संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
भूषणलक्षणम्

मानसारम् - भूषणलक्षणम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


देवानां भूपतीनां च भूषणानां तु लक्षणम्
क्रमात्तद्विधिना सम्यक् संक्षेपाद्वक्ष्यतेऽधुना ॥१॥

पत्रकल्पं चित्रकल्पं रत्नकल्पं च मिश्रितम्
एषां च दुर्विधं प्रोक्तं कुर्यादाभरणं बुधः ॥२॥

देवानामपि सर्वेषां कल्पैः सर्वं तु योग्यकम्
पत्रकल्पं विना सर्वं सार्वभौमस्य योग्यकम् ॥३॥

रत्नं मिश्रं च योग्यं स्यादधिराजनरेन्द्र योः
अन्येषाम् भूपतीनां च मिश्रकल्पं च योग्यकम् ॥४॥

पत्रवल्लीरलङ्कृत्य पत्रकल्पमिति स्मृतम्
पुष्पवल्ली च चित्रैश्च सर्वरत्नैरलङ्कृतम् ॥५॥

एतत्तु चित्रकल्पं तु नाटकाभिरलङ्कृतम्
पुष्परत्नैरलङ्कृत्य भूषणं रत्नकल्पकम् ॥६॥

पत्ररत्नैश्च संभूष्य मिश्रकल्पमिति स्मृतम्
हारोपग्रीवकेयूरकटकैश्च सुपूरिमम् ॥७॥

बाहुवलयदामं च स्कन्धो मालावलम्बनम्
प्रकोष्ठे वलयं चैव मणिबन्धकलापकम् ॥८॥

रत्नाङ्गुलीयकैश्चैव विना मध्याङ्गुलीयकम्
मध्ये चोदरबन्धं स्यात्तस्योर्ध्वे स्तनसूत्रकम् ॥९॥

यज्ञसूत्रादिपार्श्वैक सूत्रं स्यात्तु स्तनावृतम्
पुरसूत्रलम्बनं पूर्वे यज्ञसूत्रं तु बन्धनम् ॥१०॥

कटिसूत्रावसानं स्यात्पुरसूत्रमिति स्मृतम्
वक्षस्थले च हारं स्यादुपग्रीवहृदयान्तकम् ॥११॥

बाहुमूले तु वलयं दाम कक्षावसानकम्
बाहुमालावलम्बं स्यात्केयूरकटकान्वितम् ॥१२॥

बाह्यायामस्य मध्ये तु केयूरकटकान्वितम्
तदूर्ध्वे पूरिमं कुर्यात्कर्णे मकरभूषणम् ॥१३॥

कटिसूत्रं तु संयुक्तं कटिप्रस्थ सपट्टिका
मेढ्रान्तं पट्टिकान्तं स्यात्तन्मध्ये सिंहवक्त्रवत् ॥१४॥

अथवा रत्नबन्धं स्यात्स्यादामेढ्र विनिर्गमम्
निर्व्यं च पञ्चपार्श्वे तु मध्ये दामचलान्वितम् ॥१५॥

पीताम्बरदुकूलं च नलकान्तप्रलम्बनम्
अथवा जानुपर्यन्तं चर्मचीरं च वाससम् ॥१६॥

जङ्घादिवलयोपेतं पादजालादिभूषणम्
विहाय तर्जनीं सर्वैरङ्गुलैरङ्गुलीयकम् ॥१७॥

ऊर्ध्वकाये च हारादि पार्श्वयोर्वात लम्बनम्
मध्ये दामं च लम्बं स्याच्छन्नवीरमिति स्मृतम् ॥१८॥

इत्युक्तं भूषणं देवैश्च क्रवर्तेरिति स्मृतम्
चक्रवस्तदा विष्णोर्वनमाला विभूषितम् ॥१९॥

अधिराजनरेन्द्रा भ्यां विनासूत्रोपरिस्तनौ
अन्येषां सर्वभूपानां केयूरकटकं विना ॥२०॥

सर्वेषामपि देवानां गुल्फस्योपरिदेशके
भुजङ्गकटकोपेतं पादनूपुरसंयुतम् ॥२१॥

कर्णं विभूषणं कुर्यान्मकराङ्कितकुण्डलम्
अथवा स्वर्णताटङ्कौ शेषं तु पूर्ववद्भवेत् ॥२२॥

अङ्गभूषणमित्युक्तं बहिर्भूषणमुच्यते
दीपदण्डं व्यजनं च दर्पणं चैव लक्षणम् ॥२३॥

पर्णमञ्जूषकादीनां दोलाया लक्षणं तथा
भूपानां च तुलाभारतुलालक्षणमुच्यते ॥२४॥

वत्सरारम्भलेखार्थं पत्रं च कर्णलक्षणम्
मृगनाभिबिडालस्य शुकस्यापि च पञ्जरम् ॥२५॥

चातकस्य चकोरस्य मरालस्य च पञ्जरम्
पारावतस्य नीडं च नीलकण्ठस्य पञ्जरम् ॥२६॥

तित्तिरेश्च कुलायं च कन्दुरीयस्य पञ्जरम्
कुक्कुटस्य कुलायं च नकुलस्यापि पञ्जरम् ॥२७॥

चटकस्य गोधारस्य पञ्जरं व्याघ्रपञ्जरम्
सर्वेषां लक्षणं वक्ष्ये विधिना संक्षेपतः क्रमात् ॥२८॥

द्वादशाङ्गुलमारभ्य एकादशाङ्गुलं भवेत्
अष्टसप्ताङ्गुलोपेतं विंशत्यङ्गुलकान्तकम् ॥२९॥

नवधा दीपदण्डोच्चं द्विद्व्यङ्गुलविवर्धनात्
अथवा हस्तमानेन दीपदण्डोदयं क्रमात् ॥३०॥

एकहस्तं समारभ्य त्रित्र्! यङ्गुलविवर्धनात्
द्विकरान्तं तथोत्सेधं तथा हस्तेन वर्धयेत् ॥३१॥

नवहस्तावसानं स्यात्कन्यसादि त्रयं त्रयम्
केचित्पुरतो दीपदण्डं हर्म्यवशोदयम् ॥३२॥

प्रस्तरं वेदिकान्तं च ग्रीवान्तं दण्डकान्तकम्
नासिकान्तं फलिकान्तं पद्मान्तं तद्घटान्तकम् ॥३३॥

स्तूपिकाग्रावसानं स्यात्कन्यसादि त्रयं त्रयम्
एकद्व्यङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥३४॥

अथवार्धाङ्गुलैर्वृध्यात्पञ्चषडङ्गुलान्तकम्
मात्राङ्गुलोनमे वोक्तं दीपदण्डविशालकम् ॥३५॥

एवं तु दारुजैः कुर्याल्लोहजेतु विशेषतः
एकाङ्गुलं समारभ्य चार्धार्धाङ्गुलवर्धनात् ॥३६॥

पञ्चाङ्गुलावसानं स्यात्कन्यसादि त्रयं त्रयम्
फलकादण्डकमिति प्रोक्तं विस्तारं दण्डमूलके ॥३७॥

त्रिचतुष्पञ्चषट्सप्तसाष्टभाग विभाजिते
तत्तदेकांशहीनं स्याच्छेषदण्डाग्रविस्तृतम् ॥३८॥

चित्रपाण्यग्रवद् दण्डं मूले पद्मासनान्वितम्
अग्रे च फलकान्तं च ताटिकाद्यैर्विभूषितम् ॥३९॥

अथवाङ्घ्रिकवारिं स्यादूर्ध्वे च कुड्मलान्वितम्
दण्डविस्तारमानेन दण्डद्वित्रयमेव वा ॥४०॥

चतुर्दण्डं पञ्चषट्दण्डं पद्मविस्तारमेव च
फलका च त्रिदण्डं स्यादथवा पङ्कजोक्तवत् ॥४१॥

दण्डमध्ये तु ते सर्वे युग्मा चाङ्घ्रिकवारिका
चतुरश्रं वा तदष्टाग्रं वृत्तं वा चलदण्डकम् ॥४२॥

स्थिरदण्डविशाले तु मानाङ्गुलवशान्नयेत्
त्रिचतुर्मात्रमारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥४३॥

एकोनविंशत्यङ्गुल्या विंशत्यङ्गुलकान्तकम्
एवं नवविधं प्रोक्तं स्थिरदण्डविशालकम् ॥४४॥

लोहजैर्दारुजैर्वापि शैले वाथ प्रकल्पयेत्
पुरोक्तदण्डतुङ्गे तु त्रिचतुष्पञ्चषडंशके ॥४५॥

एकैकं चाधिकं युक्तं दण्डस्य घातमानकम्
मूले च वेदिकां कुर्यात्पद्मोपपीठमेव वा ॥४६॥

फलकादिभूषणं वापि मञ्जुदण्डमथापि वा
मूले च चतुरश्रं स्यादष्टांशं वा सुवृत्तकम् ॥४७॥

ऊर्ध्वे चोक्तवच्चाग्रे चामूलाग्रक्षयं तरिम्
युक्त्योपर्युक्तवन्माने कुर्यादूर्ध्वे तु दण्डकम् ॥४८॥

व्यजनदण्डमानस्य लक्षणं वक्ष्यतेऽधुना
यत्तदङ्गुलमानेन षट्सप्ताङ्गुलमारभेत् ॥४९॥

द्वादशैकाङ्गुलान्तं स्यान्मूलदण्डायतं भवेत्
एकं वाथ द्वयाङ्गुलं यथा संपरिकीर्तितम् ॥५०॥

इत्युक्त मूलमग्रं च मध्ये किञ्चित्कृशान्वितम्
वृत्ताकारं च दण्डं स्यादग्रे च हरितान्वितम् ॥५१॥

मूले च कुड्मलाकारं किञ्चित्पद्मासनान्वितम्
तदूर्ध्वे भ्रमदण्डं स्यान्मूलदण्डायतं भवेत् ॥५२॥

विस्तारैकत्रिभागैकं चतुर्भागविशालकम्
तदग्रे हरितापद्मं किञ्चित्कुड्मलसंयुतम् ॥५३॥

एवं व्यजनदण्डं स्याद् दारुजं लोहजमथवा
व्यजनं चर्मकारेणचर्म कुर्यात्तु योजयेत् ॥५४॥

व्यजनद्वयबहिर्दशे श्रीरूपाद्यैरलङ्कृतम्
वर्णैश्च लोहद्र व्येण लेखयेच्चोक्तवद् बुधः ॥५५॥

एवं तु व्यजनं प्रोक्तं दर्पणं वक्ष्यतेऽधुना
पञ्चषडङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥५६॥

एकविंशाङ्गुलान्तं च द्वाविशत्यङ्गुलान्तकम्
एवं नवविधं प्रोक्तं दर्पणस्य विशालकम् ॥५७॥

यवतारैकमारभ्य यवतारेण वर्धनात्
यवतारं नवान्तं स्याद् दर्पणं बहुलं भवेत् ॥५८॥

दर्पणं सुवृत्तं स्यादंशरु किञ्चिदुन्नतम्
निर्मलं दर्पणं मध्ये बाह्ये रेखाभिरावृतम् ॥५९॥

अपरे च लक्ष्मीमाद्यैर्वल्येश्च विन्यसेत्
दर्पणस्य त्रिभागैकं मूले कीलायतं तथा ॥६०॥

आयामं सदृशान्तरं चार्धं पद्मान्तमेव हि
शेषं कीलायतं कुर्यात्तत्त्रिभागैकविस्तृतम् ॥६१॥

तन्मूलं षोडशांशं तु कीलकं तु विशालकम्
यथाफलं यथायुक्त्या दर्पणं दण्डवत्क्रमात् ॥६२॥

दर्पणाङ्कस्य कोणे तु कारयेत्कांसकारकैः
दारुजे लौहजे वापि तद्दण्डं कारयेत्सुधीः ॥६३॥

दर्पणस्य समं दीर्घं तत्पादाधिकमेव वा
अर्धं त्रिपादमाधिक्यं तत्समाधिकमेव च ॥६४॥

दर्पणस्य विशाले तु चतुर्भागैकविस्तृतम्
मूले पद्मासनैर्युक्तं चाग्रे च फलकादिभिः ॥६५॥

कुर्यात्तु शिल्पिनः प्राज्ञः सर्वालङ्कारसंयुतम्
एवं तु दर्पणं प्रोक्तं वर्णज्ञादुपलक्षणम् ॥६६॥

त्रिचतुर्मात्रमारभ्य द्विद्व्यङ्गुलविवर्धनात्
नवपङ्क्त्यङ्गुलान्तं च विंशमात्रावसानकम् ॥६७॥

पर्णमञ्जूषविस्तारं कन्यसादि त्रयं त्रयम्
पादाधिकमथाध्यर्धं पादोनद्विगुणान्तकम् ॥६८॥

तद्विस्तारसमोत्सेधं कुर्यात्तु चतुरश्रकम्
वृत्तं वृत्तायतं वापि यथा कांसैश्च लोहजैः ॥६९॥

पादमर्धाङ्गुलं वापि दारुजस्य मानं भवेत्
तदुत्सेधे त्रिचतुर्भागमेकांशेन वरत्नकम् ॥७०॥

एककोष्ठं द्विकोष्ठं वा त्रिकोष्ठं वाथ कल्पयेत्
यथाबलं यथायुक्त्या तथाबन्धायम्नेन च ॥७१॥

तदेव मञ्जूषोत्सेधे पदाधिकमेव वा
अर्धाधिकमेवं वा तैलमञ्जूषिकोन्नतम् ॥७२॥

शेषं तु पूर्ववत्कुर्याद्वर्णाकारविधानकम्
सर्वाभरणमञ्जूषं कुर्यादेवं तु वित्तमः ॥७३॥

एकहरत्नं समारभ्य त्रित्र्! यङ्गुलविवर्धनात्
तद् द्विहस्तावसानं स्याद्वस्त्रमञ्जूषाविस्तृतम् ॥७४॥

अथवा तद्वदन्तेन मानयेन्मानवित्तमः
तद्विस्तारसमोत्सेधं चतुराकार पूर्ववत् ॥७५॥

शेषं युक्त्या प्रकुर्वीत वस्त्रमञ्जूषकादि वै
देवानां मानुषाणां च डोलाया लक्षणं तत् ॥७६॥

तत्त्रिकं च समारभ्य षट्षडङ्गुलवर्धनात्
एकविंशद्विधो पादं तुङ्गमष्टकरान्तकम् ॥७७॥

पञ्चषडङ्गुलमारभ्य एकैकाङ्गुलवर्धनात्
सैकार्कमनुमात्रान्तं पादविस्तारमिष्यते ॥७८॥

पादानामुक्तवत्सर्वं यथाकारैरलङ्कृतम्
उक्तवद्भित्तिमानेन एकभित्तिद्विभित्तियुक् ॥७९॥

तदूर्ध्वे वाजनं कुर्यात् पादपादं यथाबलम्
वाजने च द्विवलयं स्याद्भायसेन बलाबलम् ॥८०॥

वितस्त्येकं समारभ्य एकैकेन विवर्धनात्
एकविंशाङ्गुलान्तं स्यात् बलकं विस्तृतं भवेत् ॥८१॥

तत्पादाधिकमेवं च पादोनं द्विगुणायतम्
द्विगुणान्तं तदायामं घनं युक्त्या च योजयेत् ॥८२॥

पुरतः पृष्ठतो मध्ये पर्वणं भद्र संयुतम्
पार्श्वयोर्वारणं कुर्यात् तस्याधोऽक्षं ससंयुतम् ॥८३॥

तस्याधो फलकैर्युक्तं सर्वालङ्कारसंयुतम्
आयसे निर्गलं कुर्याद्योजयेद्र ज्जुमेव वा ॥८४॥

वस्त्रोर्ध्वे चैकहस्तान्तं डोलाया फलकान्तकम्
तदूर्ध्वे वाजनान्तं स्यान्निर्गलायाममीरितम् ॥८५॥

निर्गलाग्रे द्वयाग्रं स्यात्फलकावलयान्वितम्
दोलाया लक्षणं प्रोक्तं तुलालक्षणमुच्यते ॥८६॥

हस्तद्वयं समारभ्य त्रित्र्! यङ्गुलविवर्धनात्
त्रिहस्तान्तं तुलायामं कन्यसादुत्तमान्तकम् ॥८७॥

अस्त्रग्राहाद् भूपादीन्सार्वभौमावसानकम्
क्रमात्तु नवधा प्रोक्तं त्रिचतुर्मात्रविस्तृतम् ॥८८॥

मध्ये चाग्रविशाले तु तत्तदंशेन हीनकम्
आमध्याग्रं क्षयं कुर्यादग्रयोर्बलयान्वितम् ॥८९॥

दण्डायामं च मानेन मध्यजावायतं तथा
दण्डतारं त्रिभागैकं जिह्वामूलविशालकम् ॥९०॥

तदष्टांशैकभागं वा षोडशांशोनमेव वा
तत्तदर्धं प्रमाणं वा तत्तज्जीह्वाग्रविशालकम् ॥९१॥

अथवा सूचिनिभं कुर्यात्तन्मूलाग्रक्षयं क्रमात्
तदर्धं बहुलं कुर्यात्तन्मूले छिद्र संयुतम् ॥९२॥

तत्पुरे पृष्ठदेशे तु कीलयेत्तोरणाङ्घ्रिकम्
तस्मात्तत्तोरणोत्सेधं जिह्वापादाधिकं भवेत् ॥९३॥

तोरणाग्रे तु वलयं लम्बनार्थं तु योजयेत्
जिह्वायामं समं पत्रं विस्तारं परिकीर्तितम् ॥९४॥

किञ्चिन्निम्न तलं कुर्यात्सुवृत्तार्धाङ्गुलं घनम्
तत्समं चास्य चाष्टं वा तत्पत्रैरष्ठकोत्तरे ॥९५॥

पत्रद्वयसमायुक्तं चायसेनैव कारयेत्
दार्विके चायसे वापि तुला युक्त्या च कारयेत् ॥९६॥

जिह्वां च तोरणं वापि सर्वथा लोहजं भवेत्
बन्धयेन्निर्गलैः पत्रैः द्विदण्डे चोभयाग्रकौ ॥९७॥

तुलालक्ष्यमिदं प्रोक्तं शेषं युक्त्या प्रयोजयेत्
भूपानां दक्षिणे हस्ते मध्यमालक्ष्यमुच्यते ॥९८॥

पत्रतुल्यं युगाङ्गुल्यं पीठे तुङ्गद्वयाङ्गुलम्
नालं द्वादशमात्रं स्यादायाममिति कथ्यते ॥९९॥

पत्रतारं द्वयाङ्गुल्यं पीठतारं तथैव च
पत्रपृष्ठं तदर्धांशं वक्त्रतुङ्गं तु निश्चितम् ॥१००॥

नालतारार्धमात्रं स्यात्पीठयुक्तं तुलां घनम्
मूलं तु सूक्ष्मसूचिवत्कुर्यात्तद्विचक्षणः ॥१०१॥

मूले च त्रित्रिमारे तु नालतारार्धं विस्तृतम्
तदूर्ध्वे च त्रिमात्रे तु त्रिधा विस्तृतं भवेत् ॥१०२॥

सुवृत्त नालदेशे तु पत्रमूले तु कर्णयुक्
स्निग्धं च पुलकैर्युक्तं हेमरेखैः स्वलङ्कृतम् ॥१०३॥

पत्रे तु ब्रह्मदैवत्यं पीठे तु विष्णुदैवतम्
नाले तु रुद्र दैवत्यं सूक्ष्मं चैव सरस्वती ॥१०४॥

एवं तु चाधिदैवत्यं कर्णमेवं प्रकल्पयेत्
सर्वेषामपि नीलं च चलं वाप्यचलं भवेत् ॥१०५॥

एकहस्तं समारभ्य त्रित्र्! यङ्गुलविवर्धनात्
साष्टाष्टपञ्चमात्रान्तं कन्यसादि त्रयं त्रयम् ॥१०६॥

मृगनाभिबिलाडस्य पञ्जरस्य विशालकम्
तदर्धं च त्रिपादं च तत्समं पादमाधिकम् ॥१०७॥

अत्यर्धेन तस्यैव शान्तिकादिशरांशकम्
होमात्प्रस्तरान्तं वा मस्तकान्तं शिखान्तकम् ॥१०८॥

नवाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्
त्रयोविंशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम् ॥१०९॥

शुकपञ्जरविस्तारं नवधा परिकीर्तितम्
उत्सेधं पूर्ववत्कुर्यात्समग्रं चापि विस्तृतम् ॥११०॥

सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्
त्रयोविंशाङ्गुलान्तं स्यान्नवधा कन्यसादिभिः ॥१११॥

चातकस्य चकोरस्य पञ्जरस्य विशालकम्
विस्तारं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ॥११२॥

आयाममिति हि प्रोक्तमुत्सेधं पूर्ववद् भवेत्
एतत्तु दण्डकाकारं मरालस्यापि योग्यकम् ॥११३॥

तदेव चतुरश्रं स्यान्नीडं पारावतस्य च
पञ्चविंशाङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥११४॥

सैकाष्टकनन्दमात्रान्तं कन्यसादि त्रयं त्रयम्
पञ्जरं नीलकण्ठस्य नवधा विस्तृतं भवेत् ॥११५॥

सममेवं विशालं स्यादुत्सेधं पूर्ववद् भवेत्
पञ्चाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥११६॥

एकविंशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम्
कुञ्जरीयकुलालस्य नवधा विस्तृतं भवेत् ॥११७॥

उत्सेधं पूर्ववत्कुर्यात्समतारं समाश्रकम्
सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥११८॥

त्रयोविंशाङ्गुलान्तं स्यात्कन्यसादीनि पूर्ववत्
विशालं नवधा प्रोक्तं खञ्जरीटस्य पञ्जरम् ॥११९॥

समाश्रं चतुरश्रं स्यादुत्सेधं पूर्ववद् भवेत्
पञ्चदशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥१२०॥

एकदशाङ्गुलान्तं स्यान्नवधा कन्यसादिभिः
कुक्कुटस्य कुलालस्य विशालं तुङ्गं पूर्ववत् ॥१२१॥

एकादशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात्
सप्तविंशाङ्गुलान्तं च कन्यसादि त्रयं त्रयम् ॥१२२॥

विशालं पूर्ववत्तं तु नकुलस्यापि पञ्जरम्
चटकस्य पञ्जरस्य तित्तिरीवोक्तवत्कुरु ॥१२३॥

नवाङ्गुलं समारभ्य पञ्चविंशाङ्गुलान्तकम्
पूर्ववन्नवधा प्रोक्तं विशालं तुङ्गं पूर्ववत् ॥१२४॥

विस्तारं तु समाश्रं स्याद् गोधारैः पञ्जरान्वितम्
सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ॥१२५॥

अर्धाधिकं त्रिहस्तान्तं कन्यसादि त्रयं त्रयम्
नवधा व्याघ्रनीडं स्याद्विस्तारं परिकीर्तितम् ॥१२६॥

उत्सेधं पूर्ववत्कुर्यात्समाश्रं तद्विशालकम्
चतुरश्रैकभित्तिः स्याच्चतुःस्तम्भसमन्वितम् ॥१२७॥

मध्यद्वारं तु संकल्प्य कवाटं चैकमेव च
उत्सेधे तु षडंशं स्यात्पादुकं चैकभागिकम् ॥१२८॥

पादोच्चं तु युगांशं स्यादेकांशं चोर्ध्वपट्टिका
अथवाष्टांशतुङ्गे तु चैकांशं पादुकोदयम् ॥१२९॥

षड्भागम् पादतुङ्गं स्यादेकांशमूर्ध्वपट्टिका
चतुष्कं च चतुर्दारु पादुकं चोर्ध्वपट्टिका ॥१३०॥

कुर्यात्कर्करि कोणे तु पादमूलाग्र योजयेत्
ऊर्ध्वाधो निर्गमं शूले त्रिय्यक्कीलं प्रयोजयेत् ॥१३१॥

एकद्वित्रिचतुर्मात्रं पादविष्कम्भमिष्यते
द्वित्रिवेदचतुष्पञ्चषट्सप्ताङ्गुलकं तथा ॥१३२॥

पट्टिकोपानविस्तारं यथायुक्त्या प्रयोजयेत्
ऊर्ध्वाधश्च चतुर्दिक्षु वातायनं समुद्भवेत् ॥१३३॥

तरङ्गे वेत्रसंयुक्तं कुञ्जराक्षैरलङ्कृतम्
पादानां चतुरश्रं वा चोक्तवत्समलङ्कृतम् ॥१३४॥

तदेव चोर्ध्वदेशे तु कृत्वा चक्राकृतिस्तथा
सर्वालङ्कारसंयुक्तं कुर्यात्तु सर्वनीडकम् ॥१३५॥

चातकस्य चकोरस्य दण्डकाकृतिवद् भवेत्
द्वितृतीये चतुष्पञ्च वासं कुर्यात्तु दीर्घके ॥१३६॥

शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम्
शुकस्य पञ्जरे तुङ्गे चाष्टभाग विभाजिते ॥१३७॥

एकांशं पादुकं चैव वेदांशं पादतुङ्गकम्
एकांशं पट्टिकोत्सेधं द्विभागं चोर्ध्वचूलिका ॥१३८॥

शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम्
तदेव मुखभद्रं स्यात्तत्समार्धं त्रिपादकम् ॥१३९॥

पूर्वं च द्वित्रिपादं स्यान्मत्तवारणसंयुतम्
नीवितारे चतुर्भागमेकेनावृतलिन्द्र कम् ॥१४०॥

परितस्तु लुपायुक्तं खण्डहर्म्यादिमण्डितम्
तदेव चोर्ध्वकूटं वा पञ्चांशाधिकोदयम् ॥१४१॥

द्विभागेन शिखातुङ्गं त्रिभागं शिखरोदयम्
चतुर्दिक्षु चतुर्नासि सर्वालङ्कारसंयुतम् ॥१४२॥

चतुर्दिक्षु सभद्रं वा चैकद्व्यंशेन निम्नकम्
नीडतारं त्रिभागैकं चतुर्भागत्रिभागिकम् ॥१४३॥

पञ्चभागत्रिभागं वा भद्र विस्तारमेव च
सर्वालङ्कारसंयुक्तं शेषं प्रागुक्तवन्नयेत् ॥१४४॥

एवं तु शुकनीडं स्यादथवा तत्पुरोक्तवत्
देवभूसुरभूपानां वैश्यशूद्र स्य योग्यकम् १४५॥

पादनूपुरकिरीटमल्लिका
कुण्डलं च वलयं च मेखलम्
हारकङ्कणशिरोविभूषणम्
किङ्किणीवलयकर्णभूषणम् ॥१४६॥

केयूरताटङ्कविशेषकं च
कर्णा च चूडामणिबालपट्टम्
नक्षत्रमालामपि चार्धहारम्
सुवर्णसूत्रं परितः स्तनाभ्याम् ॥१४७॥

रत्नमालिकदुकूलवीरयुक्
स्वर्णकञ्चुकहिरण्यमालिका
लम्बहारमपि चूलिकादिभिः
पूरिमादिमपि केशकूटलम् ॥१४८॥

ब्रह्माविष्णुमहेशशक्रसकलैः दिक्पालकैः किन्नरैः
गन्धर्वैरपि सर्वदेवनिकरैः दुर्गाशचीगौरीभिः
चामुण्डादि सरस्वतीगणपतेः षाण्मातुरस्यापि तत्
संख्यातं सकलं विभूषणगणा नित्यादिनैमित्तिकैः ॥१४९॥

राजाधिराजैरपि राजसर्वैः
वर्णैश्च तस्तैरपि देवदेव्याः
विहङ्गमैः पञ्जरमेवमुक्तम्
कृतं श्रियेत्यन्यदलक्ष्मि हेतुः ॥१५०॥

इति मानसारे वास्तुशास्त्रे भूषणलक्षणविधानं नाम पञ्चाशदध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP