संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| संग्रहः मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - संग्रहः 'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत संग्रहः Translation - भाषांतर उत्पत्तिरक्षणलयान् जगतां प्रकुर्वन् भूवारिवह्निमरुतो गगनं च सूतेनानासुरेश्वरकिरीटविलोलमालाभृङ्गावलीढचरणाम्बुरुहं नमामि ॥१॥गङ्गाशिरःकमलभूकमलेक्षणेन्द्र गीर्वाणनारदमुखैरखिलैर्मुनीन्द्रैः!प्रोक्तं समस्ततरवस्त्वपि वास्तुशास्त्रं तन्मानसारऋषिणापि हि लक्ष्यते स्म ॥२॥मानोपकरणं चादौ शिल्पलक्षणपूर्वकम्अथ वास्तुप्रकरणं भूपरीक्षाविधिं तथा ॥३॥भूसंग्रहस्ततः प्रोक्तं शङ्कुस्थापनलक्षणम्देवादीनां स्थापनाय पदविन्यासलक्षणम् ॥४॥बलिकर्मविधिं चैव ग्रामादीनां च लक्षणम्नगरीलक्षणं चैव भूमिलम्बविधानकम् ॥५॥गर्भन्यासविधिं चैव चोपपीठस्य लक्षणम्अधिष्ठानविधिं चैव पादमानस्य लक्षणम् ॥६॥प्रस्तरस्य विधिं चैव सन्धिकर्मस्य लक्षणम्विमानलक्षणं चैवमेकभूम्याश्च लक्षणम् ॥७॥द्वितलस्य विधिं चैव त्रितलस्य विधानकम्चतुस्तलविधिं चैव पञ्चभूम्याश्च लक्षणम् ॥८॥षट्सप्तलकं चैवमष्टभूनवभूमिकम्दशभूमिविधानं च रुद्र भूमिविधानकम् ॥९॥तलं द्वादशकं चैव प्राकाराणां च लक्षणम्परिवारलक्षणं चैव गोपुराणां च लक्षणम् ॥१०॥मण्डपस्य विधानं च शालानां चैव लक्षणम्विन्यासश्च गृहस्याथ गृहप्रवेशलक्षणम् ॥११॥द्वारस्थानविधिं चैव द्वारमानस्य लक्षणम्राजहर्म्यविधिं चैव राज्याङ्गस्य तु लक्षणम् ॥१२॥भूपतिलक्षणं चैव यानादिरथलक्षणम्शयनस्य लक्षणं चैव सिंहासनस्य लक्षणम् ॥१३॥तोरणं मध्यरङ्गस्य कल्पवृक्षस्य लक्षणम्अभिषेकलक्षणं चैव सर्वभूषणलक्षणम् ॥१४॥ब्रह्मादीनां त्रिमूर्तेश्च लक्षणं लिङ्गलक्षणम्पीठस्य लक्षणं चैव शक्तीनां लक्षणं तथा ॥१५॥बौद्धस्य जैनिकानां च लक्षणं मुनिलक्षणम्यक्षाविद्याधरादीनां लक्षणं भक्तलक्षणम् ॥१६॥ब्रह्मादीनां च देवानां तत्तद्वाहनलक्षणम्नयनोन्मीलनं चैव लक्षणं वक्ष्यते क्रमात् ॥१७॥मानसार-ऋषि कृत शास्त्रं मानसारमुनिनामकमासीत्तत्तु शिल्पिवरदेशिकमुख्यैः स्वीकृतं सकललक्षणपूर्वम् ॥१८॥इति मानसारे वास्तुशास्त्रे संग्रहो नाम प्रथमोऽध्यायः N/A References : N/A Last Updated : September 30, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP