वांशमाधिकम्
शेषं प्रागुक्तवत्कुर्यात्सर्वं युक्त्या प्रयोजयेत् ॥१७६॥

द्वारप्रासादमेवं तु त्रितलेष्वेव कारयेत्
गोपुरे तु चतुर्भूमिविन्यासं च मयाधुना ॥१७७॥

विस्तारे रुद्र भागं तु पूर्ववदायतं मतम्
अष्टांशाद्येकभागान्तं पञ्चधा विपुलं भवेत् ॥१७८॥

तत्तद्विगुणसीमाण्न्तं भागमेकेन वर्धनात्
एवं चायमिदं प्रोक्तं भित्तिगेहमिहोच्यते ॥१७९॥

त्रिचतुष्पञ्चषडभागं सप्तांशं कुड्यविस्तारम्
शेषं तु नालगेहं तु पञ्चधा परिकीर्तितम् ॥१८०॥

भित्तिबाह्यांशकांशेन द्विभागं च तले तले
ललाटे भद्र मेकांशं विस्तारं निर्गमार्धकम् ॥१८१॥

अन्तस्त्वलिन्द्र कं वापि भित्तिकं वाङ्घ्रिकान्वितम्
तद्भुवालिन्द्र कं युक्त्या जालकानाङ्घ्रिकान्तरे ॥१८२॥

घनं वाप्यघनं वापि भित्तिं कुर्याद् विचक्षणः
आयामे मध्यमे द्वारं भित्तिदेशे द्वयं न्यसेत् ॥१८३॥

गेहे तद्वल्ललाते च उपपीठाकृतिस्तलम्
अथवा वप्रवद्युक्त्या यथेष्टमुत्सेध मानयेत् ॥१८४॥

स्तम्भयुग्गोपुरं ज्ञात्वा विस्तारे चोत्तरान्तकम्
तत्त्रिभागद्विभागं वा भित्तिरेकेन कारयेत् ॥१८५॥

स्थापयेद् भागमेकं चेत्तत्सूत्राद्बहिराश्रितम्
अखोत्तरायते न्यस्य तिर्यक् तौलिं प्रकल्पयेत् ॥१८६॥

पादं वायते तौलिं कुर्याद्युक्त्या विचक्षणः
तदूर्ध्वे जयन्तिकं कुर्यात्तत्तत्प्रच्छादनान्वितम् ॥१८७॥

अथवा त्रिचतुर्भागं विस्तारायामकं तथा
भित्तितारार्धभागं तु शेषं तद्गेहमानकम् ॥१८८॥

तत्समं परितोलिन्द्रं शेषं तत्पूर्ववद्भवेत्
अथवा चायतं मानमेकभागाधिकं तथा ॥१८९॥

पूर्ववद् भित्तिविस्तारमेकांशावृतालिन्द्र कम्
त्रिभाग मध्यभद्रं च शेषं पूर्ववदाचरेत् ॥१९०॥

चतुर्भागविशाले तु पञ्चभागायतं तथा
भागार्धं भित्तिविस्तारं शेषं गर्भगेहं भवेत् ॥१९१॥

एकं च परितोद्वारं मध्यभद्रं त्रिभागिकम्
निर्गमं चैकभागेन तत्तद्भद्र द्विभागिकम् ॥१९२॥

एकांशं निर्गमोपेतं युक्त्या शेषं तु पूर्ववत्
चतुःषड्भागविस्तारमायामं प्रविधीयते ॥१९३॥

एकभागेन कुड्यं स्यान्नालिगेहं तु शेषकम्
एकभागावृतालिन्द्रं मध्यभद्रं युगांशकम् ॥१९४॥

तदर्धं नेत्रभद्रं स्यात्तदर्धं भद्र निर्गमम्
अष्टभागं तथायामं मध्ये भद्रं षडंशकम् ॥१९५॥

शेषं तत्पूर्ववत्प्रोक्तं कुर्यात्तच्छिल्पिवित्तमः
पञ्चषड्भागविस्तारे चायामं तद्विभाजिते ॥१९६॥

नेत्रभद्र द्विभागं तत् शेषांशं पूर्ववद् भवेत्
पञ्चभागविशाले तु सप्तभागं तथायते ॥१९७॥

मध्यभद्रं तु भूतांशे विस्तारं चैकनिर्गमम्
अन्येषां पूर्ववत्कुर्यादथवांशाधिकायतम् ॥१९८॥

षड्भागं भद्र विस्तारमेकभागेन निर्गमम्
शेषं पूर्ववदुद्दिष्टं तदर्धांशाधिकायतम् ॥१९९॥

पञ्चाशं भद्र विस्तारं निर्गमं चैकभागिकम्
शेषं प्रागुक्तवत्कुर्यात्पङ्क्तिभागदयं तथा ॥२००॥

षड्भागं मध्यभद्रं च अन्येषां पूर्ववद् भवेत्
षडंशं भागमाधिक्यं विस्तारायामकं तथा ॥२०१॥

एकांशं भित्तिविस्तारं परितः शेषं तु गेहकम्
एकभागावृतालिन्द्रं पञ्चांशं मध्यभद्र कम् ॥२०२॥

नेत्रभद्रं चतुर्भागमेकांशं भद्र निर्गमम्
एकभागाधिकायामं मध्यभद्रं षडंशकम् ॥२०३॥

तस्मदाधिक्यभागं तु भूतांशं भद्र मीरितम्
आयामे दशभागे तु भद्र तारं षडंशकम् ॥२०४॥

आयामे रुद्र भागं तु सप्तांशं भद्र विस्तरम्
द्वादशांशं तथायामे मध्यभद्रे गजांशकम् ॥२०५॥

निर्गमं चैकभागं स्याच्छेषं प्रागुक्तवर्णयेत्
एवं तद्द्वारशोभं स्यादेकभूमिरिति स्मृता ॥२०६॥

विस्तारे पञ्चभागे तु एकभागाधिकायतम्
त्रिचतुर्भागनालं स्याच्छेषं भित्तिविशालकम् ॥२०७॥

तद्बहिः परितॐऽशेन कूटकोष्ठविशालकम्
एकांशं कर्णकूटं च हारतारैकभागिकम् ॥२०८॥

मध्यकोष्ठं त्रिभागं च युक्त्या तत्रैव योजयेत्
एवं ललाटयोश्चैव दीर्घं विन्यासमुच्यते ॥२०९॥

कर्णकूटद्वयं चैव तद्भागद्वयमीरितम्
अन्तरालद्वयं पक्षं भागं कुर्याद् विचक्षणः ॥२१०॥

मध्यकोष्ठं चतुर्भागं निर्गमं च द्विभागिकम्
अथवात्यर्धभागं च सपादांशैकमेव च ॥२११॥

मध्यकोष्ठमिदं प्रोक्तं नेत्रदीर्घ द्वयं तथा
मध्यकोष्ठं चतुर्थं च कर्णकूटं चतुष्टयम् ॥२१२॥

हारान्तराष्टदेशे तु तोरणाद्यैर्विभूषितम्
अथवांशाधिकायामं पूर्ववद् भित्तिविस्तृतम् ॥२१३॥

मध्यभद्रो च्चभद्रं च त्रिभागं विस्तृतं भवेत्
निर्गमं चैकभागं स्याल्ललाटांशे तु पूर्ववत् ॥२१४॥

तस्मादधिकांशायामं पूर्ववद् विस्तृतं भवेत्
मध्यभद्र युगांशं स्यारान्तर द्विभागिकम् ॥२१५॥

मध्यकोष्ठं युगांशं स्यात्कुर्याच्छेषं तु पूर्ववत्
नवभागं तथायामे मध्यकोष्ठं शरांशकम् ॥२१६॥

अथवा वेदभागं च आयामे तत्प्रकल्पयेत्
मध्यकोष्ठं तु षड्भागं मध्यभद्रं द्विभागिकम् ॥२१७॥

तदर्धं निर्गमं प्रोक्तमन्तरालं द्विभागिकम्
शेषं पूर्ववदुद्दिष्टमथवा रसभागिकम् ॥२१८॥

विस्तारं सप्तभागं स्यादायामं च विशेषतः
एकांशं तद्वृतं भित्तितारं शेषं च नालिका ॥२१९॥

तद्बाह्ये परितश्चांशं कर्णकूटादिमानकम्
मध्यकोष्ठं द्विभागं स्यात्त्रिभागं चान्तरालकम् ॥२२०॥

आयामे मध्यकोष्ठं च त्र्! यंशं हारं द्विभागिकम्
अष्टांशं च तथायामं मध्यकोष्ठं युगांशकम् ॥२२१॥

नवभागं तथायामे कोष्ठायामं शरांशकम्
त्रिभागं वास्यभद्रं स्यान्निर्गमं चैकभागिकम् ॥२२२॥

दशभागं तथायामे पूर्ववत्परिकल्पयेत्
एकादशांशकं कुर्यात्पञ्चांशं मध्यकोष्ठकम् ॥२२३॥

द्वादशांशं तथायामे शालायामं षडंशकम्
मध्ये द्विभाग भद्रं स्यान्निर्गमं चैकभागिकम् ॥२२४॥

हारस्य मध्यदेशे तु अनुशाला विशालकम्
तत्पार्श्वद्वययो हारं नासिकापञ्जरान्वितम् ॥२२५॥

शेषं तु पूर्ववत्कुर्यातद्युक्त्या तत्रैव योजयेत्
विस्तारे सप्तभागं तु वसुभागं तथायतम् ॥२२६॥

भित्तिविस्तारमेकांश परितः शेषान्तरालिकम्
तत्तद्बाह्यावृतांशेन शेषमूह्यं विचक्षणैः ॥२२७॥

नवभागं तथायामे दशभागमथापिवा
एकादशांशकं वापि विन्यसेच्चैव पूर्ववत् ॥२२८॥

त्रयोदशांशमायामे मध्यशाला विशालयुक्
त्रिभागं चान्तरालं स्याच्चतुर्दशायतं तथा ॥२२९॥

मध्यकोष्ठं तदष्टांशं शेषं प्रागुक्तवन्नयेत्
अथवा चाष्टभागं तु विस्तारं तु नवायतम् ॥२३०॥

द्विभागं भित्तिविस्तारं शेष नालिगृहं मतम्
तद्बाह्ये परितश्चांशं कर्णकूटाद्यमानकम् ॥२३१॥

अथवा दशभागं स्यात्तदेकादशभागिकम्
द्वादशांशायतं वाथ त्रयोदशायतं ततः ॥२३२॥

चतुर्दशायतं वापि पञ्चादशांशदीर्घकम्
मध्यकोष्ठं शरांशं स्यात्तत्समं चान्तरालकम् ॥२३३॥

तस्य मध्ये विशेषेण त्रिभागं चानुशालकम्
एकं चाध्यर्धभागं वा मध्यकोष्ठन्तु निर्गमम् ॥२३४॥

द्व्यष्टभागं तथायामे मध्यकोष्ठं रसांशकम्
शेषं पूर्ववदुद्दिष्टं नवभागमथापि वा ॥२३५॥

विस्तारं चायतं पङ्क्तिभागं कुर्याद् विचक्षणः
भित्तिरारं कलांशं स्यात्तद्बहिः परितॐशकम् ॥२३६॥

एवं तु कूटशालाद्यैर्मानं कुर्याद् विशेषतः
अथवांशाधिकायामं द्वादशांशायतं तु वा ॥२३७॥

त्रयोदशांशकं वापि द्विसप्तभागमेव च
पञ्चादशांशकं वापि षोडशांशं तदायतम् ॥२३८॥

विन्यासं पूर्ववत्कुर्यात्सप्तदशांशमायतम्
मध्यकोष्ठं नवांशं स्यात्तन्मध्ये भूतभागिकम् ॥२३९॥

विस्तारे मध्यभद्रं तु निर्गमं चैकभागिकम्
अन्तरालं चतुर्भागं तन्मध्ये द्व्यंश भद्र कम् ॥२४०॥

अथवाष्टादशांशं तु आयामं तत्प्रकल्पयेत्
दशांशं मध्यकोष्ठं च षडंशं मध्यभद्र कम् ॥२४१॥

घनं वाप्यघनं वापि भित्तिं कुर्याद् विचक्षणः
ऊर्ध्वभाग विशेषेण कर्णहर्म्यादिमण्डितम् ॥२४२॥

तत्रैवाभ्यन्तरं चाथ भागमेवं जलस्थलम्
तद्बाह्ये चोर्ध्वभागं तु भित्तिरेवं तथैव च ॥२४३॥

अथवा दण्डमानेन वेशनं निर्गमं तथा
एतेषां द्वारशाले तु द्वितलं कारयेद् बुधः ॥२४४॥

गोपुरं त्रितलं न्यासं लक्षणं वक्ष्यतेऽधुना
सप्तांशं च द्विसप्तांशं भागं चैकैकवर्धनात् ॥२४५॥

एवमायमिदं प्रोक्तं शिल्पिभिः प्रवरैः कृतम्
द्विभागं भित्तिविस्तारं परितः शेषं तु गेहकम् ॥२४६॥

तस्य बाह्यावृतं ज्ञात्वा भागं कुर्याज्जलात्स्थले
तद्बहिः परितॐऽशेन कर्णहर्म्यादिमण्डितम् ॥२४७॥

तत्तस्मादावृतांशेन आदिदेशे जलस्थलम्
तत्समं तद्बहिः कुर्यात्कूटशालाद्यमानकम् ॥२४८॥

मध्यशालाष्टभक्तिः प्रोक्तं कर्णकूटाष्टकं तथा
हाराषोडश संयुक्तं शेषं प्रागुक्तवन्नयेत् ॥२४९॥

अष्टभागं तु विस्तारमायामं तेन वर्धनात्
षोडशांशं यथा न्याय्यं पूर्ववद्विधिना चरेत् ॥२५०॥

नवांशं विस्तृतारभ्य वसुपङ्क्त्यवसानकम्
आयाममिति हि प्रोक्तं विन्यासं पूर्ववद् भवेत् ॥२५१॥

विशालं दशभागं द्वाविंशभागावसानकम्
नवपङ्क्त्यंशेकविंशांशं दीर्घविन्यासमुच्यते ॥२५२॥

नन्दपङ्क्त्यंश विभजेच्चतुस्तले तु त्रिवर्गकम्
षट्सप्ताष्टभागं वा नवार्धं वार्धरुद्र कम् ॥२५३॥

भानु सैकार्कभागं तु मध्यकोष्ठविशालकम्
शेषं चान्तरालं च द्विभागं कर्णकूटकम् ॥२५४॥

मध्यशाला विशेषेण पञ्च षट् सप्तकं भवेत्
द्विभागं वा त्रिभागं वा शालामध्ये तु भद्र कम् ॥२५५॥

एकं वा द्विभागं वा त्रिभागं निर्गमं तु वा
अथवा हारदेशे तु एकद्वित्रियुगांशकम् ॥२५६॥

मध्यकेत्वनुशालाश्च निर्गमं चैकभागिकम्
शेषं तु चान्तरालानां नासिकापञ्जरान्वितम् ॥२५७॥

अधोभूमिश्चान्तराले कुम्भकुम्भतलान्वितम्
भद्रं वापि विभद्रं वा कर्णहर्म्यादिमण्डितम् ॥२५८॥

हारं च कर्णकूटं च उत्तरान्तं शिखान्तकम्
मध्यकोष्ठस्य शाले तु भद्र शाला विशेषतः ॥२५९॥

पक्षशालान्वितं वाथ ऊर्ध्वशालान्वितं तुवा
नीडाकारयुक्तं वापि चार्धशालान्वितं भवेत् ॥२६०॥

उत्तरान्तं कपोतान्तं प्रतिकान्तमथापि वा
एवं च मध्यकोष्ठे तु शालानामुन्नतं मतम् ॥२६१॥

शालातटे भद्र कोष्ठं वासकोष्ठं वा कल्पयेत्
एवमेतद्दशांशेन शेषं तु युक्तितो न्यसेत् ॥२६२॥

एवं चतुस्थलं प्रोक्तं नवांशारम्भं पूर्ववत्
तस्मादायते सर्वे द्विगुणान्तांश पूर्ववत् ॥२६३॥

वेदभूतरसांशेन सप्तभागाष्टभागिकम्
एवं तु भित्तिमानं तु शेषं तन्नालिकं भवेत् ॥२६४॥

भित्तिबाह्यं तु वृद्धिः स्यात्परितश्चैकभक्तितः
अष्टभागावसानं स्याद् बाह्यमानं तु पूर्ववत् ॥२६५॥

कर्णहर्म्यादिविन्यासं तच्चतुर्वर्गकान्तकम्
मध्यकोष्ठविशालं तु पूर्ववत्परिकल्पयेत् ॥२६६॥

शेषं तु चान्तरालं स्यात्कूटानां विन्यसेद् बुधः
अन्यान्यनुक्तमानानां चतुर्भूम्युक्तवत्कुरु ॥२६७॥

निर्गमं च प्रवेशं चालङ्कारं वक्ष्यतेऽधुना
विस्तारे वसुभागं स्याद् विभजेत् पृथुरेव च ॥२६८॥

तदर्धांशावृतं बाह्ये सालं शेषं विदक्षिकम्
वेदितारं चतुर्भागं त्र्! यंशं तद्ग्रीवविस्तरम् ॥२६९॥

वेदितुल्यं शिरो तारं शेषं प्रासादवद् भवेत्
द्विललाटे महानासि तद्वयोर्मध्यनासिकम् ॥२७०॥

तच्छालानासिकं वापि कर्तव्याकृतिनासिका
अन्यान्तरप्रदेशे तु क्षुद्र नासीं प्रभूष्यते ॥२७१॥

नेत्रनासीविशाले तु रसतारसमं भवेत्
त्रिकभाग द्विभागं वा पञ्चभागं त्रिभागिकम् ॥२७२॥

चतुर्भागं त्रिभागं वा मध्यनासीविशालकम्
तत्त्रिभागैकभागं तु पञ्चभागद्विभागिकम् ॥२७३॥

चतुर्भागद्विभागं वा क्षुद्र नासीविशालकम्
पादाधिक समं वापि पादहीनं तथोच्छ्रयम् ॥२७४॥

महानासिमौलितुङ्गं स्तूपिकाग्रावसानकम्
मध्यनासि तथामौलिं चाग्रं तत् बलिकान्तकम् ॥२७५॥

युक्त्या तत्क्षुद्र नासीनां कारयेच्छिल्पिवित्तमः
शालाकारं शिखाकारं स्थूपिकानावृतं तथा ॥२७६॥

गलकूटोपसंयुक्तं क्षुद्र नासिचतुष्टयम्
श्रीभोगाख्यमिदं प्रोक्तमष्टनासी जयान्तकम् ॥२७७॥

क्षुद्र नास्यर्कसंयुक्तं श्रीविशालं तथैव च
षोडशक्षुद्र नास्यङ्गं विष्णुकान्तमिहोच्यते ॥२७८॥

क्षुद्र नास्या तथा विंशत् इन्द्र कान्तं प्रकथ्यते
क्षुद्र नासी विना कुर्याद् ब्रह्मकान्तमिति स्मृतम् ॥२७९॥

गलकूटं विनाकुर्यात् स्कन्दकान्तं विशिष्यते
मध्यनास्युन्नतं तत्र नासिका पञ्जरान्वितम् ॥२८०॥

एवं तु शिखरं प्रोक्तं कर्करीनासिकाकृतम्
शालाकोष्ठ विशेषेण स्तूपिकान्तं प्रकल्पयेत् ॥२८१॥

भद्र शालां तु तत्कुर्यात्सौम्यकान्तमुदीरितम्
एतानि दशभेदः स्याच्छिरो सर्वेषु योजयेत् ॥२८२॥

गोपुराघनसर्वेषु यत्तलाद्यैर्विशेषतः
सर्वाविन्द्र स्य बाह्ये तत्पादं त्यक्त्वा प्रकल्पयेत् ॥२८३॥

अनुक्तमन्यतो ग्राह्यमग्राह्यमवसीदति
वातायनलक्षणम्
वक्ष्ये वातायनानां च लक्षणं विधिनाधुना ॥२८४॥

सर्वेषामपि हर्म्याणां मण्डपादीनि वस्तुनि
तथा वातायनस्थानं तथा वै चोक्तवर्णयेत् ॥२८५॥

तैतलानां तु तं तं तु नराणां हेष्यते बुधैः
नराणां जालकं सर्वं देवानामपि योग्यकम् ॥२८६॥

तद्विस्तारोदयं सर्वं प्राचीनोक्तं विचारयेत्
पादपालिकया युक्तं पत्रपुष्पैरलङ्कृतम् ॥२८७॥

देवानां जालकानां च मध्यरन्ध्रसमन्वितम्
द्विजानां भूपतीनां च मध्यस्तम्भं विसर्जयेत् ॥२८८॥

मध्यमं पट्टिकायुक्तं कुर्याच्छिल्पिविचक्षणः
वैश्यानां शूद्र जातीनां मध्ये स्तम्भं प्रयोजयेत् ॥२८९॥

न कुर्यात् पट्टिकमध्ये चैकं मञ्चं शुभावहम्
उक्तलक्षणहीनं तु नहि कुर्याद्यथेच्छया ॥२९०॥

अर्थनाशं श्रवाहीनं भविष्यति न संशयः
नागबन्धं तथा वल्ली गवाक्षं कुञ्जराक्षकम् ॥२९१॥

स्वस्तिकं सर्वतोभद्रं नन्द्यावर्ताकृतिस्तथा
पुष्पबन्धं सचित्राङ्गं रत्नसङ्घैरलङ्कृतम् ॥२९२॥

एषां वातायनरूपं नागवल्यादि दैवतम्
उक्तवद्विस्तृतायामे नन्दनन्दपदं भवेत् ॥२९३॥

भुजङ्गद्वयमेकं स्यादेकादशपदे त्रिधा
नाग वेदाष्टभागं वा कुर्याद् वातायनं बुधः ॥२९४॥

सप्तसप्तपदं कृत्वा पत्रवल्यादिमण्डितम्
युग्मायुग्मपदैर्वाथा चान्यवातायनेपि च ॥२९५॥

एकद्वित्रिचतुःपञ्चमात्रैरङ्घ्रिकपट्टिका
तद्विस्तारघनं सर्वं कुर्याद् वै शिल्पिवित्तमः ॥२९६॥

गोपुरे कूटकोष्टादिग्रीवे पादान्तरे तथा
घने वाप्यघने वापि यथा वातायनैर्युतम् ॥२९७॥

अन्यैस्तु वास्तुसर्वेषां यथाचोक्तवदेशके
कुर्याद् वातायनं सर्वं श्रीसंपत्प्रदायिकम् ॥२९८॥

प्रथमात्तु सार्धकर षट्षड्मात्रवृद्ध्या
तत्पञ्चबाहुमवधि त्रिविशालमेके ॥२९९॥

शोभादिपञ्चदश पञ्चविधप्रमाणम्
द्वारेषु चैव विदितं द्विगुणोदयं स्यात् ॥३००॥

इति मानसारे वास्तुशास्त्रे गोपुरविधानं नाम त्रयस्त्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP