संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
शयनविधानम्

मानसारम् - शयनविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


देवानां च द्विजातीनां वर्णानां शयनार्थकम्
योग्यकं पर्यङ्कस्य लक्षणं वक्ष्यतेऽधुना ॥१॥

एकादशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात्
पञ्चविंशाङ्गुलान्तं स्याद्बालपर्यङ्कविस्तृतम् ॥२॥

एवं चाष्टविधं प्रोक्तं बालानां सर्वजातिनाम्
तदर्धं च त्रिपादं च तत्समाधिकमायतम् ॥३॥

विस्तारार्धं त्रिपादं च परितो वातायनोदयम्
तद्विस्तारसमं वापि त्रिपादं पादोदयं भवेत् ॥४॥

त्रिचतुष्पञ्चाङ्गुलं वापि पादविस्तारमेव च
चतुष्पादसमायुक्तं पादाग्रे चक्रसंयुतम् ॥५॥

पादतारसमं चक्रं विस्तारं परिकीर्तितम्
अर्धैकद्व्यङ्गुलं वापि घनं युक्त्या प्रयोजयेत् ॥६॥

पादाग्रे सान्तरालं स्यात्कुर्यात्तिर्यक् च यन्त्रकम्
द्विमात्रं च त्रिमात्रं वा पर्यङ्कं पट्टिकोदयम् ॥७॥

तद्द्वयं विस्तृतं चैव चाग्रं वामाग्रकर्णयुक्
परितः पट्टिकामध्ये परितः छिद्रं योजयेत् ॥८॥

कार्पासं रज्जु वेणुं च तालं च शणवल्कलैः
पट्टिकाश्च तयोर्मध्ये दीर्घंदीर्घं तु योजयेत् ॥९॥

पट्टिकां परितो बाह्ये वृत्तकं परिकल्पयेत्
एकं वाथ द्वयं वापि क्षेपणं बहुधान्वितम् ॥१०॥

वृत्ताकृतीष्टपादानां युक्त्या वर्णेन लेपयेत्
गवाक्षाकारं युक्त्या च पट्टिकोर्ध्वे समन्ततः ॥११॥

कुञ्जराक्षमलक्षं वा पत्रपुष्पाद्यलङ्कृतम्
क्षुद्र क्षेपणसंकीर्णं क्षुद्र नानाङ्घ्रिसंयुतम् ॥१२॥

बहुपादश्रेणियुक्तमधिष्ठाङ्गक्रियान्वितम्
एवं तु बालपर्यङ्कं सर्वालङ्कारसंयुतम् ॥१३॥

एकविंशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात्
सप्तत्रिंशाङ्गुलान्तं स्यात्पर्यङ्कस्य विशालता ॥१४॥

कन्यसादुत्तमान्तं स्यादङ्घ्रिकान्तरमेव च
एवं तु मानुषाणां च देवानां च विशेषतः ॥१५॥

पाद बाह्यावसानं स्याद्विस्तारायामं मानयेत्
देवानां च द्विजातीनां विस्तारं द्विगुणायतम् ॥१६॥

विशाले तु गुणांशं वा द्व्यंशाधिकायतं तथा
तस्माद्धीनाधिकं चैतत्सर्वदोषसमुद्भवम् ॥१७॥

त्रिचतुष्पञ्चषट्सप्ताष्टनन्ददशाङ्गुलम्
एकादशाङ्गुलान्तं च नवभेदमुदीरितम् ॥१८॥

कन्यसादुत्तमान्तं स्यात्पट्टिकाविस्तृतं भवेत्
विस्तारार्धं तदुत्सेधं परितः पट्टिका भवेत् ॥१९॥

वेदाश्रायतं सर्वं पर्यङ्कमिति कथ्यते
षडङ्गायादिसर्वेषां विस्तारे परिकल्पयेत् ॥२०॥

परितः पट्टिका बाह्ये वृत्तवेत्रादिमण्डितम्
अधिष्ठानोपपीठं यत्कुर्याद्वै पट्टिकोन्नतम् ॥२१॥

श्रीबन्धं कुट्टिमं कुर्याद् देवभूसुरभूपतेः
पादबन्धमधिष्ठानं सर्वजात्यार्हकं भवेत् ॥२२॥

प्रतिभद्रो पपीठं स्याद् भूसुरसुरभूपतेः
वेदिभद्रो पपीठं स्याद्वैश्यशूद्र स्य योग्यकम् ॥२३॥

उपपीठमधिष्ठानं नाटकाद्यादिनावृतम्
देवानां देवतारूपं मानुषाणां च मानवम् ॥२४॥

देवानां सर्वरूपं स्यान्मानुषस्योक्तवद् भवेत्
पद्मपत्रादिचित्रैश्च सर्वालङ्कारसंयुतम् ॥२५॥

दन्तं वा दारुजं वापि क्षुद्र वेद्यादि कुट्मलैः
षण्णवार्काङ्गुलं चैव त्रिविधं पादतुङ्गकम् ॥२६॥

उत्सेधं च समं तारं त्रिपादं वार्धमेव वा
मूलतारं शरांशे तु त्रयांशं चाग्रविस्तृतम् ॥२७॥

तदुत्सेधं तु नवांशं स्याज्जन्मनोच्चं शिवांशकम्
पद्मतुङ्गं द्विभागं स्यात्कर्णोच्चमम्बरांशकम् ॥२८॥

कुम्भमेकेन कर्तव्यं कन्धरं च द्विभागिकम्
सार्धांशं चोर्ध्वपत्रं स्यादर्धांशं वाजनं भवेत् ॥२९॥

कुम्भपादमिति प्रोक्तं तस्मादुच्चं प्रवेशनम्
तदेव हरिकाकर्णं सर्वाङ्गं पद्मवाजनम् ॥३०॥

वज्रपादमिति प्रोक्तं युक्त्या कुर्यान्मनोहरम्
अथवा मध्यकर्णादौ चोर्ध्वादौ पद्मवाजनम् ॥३१॥

पद्मपादमिति प्रोक्तं सर्वालङ्कारसंयुतम्
चतुःषट्पादयुक्तं वा देवानां च द्विजातीनाम् ॥३२॥

देवानां भूतसिंहं वा पादमध्ये प्रयोजयेत्
नृपाणां सिंहपादं स्यात् शेषाणां पूर्ववद् भवेत् ॥३३॥

सर्वालङ्कारसंयुक्तं शेषं युक्त्या प्रयोजयेत्
अयष्कीलेन पादानां मध्ये रन्ध्रं प्रयोजयेत् ॥३४॥

तदूर्ध्वे पट्टिकां न्यस्य कीलाग्रे च कबन्धनम्
चतुर्भिः शृङ्खलायुक्तमान्दोलं चैकतोपरि ॥३५॥

देवभूसुरभूपानामन्येषां शयनार्थकम्
वकुलं चाशिनीपुत्रं द्रा क्षारक्तं च चन्दनम् ॥३६॥

निम्बं च चन्दनं चैव चापशाखः शमी तथा
एवं तु शयनादीनामासनानां च दारुभिः ॥३७॥

दन्तं वै क्षीरिणी चैव तिन्दुकं विरलं तथा
शाकं च सर्वपादानां वृक्षमेवमुदीरितम् ॥३८॥

अन्यानि स्निग्धसर्वैश्च यथालाभेन संग्रहम् ॥३९॥

विस्तारदीर्घचरणानि विभूषणं च
युक्तं विधाय कुरुते त्वथ शिल्पिनोक्तम्
पर्यङ्कोपरि नयनं प्रकुर्वन्
पुत्रं चायुरपि हानिः धनक्षयं च ॥४०॥

मञ्चस्य लक्षणं सपट्टिकपादकादीन्
सर्वाङ्गमपि केसरीभूतपादम्
शास्त्रोक्तलक्षणवशात्कुरुते तु सर्वम्
सम्पत्सुखं च लभतेऽप्यथ भुक्तिमुक्तीः ॥४१॥

इति मानसारे वास्तुशास्त्रे शयनविधानं नाम चतुश्चत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP