मानसारम् - त्रितलविधानम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
त्रितलस्य विधानं च लक्षणं वक्ष्यतेऽधुना
विमानतुङ्गं षदंशे तु सार्धांशेन मसूरकम् ॥१॥
तद्द्वयं पादतुङ्गं स्यात्तर्धं प्रस्तरोदयम्
मूलपादोदयेऽष्टांशमधिकं चोर्ध्वाङ्घ्रितुङ्गकम् ॥२॥
तदर्धं प्रस्तरोच्चं तु पादमूलद्विगुणाङ्घ्रिकम्
तदर्धं चोर्ध्वको पादं तस्यार्धं वेदिकोन्नतम् ॥३॥
तद्द्वयं चोर्ध्वकम्पं स्याद्ग्रीवतुङ्गं द्वयांशकम्
शेषं चोर्ध्वे शिखोत्तुङ्गं सर्वालङ्कारसंयुतम् ॥४॥
प्रच्छादनोपरि स्तम्भं कर्णहर्म्यादिमण्डितम्
विस्तारोत्सेधभक्तमेषां यत्तत्प्रागुक्तवन्नयेत् ॥५॥
श्रीकान्तं हर्म्यकं प्रोक्तं क्षुद्रं त्रितले विदुः
अथवा सप्तसप्तांशं विभजेत्त्रितलोदये ॥६॥
चतुर्भागमधिष्ठानं तद्द्वयं पादतुङ्गकम्
अधिष्ठानसमं मञ्चं मञ्चोर्ध्वेऽर्धेन वप्रयुक् ॥७॥
सत्रिपादषडंशेन चोर्ध्वे पादोदयं भवेत्
तदूर्ध्वे प्रस्तरोत्तुङ्गं सत्रिपादं त्रिपादकम् ॥८॥
तदूर्ध्वेऽर्धेन वप्रं स्यात्तदूर्ध्वेऽङ्घ्रि षडंशकम्
सार्धद्विभाग मञ्चं स्यादर्धांशमूर्ध्वपट्टिकम् ॥९॥
एकांशं वेदिकोत्तुङ्गं ग्रीवतुङ्गं गुणांशकम्
तद्द्वयं शिखरतुङ्गं स्याद्गुणांशं तच्छिखोदयम् ॥१०॥
शेषं प्रागुक्तवत्कुर्यादासनं परिकीर्तितम्
अथवा त्रितलोत्तुङ्गं द्वादशांशं विभाजिते ॥११॥
तदेकांशमधिष्ठानं द्विभागं पाददीर्घकम्
तदर्धं प्रस्तरोत्सेधं त्रिपादं चोर्ध्वपीठकम् ॥१२॥
तत्समोर्ध्वे त्वधिष्ठानं तद्द्वयं पाददीर्घकम्
तदर्धं प्रस्तरं चोर्ध्वे सार्धांशेन मसूरकम् ॥१३॥
एकांशं पाददीर्घं स्यादर्धांशं मञ्चतुङ्गकम्
तदर्धं वेदिकोत्तुङ्गं तद्द्वयं ग्रीवतुङ्गकम् ॥१४॥
ग्रीवतुङ्गद्वयं चोर्ध्वे मस्तकमर्धं शिखोदयम्
एवं सुखालयं प्रोक्तं शेषं पूर्ववदाचरेत् ॥१५॥
तस्योपपीठदेशेतु चोद्धृता हरितान्वितम्
एतत्तु केसरं प्रोक्तं कमलाङ्गमिहोच्यते ॥१६॥
चतुर्विंशांशकं तुङ्गे श्रीकान्तस्याकृतिस्तथा
सर्वाङ्गकं गवाक्षं स्यात् कर्णहर्म्यं विना तथा ॥१७॥
नानावेदिकया युक्तं नानास्तम्भैरलङ्कृतम्
चतुर्दिग्वारणं कुर्यात्संकीर्णं द्र व्यसंयुतम् ॥१८॥
आदिभूतं तु कुट्यं स्यात्तदूर्ध्वेत्यङ्घ्रिसंयुतम्
सर्वालङ्कारसंयुक्तं कमलाङ्गमुदीरितम् ॥१९॥
तदेव कर्णहर्म्यादियुक्तं वेद्यादिभूषितम्
सर्वालङ्कारसंयुक्तं ब्रह्मकान्तमिति स्मृतम् ॥२०॥
अथवा तुङ्गमाने तु त्रिंशदंशं विभाजिते
अधिष्ठानं द्विभागं स्यात्तद्द्वयं पादतुङ्गकम् ॥२१॥
तदर्धं प्रस्तरोत्तुङ्गं चोर्ध्वमञ्चं तु तत्समम्
सार्धवह्न्यंशकं चोर्ध्वे पादं सार्धांश मञ्चकम् ॥२२॥
तत्समं चोर्ध्वमञ्चं स्यादूर्ध्वे पादं गुणांशकम्
सपादांशं प्रस्तरं स्यात्तत्समं चोर्ध्वमञ्चकम् ॥२३॥
तदर्धं वेदिकोत्तुङ्गं तत्समं कन्धरोदयम्
ग्रीवद्वयं शिरोत्तुङ्गं शेषं तु स्तूपितुङ्गकम् ॥२४॥
कर्णहर्म्यादिसंयुक्तं मेरुकान्तमिति स्मृतम्
तदेवैकांशमाधिक्यं मूले वह्न्यंशमासनम् ॥२५॥
तद्द्वयं पाददीर्घं स्यात्तदर्धं प्रस्तरोदयम्
ऊर्ध्वाङ्गं पूर्ववत्कुर्यादेतत्कैलासमीरितम् ॥२६॥
आरुह्य प्रदक्षिणं कुर्याद्धर्म्यमेवं तु पूर्ववत्
एतदष्टविधं प्रोक्तं त्रितले चोत्तमं मतम् ॥२७॥
विशाले तु यथाभागं कूटानां चैकभागिकम्
मध्ये द्वित्रिचतुर्भागं शालाकोष्ठं प्रकल्पयेत् ॥२८॥
एकद्वित्र्! यंशकेनैव हारां सपञ्जरान्वितम्
परितश्चैकभागेन कूटशालादिभूषितम् ॥२९॥
तस्यान्तश्चावृतांशेन चोर्ध्वदेशे जलस्थलम्
एकं वा द्वित्रिदण्डेन भद्र निर्गममीरितम् ॥३०॥
हारा च तत्त्रिभागैकं मध्यशालाविभूषितम्
अष्टकूटसमायुक्तं कोष्टकं चाष्टसंयुतम् ॥३१॥
षोडशाहार संयुक्तं सर्वालङ्कारसंयुतम्
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥३२॥
नानातोरणैर्नीडैर्नानावेद्यैरलङ्कृतम्
त्रितले कूटकोष्ठादि हारादीन् गलदेशके ॥३३॥
मूलपादप्रदेशे तु कुर्यात्तु सर्वदेशताः
देवादीनां पुराणैश्च देवतानां च विग्रहम् ॥३४॥
युक्त्या सर्वप्रयत्नेन विन्यसेल्लक्षणोक्तवत्
ग्रीवादिसचिवान्तश्च पूर्वोक्तानां च संमतम् ॥३५॥
ग्रीवमस्तकशिखाप्रदेशके
नागरादिसमलङ्कृतोक्तवत्
देवता दिशि चाष्टतो न्यसेद्
विष्णु रीश्वरजिनादिरालये ३६
इति मानसारे वास्तुशास्त्रे त्रितलविधानं नाम एकविंशोऽध्यायः
N/A
References : N/A
Last Updated : October 03, 2022
TOP