संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| अधिष्ठानविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - अधिष्ठानविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत अधिष्ठानविधानम् Translation - भाषांतर अधिष्ठानविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुनात्रिंशदङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥१॥चतुर्हस्तावसानं स्यात्कुट्टिमद्वादशोन्नतम्एकद्वादशभूम्यन्तं हर्म्याणां तु क्रमान्न्यसेत् ॥२॥विप्राणां तु चतुर्हस्तं भूपतीनां त्रिहस्तकम्सार्धद्विहस्तमुत्सेधं युवराजस्य हर्म्यके ॥३॥द्विहस्तं तु विशां प्रोक्तमेकहस्तं तु शूद्र केहर्म्यतुङ्गवशात्प्रोक्तं तस्य मासुरकोन्नतम् ॥४॥जन्मादिवाजनान्तं स्यात्कुट्टिमोदयमीरितम्तदुत्सेधं चतुर्विंशत्कृत्वाष्टांशं तु वप्रकम् ॥५॥कुमुदोत्सेध सप्तांशं कम्पमेकेन कारयेत्कर्णतुङ्ग त्रियशं स्यात्तदूर्ध्वे कम्प शिवांशकम् ॥६॥पट्टिकोच्चं गुणांशं स्यात्कम्पमंशेन योजयेत्एकोनत्रिंशदंशं तु तुङ्गं कृत्वा विशेषतः ॥७॥द्विभागं जन्मतुङ्गं स्यात्पद्मोच्चं तत्समं भवेत्कम्पमेकेन कर्तव्यं शेषं प्रागुक्तवन्नयेत् ॥८॥अथवा त्रिनवांशोच्चं जन्म चैकेन कारयेत्शेषं पूर्ववदुद्दिष्टं कुर्यात्तुङ्गे विशेषतः ॥९॥अष्टाविंशकं कृत्वा जन्म द्व्यंशेन कारयेत्तदूर्ध्वे कम्पमेकांशं वप्रस्योपरिकांशकम् ॥१०॥युक्त कन्धरं प्रोक्तं शेषं पूर्वोक्तवद्विदुःएतच्चतुर्विधं प्रोक्त पादबन्धमसूरकम् ॥११॥उरगबन्धं चतुर्विधम्अधिष्ठानस्य तुङ्गं तु साष्टांशदशांशकं कृतेसप्तांशं वप्रतुङ्गं तु कुमुदोच्चं रसांशकम् ॥१२॥कम्पमेकेन कर्तव्यं कन्धरं तत्समं भवेत्पट्टं च पट्टिकैर्द्व्यंशं कम्पमेकेन कारयेत् ॥१३॥अथवा द्व्यंशमाधिक्यं तुङ्गं कृत्वा विशेषतःवाजनं चैकभागं स्यात्तस्याधा कन्धर द्वयम् ॥१४॥तस्याधो वाजनं चांशं शेषं प्रागुक्तवन्नयेत्तदेव द्व्यंशमाधिक्यं कुम्भस्योर्ध्वे विशेषतः ॥१५॥कम्पमेकं तथा कर्णं कम्पं तस्योर्ध्वमंशकम्द्व्यंशं गोपानकं चोर्ध्वे शेषं तत्प्रतिवाजनम् ॥१६॥अथवा तच्चतुर्विंशद्भागं कृत्वा यथोच्छ्रयम्सप्ताशं वप्रतुङ्गं स्यात्कुमुदोच्चं षडंशकम् ॥१७॥तदूर्ध्वे कम्पमेकांशं कन्धरं तत्समं भवेत्तदूर्ध्वे वाजनं चांशं कन्धरोच्चं गुणांशकम् ॥१८॥तत्प्रदेशे विशेषोऽस्ति मकरादिविभूषितम्तदूर्ध्वे वाजनं चांशं कम्पनं चैकभागिकम् ॥१९॥तदूर्ध्वे कम्पमेकांशं शेषं तत्प्रतिवाजनम्एतच्चतुर्विधं ज्ञात्वोरगबन्धमिति स्मृतम् ॥२०॥सर्ववक्त्राकृतिं कुर्यात्तदूर्ध्वे तत्प्रतिद्वयम्एतच्चतुर्विधाकारं वृत्तं कुम्भं प्रकारयेत् ॥२१॥देवभूसुरभूपानां हर्म्याणां तत्प्रकल्पयेत्प्रतिक्रमं चतुर्विधम्एकविंशांशकं तुङ्गे क्षुद्रो पानं शिवांशकम् ॥२२॥सार्धद्व्यंशं तु पद्मं स्यात्तदूर्ध्वे सार्ध कम्पकम्ऊर्ध्वे वप्रं तु सप्तांशं धाराकुम्भं रसांशकम् ॥२३॥आलिङ्गमंशकं चैव तत्समान्तरितं तथाएकैकपद्मकम्पं वा पट्टं वाथ द्वयांशकम् ॥२४॥गजैरश्वैश्च सिंहैश्च भूषितैः मकरादिभिःद्वाविंशांशकं कुम्भे कुमुदोर्ध्वे विशेषतः ॥२५॥आलिङ्गमंशक चोर्ध्वे चैकांशं वाजनं भवेत्द्विभागं कन्धरं चैव पट्टिकं वाजनांशकम् ॥२६॥तद्देशे पूर्ववद्रू पैः सर्वालङ्कारसंयुतम्शेषं तु पूर्ववत्कुर्यातदेकांशाधिकं तदा ॥२७॥कुम्भान्तं पूर्ववच्चोर्ध्वे कम्पमेकेन कारयेत्कन्धरं चैकभागं स्यात्तदूर्ध्वे कम्पमंशकम् ॥२८॥॥द्व्यंशेन कर्णमूर्ध्वे तु वाजनं चैकभागिकम्पूर्ववत्समलङ्कृत्य तत्तुङ्गैकांशमाधिकम् ॥२९॥पूर्वोत्तरप्रदेशे तु कम्पनं सान्तरांशकम्द्व्यंशकं च त्रिपट्टं स्यात्तदूर्ध्वे चान्तरं भवेत् ॥३०॥प्रतिमं चैवांशमंशं च वाजनं चैव कारयेत्पूर्ववत्समलङ्कृत्य शेषं प्रागुक्तवन्नयेत् ॥३१॥तैतिलानां च द्विजातीनामालयेषु न्यसेत्क्रमात्एतत् प्रतिक्रमं नाम्ना तं चतुर्विधमीरितम् ॥३२कुमुदबन्धम्जन्मादिवाजनान्तं च सप्तविंशांशमुच्छ्रयेत्द्विभागं जन्मतुङ्गं स्यात्तत्समं चाम्बुजोदयम् ॥३३॥अंशमेकेन कम्पं स्याद्वप्रतुङ्गं षडंशकम्अंश पद्मं च कर्णं च चांशु पद्मं तथांशकम् ॥३४॥कुमुदोच्चं त्रियंशं स्यात्पद्मतुङ्गं शिवांशकम्अंशकं पद्मं कर्णान्तं कम्पमब्जांशकं ॥३५॥द्विंशं पट्टाब्जमंशं च कम्पमंशेन योजयेत्पूर्वोत्तुङ्गस्य मानेन पट्टिके तु विशेषतः ॥३६॥द्विंशं गोपानसंयुक्तं चोर्ध्वे युक्त्या स्वलङ्कृतम्केचित्कुमुदकाङ्गे तु त्रिपट्टाश्रममेव वा ॥३७॥मध्ये पट्टैर्विशेषं तु पुष्परत्नैश्च शोभितम्कटकावृतमेवं वा शुद्धवृत्तमथापि वा ॥३८॥त्रियश्रं कुमुदं वापि षडश्राकृतिरेव वाएवमष्टविधं कुर्यात्पद्मकेसरमीरितम् ॥३९॥सर्वहर्म्येषु योग्यं स्यात्कारयेच्छिल्पिवित्तमःनवाधिकविंशाशं तत्तथाधिकतुङ्गके ॥४०॥जन्मतुङ्गं तद्द्विभागं वेदांशं वप्रतुङ्गकम्अर्धांशपद्मतुङ्गं तु कन्धरं तत्समं भवेत् ॥४१॥तत्समं चोर्ध्वपद्मं स्यादेकांशं कुमुदोदयम्पद्ममध्यर्धं तथा कम्पं कर्णतुङ्गं द्वयांशकम् ॥४२कम्पमर्धं तथा पद्म पट्टिकोच्चं द्वयांशकम्तदूर्ध्वे पद्ममेकांशं चोर्ध्वकम्पं तु तत्समम् ॥४३॥अर्धार्धं वाथ जन्मोच्चं कम्पमूर्ध्वेऽर्धमेव वाशेषं प्रागुक्तवत्कुर्यात्तत्तदेतद्विशेषतः ॥४४॥एकांशं जन्मतुङ्गं स्यादर्धांशं पद्ममेव चशेषं तु पूर्ववत्कुर्यात्किञ्चिदेवं विशेषतः ॥४५॥पट्टिके तत्कपोतं वा शेषं युक्त्या प्रयोजयेत्एतच्चतुर्विधं प्रोक्तं पुष्पपुष्कलनामकम् ॥४६॥क्षुद्र मध्ये तु मुख्ये तु प्रथमाद्यं तु भूमिकम्तेन हर्म्येषु योग्यं स्यात्कल्पयेच्छिल्पिवित्तमः ॥४७॥जन्मादिवाजनान्तं स्याद्द्वात्रिंशद्विभाजितेद्विभागं जन्मतुङ्गं स्यादेकांशेकेन वाजनम् ॥४८॥सप्तांशेन महापद्मं कर्णमंशं तथाम्बुजम्ऊर्ध्वे कुम्भं तु वेदांशं पद्ममेकेन कारयेत् ॥४९॥तदूर्ध्वे कम्पमेकांशं त्र्! यंशकैर्गलमुन्नतम्कम्पमंशं गलं चांशं गोपानं चतुरंशकम् ॥५०॥आलिङ्गमंशकं चोर्ध्वे अंशेनान्तरितं तथाप्रतिमुखं तद्विभागं स्यादूर्ध्वे वाजनमंशकम् ॥५१॥अथैकांशेन समाधिक्यं महाशोपरि पद्मकम्जन्मस्योपरि पद्मं वा शिवांशेनांशमाधिकम् ॥५२॥एतन्महाम्बुजस्याधो कम्पमेकेन कारयेत्रसांशं तन्महाब्जं स्याच्छेषं प्रागुक्तवन्नयेत् ॥५३॥एतच्चतुर्विधं प्रोक्तं श्रीबन्धमिति नामकम्चक्रवर्तेश्च विष्णोश्च शिवस्यापि च योग्यकम् ॥५४॥श्रीबन्धं चतुर्विधम्षड्विंशद्भागमुत्तुङ्गे जन्ममेकांशमीरितम्वप्रोच्चं तु षडंशं स्यात्कुमुदोच्चं षडंशकम् ॥५५॥कर्णमेकेन बन्धांशं कर्ण कम्पं शिवांशकम्पद्ममंशं तदूर्ध्वे तु त्र्! यंशं गोपानकोदयम् ॥५६॥आलिङ्गमंशकं चोर्ध्वे चांशमन्तरितं तथाप्रतिवक्रं तु युग्मांशं वाजनं चैकभागिकम् ॥५७॥अथवा जन्म युग्मांशं तदेव प्रतिकांशकम्शेषं तु पूर्ववत्कुर्याज्जन्मोर्ध्वे क्षेपणांशकम् ॥५८॥गोपानोपरि चाध्येनौ लिङ्गान्तरितांशकम्अंशं तत्प्रतिवक्रं स्यादर्धांशश्चार्ध वाजनम् ॥५९॥अथवा जन्म मेकांशं तत्समं चाब्जकं तथातदूर्ध्वे कम्पमेकांशं शेषं प्रागुक्तवन्नयेत् ॥६०॥एतच्चतुर्विधं प्रोक्तं मञ्चबन्धमुदीरितम्देवानां भूपतीनां च हर्म्याणां तत्प्रकल्पयेत् ॥६१॥मञ्चबन्धं चतुर्विधम्जन्मादिवाजनान्तं च कृत्वा विंशत्षडाधिकम्जन्मतुङ्गं तु सार्धांशं युगलं पद्मतुङ्गकम् ॥६२॥एवं कम्पं च वप्रोक्तं षडंशं कुम्भ युगांशकम्तस्योर्ध्वे कम्पमेकांशं कन्धरश्च द्विभागिकम् ॥६३॥एकांश कम्पकं चाद्यां पट्टं तत्क्षेपणांशकम्आलिङ्गं चार्धकं चोर्ध्वे कम्पमेकेन कारयेत् ॥६४॥अध्यर्धांशं प्रतिं चैव सार्धांशं वाजनं भवेत्व्यालरूपादिसिंहैश्च मकराद्यैर्विभूषितम् ॥६५॥द्विभगं जन्मतुङ्गं स्यात्तत्सममम्बुजं भवेत्एकांशं क्षेपणं चैव वप्रतुङ्गं रसांशकम् ॥६६॥कुमुदोच्चं युगांशं स्यात्कम्पमेकेन कारयेत्कन्धरं च द्विभागं स्यात्कम्पमंशेन योजयेत् ॥६७॥पट्टिकोच्चं द्विभागं स्यात्कम्पमंशं तदूर्ध्वकेकर्णमेकेन कर्तव्यं वाजनं चैकभागिकम् ॥६८॥प्रतिमं चैकांशकं स्याद्वाजनं चैकभागिकम्त्रिपट्टं कुमुदं वापि प्रतिरेवं त्रिपट्टकम् ॥६९॥शेषं तु पूर्ववत्कुर्यात्प्रत्यलङ्कार पूर्ववत्तदेव पट्टिकं चोर्ध्वे कन्धरं चैकभागिकम् ॥७०॥शेषं पूर्ववदुद्दिष्टं युक्त्यालङ्कार योजयेत्एवं चतुर्विधं प्रोक्तं श्रेणीबन्धमिति स्मृतम् ॥७१॥देवानामपि सर्वेषां हर्म्याणां कल्पयेद्बुधःश्रेणीबन्धं चतुर्विधम्अष्टादशांशकं तुङ्गे जन्ममर्धार्धभागिकम् ॥७२॥अर्धांशं क्षुद्र कम्पं तु भूतांशं तन्महाम्बुजम्एकांशं कन्धरं चांशं चाब्जं कुम्भं गुणांशकम् ॥७३॥तदूर्ध्वे पद्ममंशं स्यादालिङ्गांशं तदूर्ध्वकेएकांशं वाजनं चोर्ध्वे प्रतिं द्व्यंशमंशं वाजनम् ॥७४॥द्वाविंशांशकं कृत्वा पक्षांशं जन्मतुङ्गकम्क्षुद्रं क्षेपणमर्धांशं सार्धवेदांशकाम्बुजम् ॥७५॥एकांशं कन्धरं चोर्ध्वे तत्समं चाब्जकं भवेत्कुम्भं तुङ्गं गुणांशं च पद्मतुङ्गं शिवांशकम् ॥७६॥कम्पमेकं तदूर्ध्वे तु कन्धरं चाक्षभागिकम्क्षेपणं चैकभागं तु पद्मं चैकेन कारयेत् ॥७७॥द्विभागं पट्टिकोत्तुङ्गं पद्ममंशमंशं वाजनम्तस्मादेकांशमाधिक्यं सार्धयुग्मं तु पादुकम् ॥७८॥तदूर्ध्वे कम्पमर्धेन पञ्चांशेन महाम्बुजम्कन्धरं चैकभागेन पद्ममंशेन योजयेत् ॥७९॥कुमुदोच्चं गुणांशं स्यात्पद्ममंशं तदूर्ध्वकेकम्पमंशेन संयुक्तं कन्धरं तत्समं भवेत् ॥८०॥तत्समं वाजनं चोर्ध्वे वन्ह्यंशान्तरितं तथाद्व्यंशं तत्प्रतिं संयुक्तं वाजनं चैकभागिकम् ॥८१॥तस्मादाधिक्यमेकांशं जन्मतुङ्गं कलांशकम्एकांशं क्षुद्र पद्मोच्चं तदूर्ध्वमंशेन वाजनम् ॥८२॥भूतांशेन महापद्मं तदूर्ध्वांशे दलान्वितम्शेषं प्रागुक्तवच्चोर्ध्वे गृहसिंहादिभूषितम् ॥८३॥एतच्चतुर्विधं ज्ञात्वा पद्मबन्धमुदीरितम्देवानामपि सर्वेषां देवीनां शम्भोरालये ॥८४॥कारयेत्सर्वसंसिद्ध्यै श्रीसौभाग्यप्रदायकम्पद्मबन्धं चतुर्विधम्एकविंशांशकोत्सेधं जन्मतुङ्ग कलांशकम् ॥८५॥एकांशं पद्मतुङ्गं तु कम्पमेकेन कारयेत्भूतांशं कुम्भतुङ्गं स्यादेकांशं क्षेपणं भवेत् ॥८६॥त्रियंशं स्यादधोपद्ममूर्ध्वे कर्णं शिवांशकम्तत्समं कम्पमूर्ध्वे तु द्विभागं पट्टिकोदयम् ॥८७॥तदूर्ध्वे कम्पमेकांशं कन्धरं चैकभागिकम्तदूर्ध्वे द्व्यंशकं पट्टं युक्त्या तत्रैव योजयेत् ॥८८॥तदेव तुङ्गभागेन वह्नि सोपानमीरितम्एकांश पद्मतुङ्गं स्यात्पञ्चांशं कुमुदोदयम् ॥८९॥कम्पमेकं तदूर्ध्वे स्याद्बन्धांशं पद्मतुङ्गकम्तदूर्ध्वे कम्पमेतेन तदूर्ध्वे द्व्यंशकैः गलम् ॥९०॥क्षेपणं चैकभागं स्यात्पद्ममेकेन कारयेत्कपोतोच्च द्विभागं स्यात्कम्पमेकं तदूर्ध्वके ॥९१॥तदेवाब्जं प्रदेशे तु कम्पमेकेन पूर्ववत्तदूर्ध्वे द्विंश कर्णं स्यात्कम्पमेकं तदूर्ध्वके ॥९२॥द्विंशं चान्तरितं चोर्ध्वे प्रतिं चैकांशमेव चतदूर्ध्वे वाजनं चांशं शेषं प्रागुक्तवन्नयेत् ॥९३॥जन्मोच्चं त्र्! यंशकं स्यात्पद्ममेकेन कारयेत्कन्धरं चैकभागं स्यादूर्ध्वे पद्मं शिवांशकम् ॥९४॥कुम्भटुङ्गं शरांशं स्यात्पद्ममेकेन कारयेत्तदूर्ध्वे कम्पमेकेन कर्णमंशं तदूर्ध्वके ॥९५॥पद्ममेकं तदूर्ध्वे तु कपोतोच्चं कलांशकम्आलिङ्गमंशकंचैवमेकांशान्तरितं तथा ॥९६॥प्रतिवाजनमेकेन कुम्भबन्धं चतुर्विधम्गृहसिंहादिसर्वेषां युक्त्या देशैः लङ्कृतम् ॥९७॥कुम्भबन्धं चतुर्विधम्उत्सेधे तु चतुर्विंशद्भागं कुर्याद्विशेषतःजन्मोच्चं तु द्विभागं स्यात्तत्समं पद्मतुङ्गकम् ॥९८॥कम्पमेकं तदूर्ध्वे तु कर्णतुङ्गं गुणांशकम्तदूर्ध्वे कम्पमेकांशं पट्टिकोच्चं कलांशम् ॥९९॥तदूर्ध्वे कम्पमंशेन चाधो पद्मं कलांशकम्कर्णमेकांशकं चोर्ध्वे पद्ममेकांश कारयेत् ॥१००॥तदूर्ध्वे कुम्भ त्र्! यंशं स्यात्पद्ममेकांशमेव चतदूर्ध्वे निम्नमंशं स्यात्तस्योर्ध्वे कम्पमंशकम् ॥१०१॥तदूर्ध्वे तत्समं निम्नमूर्ध्वे प्रतिमेकांशमेव चतदेव पूर्ववदुत्सेधं पद्मकर्णे विशेषतः ॥१०२॥मध्ये कुम्भं कलांशं स्यात्तस्योर्ध्वे एकाश निम्नकम्शेषं प्रगुक्तवत्कुर्यात्तद्भागेन विशेषतः ॥१०३॥द्विभागं जन्मतुङ्गं स्यात्पद्मतुङ्गं तु तत्समम्निम्नमेकं तदूर्ध्वे तु कुम्भतुङ्गं कलांशकम् ॥१०४॥कम्पमेकं तदूर्ध्वे तु कन्धरं चैकभागिकम्कम्पमेकं तदूर्ध्वे स्यात्तत्समं चोर्ध्वकम्पकम् ॥१०५॥कपोतोच्चं कलांशं स्याद्वाजनं चैकभागिकम्तदूर्ध्वे सार्ध पद्मं स्यान्निम्नमेकेन कारयेत् ॥१०६॥तदूर्ध्वे सार्ध पद्मं तु कुम्भतुङ्गं कलांशकम्तदूर्ध्वे सार्ध पद्मं स्यान्निम्नमेकेन कारयेत् ॥१०७॥तस्योर्ध्वे क्षेपणांशं तत्समं निम्नमेव चतस्योर्ध्वे एकं प्रतिं चैव कारयेल्लक्षणान्वितम् ॥१०८॥अथवा द्व्यंशकं जन्म तत्समं पद्मस्योच्छ्रयम्एकांशं कन्धरं प्रोक्तं कुम्भतुङ्गं कलांशकम् ॥१०९॥एकांशमूर्ध्वेऽकं निम्नं च क्षुद्र पट्टाब्जमंशकम्कपोतं चोर्ध्वके युग्मं तदूर्ध्वे क्षेपणांशकम् ॥११०॥तदूर्ध्वे चार्धपद्मांशं तत्समं कन्धरं भवेत्तत्समं चोर्ध्वपद्मं स्यात्कुम्भतुङ्गं गुणांशकम् ॥१११॥अधो पद्मं शिवांशं स्यात्तदूर्ध्वंशेन कन्धरम्कम्पमेकेन भागं स्यात्क्षुद्रा ब्जं चार्धकं भवेत् ॥११२॥अध्यर्धांशं कपोतोर्ध्वं शेषं तत्प्रतिवाजनम्जन्मादिवाजनान्तं च तुङ्ग षड्विंशदंशके ॥११३॥द्विभागं जन्मतुङ्गं स्यात्तत्समं पद्मतुङ्गकम्कम्पमेकं तदूर्ध्वे तु कन्धरं तद्द्विभागिकम् ॥११४॥तदूर्ध्वे कम्पमेकांशं पद्ममेकेन योजयेत्पट्टिकोच्च द्विभागं स्यात्तदूर्ध्वे पद्ममंशकम् ॥११५॥आलिङ्गमंशकं चोर्ध्वे ऊर्ध्वे पद्मं शिवांशकम्कुम्भतुङ्गं त्रिभागं स्यात्तदूर्ध्वे पद्ममंशकम् ॥११६॥पद्ममेकं तदूर्ध्वे तु कन्धरं च द्विभागिकम्एकेन कम्पमंशाब्जं कपोतोच्चं कलांशकम् ॥११७॥शिवांशं चोर्ध्वके कम्पं शेषं युक्त्या प्रयोजयेत्ग्राहादिचित्र सर्वेषां क्षुद्र नासादिभूषितम् ॥११८॥एतत्पञ्चविधं प्रोक्तं कुम्भदेशे विशेषतःवृत्तं विधिं त्रिपट्टं वाधाराय कटकान्वितम् ॥११९॥एतत्कलशबन्धाख्यं देवभूपत्योरालयेवप्रबन्धम्वप्रबन्धमधिष्ठानमेकत्रिंशांशतुङ्गके ॥१२०॥जन्मं तु द्व्यंशकं तुङ्गे कम्पमर्धेन कारयेत्पद्मं सार्धं शिवांशं स्यात्तदूर्ध्वार्धेन वाजनम् ॥१२१॥वप्रोच्चं सार्धवह्न्यंशं पद्ममर्धमर्धं कम्पम्कन्धरोच्चं द्विभागं स्यादर्धार्धकम्प पद्मकम् ॥१२२॥पट्टिकोच्चं कलांशं स्यात्पद्ममर्धार्ध वाजनम्युगांशं कर्णतुङ्गं स्यात्क्षेपणांशम्बुजार्धकम् ॥१२३॥कपोतोच्चं द्विभागं स्यादेकांशं प्रतिवाजनम्वप्रबन्धमिति प्रोक्तं वज्रबन्धमिहोच्यते ॥१२४॥वर्जबन्धम्तदेव तुङ्गभागेन जन्मतुङ्गं कलांशकम्तदूर्ध्वेऽर्धेन कम्पं स्यात्सार्धार्धं पद्मतुङ्गकम् ॥१२५॥अर्धेन कम्पकं चोर्ध्वे कन्धरं तत्समं भवेत्कम्पमर्धेन तस्योर्ध्वे पद्ममर्धेन कारयेत् ॥१२६॥वज्रकुम्भं द्वयांशं स्यात्तदूर्ध्वेऽर्धं सरोरुहम्कम्पमर्धेन तस्योर्ध्वे कर्णतुङ्गं कलांशकम् ॥१२७॥तदूर्ध्वं कम्पमर्धेन तत्समं चाम्बुजं भवेत्कपोतं द्विभागं स्यादेकांशं प्रतिवाजनम् ॥१२८॥कन्धरं चाश्विनीभागं चांशेन कम्प पद्मकम्वज्रपट्टं द्विभागं स्यात्पद्म कम्पं शिवांशकम् ॥१२९॥वज्रबन्धमिति प्रोक्तं श्रीभोगं तमिहोच्यतेश्रीभोगम्तुङ्गे तु सप्तविंशांशं सार्धद्व्यंशेन जन्मसु ॥१३०॥क्षुद्र कम्पार्धभागेन अम्बुजोच्चं गुणांशकम्अर्धेन क्षुद्र पद्मं स्यात्कम्पमर्धेन योजयेत् ॥१३१॥तदूर्ध्वे कर्णमंशं स्यात्कम्पमर्धेन योजयेत्क्षुद्रा ब्जं तत्समं चैव कुमुदोच्चं गुणांशकम् ॥१३२॥तदूर्ध्वे पद्ममर्धेन तत्समं क्षेपणं भवेत्कर्णतुङ्गं कलांशं स्यात्कम्पमर्धेन कारयेत् ॥१३३॥तत्समं पद्मतुङ्गं स्यात्पट्टिकोच्चं कलांशकम्पद्ममर्धेन कम्पार्धं कन्धरं द्व्यंशमिष्यते ॥१३४॥कम्प पद्मं शिवांशं तु सार्धार्धांशं कपोतकम्तदूर्ध्वे द्व्यंशकेनैवमालिङ्गान्तादि योजयेत् ॥१३५॥अथवा जन्म युग्मांशं क्षुद्रो पानं शिवांशकम्महाम्बुजं शिवांशं स्यादर्धेन क्षुद्र पङ्कजम् ॥१३६॥अर्धेन कम्प कर्णं दृक्कम्प पद्मं शिवांशकम्कपोतं चाश्विनीभागमम्बरांशं गलोदयम् ॥१३७॥प्रतिवाजनमेकांशं द्विभागांशं गलोदयम्व्योमांशं पद्म कम्पं च द्व्यंशकं पट्टिकोदयम् ॥१३८॥अध्यर्धांशं गलोत्तुङ्गं वाजनं कम्पमूर्ध्वकेतत्समं पद्मतुङ्गं स्यात्सार्धद्व्यंशं कपोतकम् ॥१३९॥द्व्यंशेन प्रतिमं चैव सप्तविंशतिकोदयम्श्रीभगं स्याद्द्विधा प्रोक्तं सर्वालङ्कारसंयुतम् ॥१४०॥रत्नबन्धम्रत्नबन्धमधिष्ठानं षड्विशत्यंशकं भवेत्अध्यर्धांशं तु जन्म स्यादर्धांशं क्षुद्र वाजनम् ॥१४१वप्रयोशं तु पद्मं स्यात्तदूर्ध्वेऽर्धेनासनम्रत्नवप्रं तु बन्धांशमर्धेन कारयेत् समम् ॥१४२॥तत्समं चोर्ध्वकम्पं स्यान्निम्नमर्धेन कारयेत्तदूर्ध्वार्धेन कम्पं स्यादर्धेनाब्जं तदूर्ध्वके १४३॥रत्नकम्प द्विभागं स्यात्तदूर्ध्वेऽर्धेन कम्पजम्तदूर्ध्वार्धेन कम्पं स्यात्कन्धरं च द्विभागिकम् ॥१४४॥कम्पपद्मं शिवांशं स्याद्र त्नपट्टं कलांशकम्तदूर्ध्वे पद्मकम्पं च व्योमांशेनैव योजयेत् ॥१४५॥सार्धांशं तु कर्णं स्यादर्धांशं चोर्ध्ववाजनम्अर्धेनाब्जं तदूर्ध्वे तु द्वयांशकं कपोतकम् ॥१४६॥आलिङ्गं चार्धभागेन शेषं तत्प्रतिवाजनम्तद्देश व्यालरूपादिमकरादिविभूषितम् ॥१४७॥अन्यत्सर्वाङ्गकै रत्नैः पङ्कजैश्च विभूषितम्शिवविष्ण्वालयं कुर्याद्र त्नबन्धमुदीरितम् ॥१४८॥पट्टबन्धम्जन्मादिवाजनान्तस्य तुङ्गे तदंशकं भवेत्जन्मतुङ्गं द्विभागं स्यात्तदूर्ध्वेऽर्धेन वाजनम् ॥१४९॥महाब्जं सार्धयुग्मं स्यात्पद्मकम्पं शिवांशकम्निम्नकम्पं तथैकांशं तदूर्ध्वेकेन पद्मकम् ॥१५०॥महापट्ट द्विभागं स्यात्पद्मकम्पं शिवांशकम्कन्धरं चैकभागं स्यात्क्षेपणाब्जं शरांशकम् ॥१५१॥कपोतोच्चं द्विभागं स्याच्छेषं तत्प्रतिवाजनम्एतत्तु पट्टबन्धं स्यात्सर्वालङ्कारसंयुतम् ॥१५२॥कुक्षिबन्धं चतुर्विधम्त्रिषडंशं तदुत्सेधं द्व्यंशकं जन्मतो उच्छ्रयम्कम्पमर्धं तदूर्ध्वे तु सार्धद्व्यंशं महाम्बुजम् ॥१५३॥पद्मकम्पं तथैकेन निम्नमन्तरितांशकम्अध्यर्धांशं प्रतिं चैव वाजनं चैकभागिकम् ॥१५४॥कन्धरं चैकभागं स्यात्कम्पपद्मं शिवांशकम्वृत्तकुम्भं द्विभागं स्यात्पद्मक्षेपणमंशकम् ॥१५५॥कर्णमेकेन तस्योर्ध्वे कम्पपद्मं शिवांशकम्कपोत सार्धभागं स्यात्तदूर्ध्वार्धेन वाजनम् ॥१५६॥सर्वालङ्कारसंयुक्तं व्यालग्राहादिभूषितम्तदेव तुङ्गांशमाधिक्यं जन्मतुङ्गं कलांशकम् ॥१५७॥तदूर्ध्वेऽर्धेन पद्मं स्यात्कम्पमर्धेन कारयेत्द्व्यंशं महाम्बुजं चोर्ध्वे पद्मनिम्नं शिवांशकम् ॥१५८॥अर्धेनाब्जं तदूर्ध्वे तु सार्धांशं कुमुदोदयम्अर्धेनाब्जं तथा कर्णं अर्धेनाब्जं तदूर्ध्वके ॥१५९॥सार्धांशं पट्टिकोत्तुङ्गं पद्मकम्पं शिवांशकम्अर्धेन निम्नकं चोर्ध्वे तत्समान्तरितं तथा ॥१६०॥एकांशेन प्रतिं चोर्ध्वे वाजनं चार्धभागिकम्एकांशं कन्धरं प्रोक्तं कम्पमर्धेन योजयेत् ॥१६१॥पद्ममर्धेन सार्धांशं कपोतांशेन वाजनम्एकं तत्प्रतिबन्धं स्याद्द्विविधं तत्प्रकीर्तितम् ॥१६२॥शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम्तुङ्गे षड्विंशदंशेन जन्मतुङ्गं कलांशकम् ॥१६३॥क्षुद्रो पानं शिवांशं स्यात्पद्मतुङ्गं कलांशकम्एकेन कम्पकं चोर्ध्वे कन्धरं च द्विभागिकम् ॥१६४॥तदूर्ध्वे कम्पमेकांशं पद्ममेकेन कारयेत्पर्यंशं कुमुदोच्चं स्यात्पद्ममेकेन कारयेत् ॥१६५॥कम्पमेकं तदूर्ध्वं च द्व्यंशकैर्गलमेव चतदूर्ध्वे कम्पमेकांशं पद्ममेकेन कारयेत् ॥१६६॥कपोतोच्चं द्विभागं स्याच्छेषं तत्प्रतिवाजनम्वृत्तं वा पट्टकम्पं वा कपोतो वापि पट्टिकौ ॥१६७॥अध कर्णद्वयोर्देशे व्यालरूपादिभूषितम्चतुर्विंशांशकं तुङ्गे जन्मोत्सेधं गुणांशकम् ॥१६८॥कम्पमीशं तदूर्ध्वे तु निम्नमंशेन कारयेत्एतदूर्ध्वं पञ्चभागेनैकैकं भद्र संयुतम् ॥१६९॥तदूर्ध्वे कम्पमेकेन तत्समं निम्नकं भवेत्तत्समान्तरितम् चोर्ध्वे भागेन प्रतिसंयुतम् ॥१७०॥तदूर्ध्वे चांश कम्पं च तत्समं चोर्ध्वकन्धरम्कम्पमेकं तदूर्ध्वे तु पद्ममेकेन कारयेत् ॥१७१कपोतोच्चं त्रियंशं स्यादेकांशं कन्धरं भवेत्तत्समोर्ध्वे प्रतिं चैव कुम्भमष्टांशमेव च ॥१७२॥कपोते भद्र पट्टं स्यात्पत्रपट्टकमेव चएतच्चतुर्विधं प्रोक्तं कम्पबन्धं प्रकीर्तितम् ॥१७३॥कम्पबन्धम्षट्षड्भागकृते तुङ्गे जन्मादी वाजनान्तकम्चतुर्भागेन जन्म स्यात्क्षुद्रो पानं शिवांशकम् ॥१७४॥महाब्जं पञ्चभागं स्यात्क्षुद्रा ब्जं तु शिवांशकम्तदूर्ध्वे कम्पमेकेन निम्नमंशेन योजयेत् ॥१७५॥तदूर्ध्वे वाजनांशं तत्समं चोर्ध्वे पद्मकम्महाब्जोच्चसमं कुम्भं तदूर्ध्वे चाब्जमंशकम् ॥१७६॥कम्पमेकं तदूर्ध्वे तु चालिङ्गोपरि चांशकम्तदूर्ध्वेऽन्तरितं चांशं प्रति द्व्यंशेन योजयेत् ॥१७७॥तस्योर्ध्वे वाजनं चांशं क्षेपणं चैकभागिकम्तस्योर्ध्वे कन्धरं चांशं कम्पमेकेन कारयेत् ॥१७८॥पद्ममंशं तदूर्ध्वे तु कपोतोच्चं त्रियंशकम्आलिङ्गमंशकं चोर्ध्वे प्रतिमेकेन कारयेत् ॥१७९॥श्रीकान्तम्वृत्तं वा तत्र पट्टं वा कुम्भं देशे विशेषतःश्रीकान्तं चतुर्विधं प्रोक्तं सर्वालङ्कारशोभितम् ॥१८०॥तदेव तुङ्गभागे त्र्! यंशं चोपानतुङ्गकम्क्षुद्रो पानं तथौकांशं चाष्टांशं महाम्बुजम् ॥१८१॥क्षुद्रा ब्जं चैकभागेन कन्धरं तत्समं भवेत्पद्ममेकं तदूर्ध्वे तु पट्टिकोच्चं गुणांशकम् ॥१८२॥क्षुद्र कम्पं शिवांशं स्यात्पद्मतुङ्गं युगांशकम्क्षुद्रा ब्जं तुङ्गमंशं च निम्नं चोर्ध्वैकभागिकम् ॥१८३॥तत्समं चोर्ध्वपद्मं स्यादूर्ध्वे कुम्भ गुणाशकम्तदूर्ध्वे कम्पमेकांशं तत्समं क्षेपणान्वितम् ॥१८४॥कन्धरं च द्विभागं स्यात्कम्पमेकेन कारयेत्पद्मतुङ्गं तु तत्तुल्यं कपोतोच्चं कलांशकम् ॥१८५॥तदूर्ध्वमालिङ्गमंशं च प्रतिमेकेन कारयेत्तत्तत्तु श्रीकान्तं स्याच्छिवविष्ण्वालयं भवेत् ॥१८६॥अधिष्ठाननिर्गमम्जन्मादिवाजनान्तं चाङ्गानां तद्विशेषतःतत्तद्द्रव्येण संज्ञात्वा वृद्धिहान्यांशकं भवेत् ॥१८७॥तुङ्गे हीनाधिकं चैतत् सर्वं दोषं समुद्भवेत्तत्समं निर्गमं वापि त्रिपादमर्धार्धार्धमेव च ॥१८८॥तदेव क्षेपणं सर्वे यथाशोभं तु कारयेत्उपानतुङ्गसमं वापि तत्पादोनविवर्धनात् ॥१८९॥तुङ्गेन त्रिविधानां च त्रिपादं निर्गमं भवेत्वप्रोच्चं तु समं वापि यावत्कुमुदनिर्गमम् ॥१९०॥कुमुदोच्चं वप्रपट्टान्तं पट्टिकानिर्गमं भवेत्तत्समं निर्गमं वपि पट्टं गोपाननिर्गमम् ॥१९१॥क्षुद्र पङ्कजसर्वेषां तत्समं निर्गमं भवेत्यथाशोभं बलात्सर्वमङ्गानां सहितो न्यसेत् ॥१९२॥दण्डमाननिर्गमम्अथवा दण्डमानेन निर्गमं वक्ष्यतेऽधुनादण्डं वा सार्धदण्डं वा द्विदण्डकं वा त्रिदण्डकम् ॥१९३॥सार्धत्रिदण्डकं वापि चतुर्दण्डमथापि वासार्धचतुर्दण्डकं वा पञ्चदण्डमथापि वा ॥१९४॥एवं चोपानानिष्क्रान्तमथवा हस्तमानतःअर्धहस्तं समारभ्य त्रित्र्! यङ्गुलविवर्धनात् ॥१९५॥सार्धहस्तावसानं स्यान्निर्गमं त्रित्रिभेदकम्क्षुद्र मध्यं च मुख्यानां हर्म्याणां निर्गमं च तत् ॥१९६॥एवं चतुःषष्टिमसूरकाणिशास्त्रोक्तमानेन विभाजितानिज्ञात्वा प्रकुर्वन्निह शिल्पिवर्यस्तद्वास्तुभर्तुः प्रददाति संपत् ॥१९७॥विमानशालेषु च मण्डपेषुनिधानसद्मेष्वपि गोपुरेष्वपिएतेष्वधोदेशतलोपपीठेतस्योपरिष्ठात्कृतकुट्टिमानि ॥१९८॥किं चोपपीठेन सहैव कुर्यात्पीठोपपीठात्समसूत्रकानिएवं तु सत्यकृतेव भक्तौसिञ्चन्ति लक्ष्म्या सह मुक्तिभुक्तिम् ॥१९९॥समस्तहर्म्यादि च धातुसर्वंकृतं विमान मसुरेण सह यदि स्यात्लोकेत्वनावृष्ट्यपि कर्तृनाशं तुअश्रीकरं स्यात्खलु सर्वहानिः ॥२००॥तस्मान्मसूरेण सहैव सर्वंकृतं विमानेषु च भूषणानिअनूनलक्ष्मीरिह भुक्तिमुक्तिम्आयुष्यमारोग्यकरं सुखं च ॥२०१॥इति मानसारे वास्तुशास्त्रे अधिष्ठानविधानं नाम चतुर्दशोऽध्यायः N/A References : N/A Last Updated : October 02, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP