संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| राजलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - राजलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत राजलक्षणम् Translation - भाषांतर अथ वक्ष्ये विशेषेण भूपानां लक्षणं परम्चक्रवर्ती महाराजो नरेन्द्रः! पार्ष्णिकस्तथा ॥१॥अथ पट्टधरश्चापि मण्डलेशस्तथैव चअथैव पट्टभाक् चैव ततः प्राहारकस्तथा ॥२॥अस्त्रग्राहस्ततश्चैते नव भूपा यथाक्रमात्चतुःसागरपर्यन्तां महीं स्वीकृत्य बलवान् ॥३॥जित्वा द्वारस्य पुरतो बन्धमाबध्य संस्थितःन्यायान्यायविचारार्थं किञ्चिन्मध्यप्रतापवान् ॥४॥कीर्तिमान् श्रीमतां श्रेष्ठः कृपया लोकरक्षकःसर्वावनीन्द्र वन्द्योऽसौ चक्रवर्तीति कीर्तितः ॥५॥शक्तित्रयेदक्षिणीं स्वीकृत्य सप्तंराज्यस्य चेश्वरःषड्गुणैः षड्बलैर्युक्तो नीतिज्ञः सूर्यवंशवान् ॥६॥चन्द्र वंशोदितो वाथ चाधिराज इति स्मृतःशक्तित्रयेण त्रितयराज्यं स्वीकृत्य दुर्वलान् ॥७॥पार्ष्णिकः पट्टधरो मण्डलेशोऽपि पट्टभाक्एतैर्वन्द्यपदद्वन्द्वो नीतिनेत्रः अरिन्दमः ॥८॥सुकृती चोत्सवरतो नरेन्द्रः! परिकीर्तितःएकराज्यस्याधिपतिश्चैकदुर्गमधिष्ठितः ॥९॥षड्बलाधिपतिर्ज्ञानी कालज्ञोऽथ प्रयोगवान्एवं परेभ्यश्चाभिहितो पार्ष्णिक इति स्मृतः ॥१०॥चतुष्टयगुणाधीशश्चार्धराज्यस्य चेश्वरःएकदुर्गस्याधिपतिः स्वाम्यमात्यैरपीश्वरः ॥११॥मण्डलाधिपतिः पट्टभाक्भौमेऽपि वर्जितम्एवं गुणविशिष्टोऽसौ प्रोक्तः पट्टधराख्यया ॥१२॥अर्धमण्डलस्याधिपतिरेकमण्डलसंश्रितःपट्टभागादिवन्द्योऽसौ मण्डलेश इति स्मृतः ॥१३॥मण्डलाधिपतिः श्रीमानेकदुर्गमधिष्ठितःसज्जनानां धनाढ्यानामधिपः पट्टभाक् स्मृतः ॥१४॥ब्राह्मणक्षत्रियवैश्यशूद्रैः! एककुलोद्भवःएकदुर्गस्याधिपतिर्नानाजनपदाधिपः ॥१५॥सज्जनाधिपतिः सर्वरक्षादिनकरेश्वरःएतल्लक्षणयुक्तोऽसौ राजा प्राहारकः स्मृतः ॥१६॥नानाजनपदाधीशो नगरीनायकः प्रभुःएकदुर्गमधिष्ठाप्य नानाजनपदैकराट् ॥१७॥आदाय दुर्बलानां तु सोऽस्त्रग्राही प्रकीर्तितःचक्रवर्ती अधिराजश्च नरेन्द्र श्चाविचारकः ॥१८॥पार्ष्णिकश्च शिरस्त्रं स्यात्पट्टधृक् पट्टबन्धनम्मण्डलेशस्य पट्टं स्यात्पट्टभाक् पट्टबन्धनम् ॥१९॥प्राहारकश्चास्त्रग्राही चोभौ मालाधरौ स्मृतौचक्रवर्ती महाराजो नरेन्द्र श्चैव मौलिनः ॥२०॥सिंहासन सनिर्यूहं कल्पवृक्षसतोरणम्पार्ष्णिकश्च पट्टधरः पट्टभाक् तृतीयस्य तु ॥२१॥विना कल्पतरोः सर्वमुक्तं सिंहासनादिकम्प्राहारकस्य नृपतेः सिंहासनमिति स्मृतम् ॥२२॥अस्त्रग्राहस्य भूपस्य केवलं चासनं भवेत्चक्रवर्त्यादि निर्बाधं भूपालाद्योर्विशेषतः ॥२३॥चामरे धवलच्छत्रं बहुमालाधर स्मृतम्आसनानां तु सर्वेषां षट्पादं परिकीर्तितम् ॥२४॥चक्रवर्ती विशेषेण नवमालाधरः सुखीचामरैकं विनाच्छत्रं चतुष्पादसमन्वितम् ॥२५॥क्षुद्र स्य परिपालेभ्यो मध्यश्रेष्ठस्य योग्यकम्बहुमाला च संप्रोक्तमन्यैः क्षुद्रै स्तु वर्धिते ॥२६॥वृत्ता सज्जननिर्यूहं मुक्ता च स्रग्विभूषणम्क्षुद्र श्रेष्ठस्य नृपतेश्चोभे जनपदे स्मृतौ ॥२७॥अन्येभ्यो क्षुद्र राजेभ्यस्त्वेकजानपदं परम्एते तु क्षुद्र भूपालो भूपालानां तु सेवकाः ॥२८॥चक्रवर्त्याख्यराजोऽसौ दुर्जनानां तु नाशकःकृपालुः कृपया लोकं संरक्षति मुहुर्मुहुः ॥२९॥अथ दशकैकांशं करं स्वीकृत्य तिष्ठतिमहाराजः षडंशे तु करं चैकं परिग्रहेत् ॥३०॥दुर्जनानां जनं ज्ञात्वा दिशि धर्मस्य पालकाःनरेन्द्र स्य तु पञ्चांशं करं स्वीकृत्य राज्यति ॥३१॥अर्थिभ्योऽतिदरिद्रे भ्यो दाता धनवतां गृह्णीयात्अथ पार्ष्णिकाख्यनृपतिः करमद्य प्रतिगृहीयात् ॥३२॥पट्टधरस्य समये चोक्तवत् त्रिः प्रतिगृहीत्ददाति विदुषां भूयः अन्येभ्यः किञ्चिदेव हि ॥३३॥पट्टभाक् राज्यं तत्सर्वं करं स्वीकृत्य तिष्ठतिदेवेभ्यो ब्राह्मणेभ्योऽपि नित्य मान्यं करोत्यसौ ॥३४॥प्रहारकस्य देशस्य करं स्वीकृत्य तिष्ठतिनीतिशास्त्रोक्तवन्न्यायमन्यायं करोत्यपि ॥३५॥धर्मज्ञश्चोपकारज्ञो वामभिः कर्मभिः दृढःअस्त्रग्राहः स्वराज्यस्य न्यायाज्जग्राह तत्करम् ॥३६॥यथापराधदण्डं च हिंसां नाभिकरोति चतापसान् ब्राह्मणान्देवान् सदा पूजां करोत्यपि ॥३७॥एवं क्षुद्रा श्च भूपालाः स्वे स्वे जनपदे करान्स्वीकृत्य चक्रवर्त्यादिराजानां च करोत्यपि ॥३८॥इत्युक्तन्यायमार्गस्य भागं कुर्वन्ति ते नृपाःअक्षत्रियास्तु ते सर्वे प्रोक्तं विद्वान् पुरातनैः ॥३९॥इतिविरचितमेवं भूपतीनां चरित्रम्श्रुतिसकलपुराणैः सर्वशास्त्राय मानम्परिपतति यदे तल्लक्षणं चार्थयुक्तम्स तु निखिलविबुधेभ्यो वन्द्यपादारविन्दः ॥४०॥इति मानसारे वास्तुशास्त्रे राजलक्षणविधानं नाम द्विचत्वारिंशोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP