मानसारम् - स्तम्भलक्षणम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
पादानामपि सर्वेषां लक्षणं वक्ष्यतेऽधुना
आयामं च विशालं च आयादि भृषणादिकम् ॥१॥
दारुसंग्रहणं पादस्थापनं च यथाक्रमम्
जङ्घा च चरणं चैव स्तली स्तम्भमङ्घ्रिकम् ॥२॥
स्थाणु स्थूणं च पादं च कम्भमारणि भारकम्
धारणं द्वादशं नाम पर्यायोक्तं पुरातनैः ॥३॥
अधिष्ठानोपरिष्ठात्तु चोत्तराधोऽवसानकम्
उपपीठोपरिष्टात्तु जन्मादौ चोत्तरान्तकम् ॥४॥
पादायामावसानं च अधिष्ठानोदयेन च
द्विगुणं वा सपादार्धं पादोनद्विगुणं तु वा ॥५॥
द्विगुणान्ताङ्घ्रिकायामं हस्तमानवशोच्यते
सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ॥६॥
अष्टहस्तावसानं स्याच्चतुर्थांशङ्घ्रितुङ्गकम्
त्रिचतुष्पञ्चषण्मात्रं कुडयस्तम्भविशालकम् ॥७॥
तत्तद्द्विगुणितं वापि त्रिगुणं वा चतुर्गुणम्
एतत्कम्पविशालं स्यादथवा तुङ्गमानतः ॥८॥
आदित्यरुद्र पत्यं शरन्ध्रं चाष्टांशकं भवेत्
एकैकं पादविस्तारं तत्तत्पादोनमग्रतः ॥९॥
एतत्पादविशालं स्यात्तथा कारमिहोच्यते
चतुरश्रं ब्रह्मकान्तं स्यादष्टाश्रं विष्णुकान्तकम् ॥१०॥
षोडशाश्रं तु वृत्तं वा रुद्र कान्तमिति स्मृतम्
पञ्चाश्रं शिवकान्तं स्यात्षडश्रं स्कन्दकान्तकम् ॥११॥
मूलादि चाग्रपर्यन्तमेवमाकारमीरितम्
एवमाकारपादानां मूले वेदाश्रमेव च ॥१२॥
मूलं मध्यं चाग्रं च चतुरश्रमथापि वा
अग्रतारसमाग्रे तत्कर्णमानाग्रमन्तकम् ॥१३॥
तत्समं मध्यमाश्रान्तं मध्यमाश्रं समाश्रकम्
मध्यमाग्रस्य द्वयोः पादमग्रास्य च मान्तकम् ॥१४॥
शेषं तत्पादमूले तु चतुरश्राकृतिं न्यसेत्
चित्रकर्णमिति प्रोक्तं तत्र सर्वालयं भवेत् ॥१५॥
तन्मूले चासनं कुर्यात्पादुकं वा सहाम्बुजम्
मूलाग्रे चित्रसंयुक्तमग्रान्ते मुकुलान्वितम् ॥१६॥
तन्मूले पालिकाहं स्याद्यथाशोभं तु कारयेत्
अन्तरे चित्रपट्टं स्यात्परितो द्व्यङ्गुलेन च ॥१७॥
पत्रादिरत्नपुष्पैश्च एतत्पट्टैश्च भूषितम्
मध्याग्रे पद्मपत्रादि ऊर्ध्वाधोऽग्रं तु कुड्मलम् ॥१८॥
मूलवच्चाग्रमग्रे तु चाग्राधः कुड्मलान्वितम्
सर्वालङ्कारसंयुक्तं पद्मकान्तमिति स्मृतम् ॥१९॥
मूले विनासनस्तम्भं चित्रकम्भमुदीरितम्
अङ्घ्रिकायाममानेन बोधिकादीनि विन्यसेत् ॥२०॥
तत्तत्पादप्रदेशे तु तद्विशालेन मानयेत्
विस्तारं च समुत्सेधं त्रिपादं वार्धमेव वा ॥२१॥
अथ पादांशकं चैव यन्मानोरम्यमानकम्
दण्डके बोधिका वापि पालिका वाथ चोन्नतम् ॥२२॥
द्विदण्डं वा त्रिदण्डं वा चतुः पञ्चकमेव वा
एतदायामविस्तारमुन्नतस्य समं भवेत् ॥२३॥
दण्डं सपाददण्डं वा बोधिकाविस्तृतं भवेत्
एतद्दण्डं समं वापि त्रिपादार्धकमेव वा ॥२४॥
एवं तु वीरकण्ठोच्चं विस्तारार्धं विशालकम्
फलकोच्चैकदण्डं वा त्रिपादं वा तथोन्नतम् ॥२५॥
द्विदण्डं वा त्रिदण्डं वा फलकायाममिष्यते
पादतारं चतुर्थांशं तत्समं निम्नकं भवेत् ॥२६॥
दण्डार्धं कुम्भतुङ्गं स्यादध्यर्धं वा द्विदण्डकम्
कुम्भायामं तथोत्कण्ठमूर्ध्वे कण्ठसमं भवेत् ॥२७॥
तत्समं ताटिकास्थं स्यादुन्नतं तद्विशेषतः
सपाद सार्धदण्डं वा तस्यायामं तथोदितम् ॥२८॥
तत्तुङ्गस्य समं चाधो पद्मतुङ्गं प्रकल्पयेत्
सपाददण्डमायामं तत्तुङ्गार्धं तु हारिकम् ॥२९॥
तद्दण्डं तु तदायाममधोदेशे विशेषतः
दण्डं तत्समविस्तारमुत्सेधं ताटिकोदयम् ॥३०॥
कलशाकारवत्कुर्यादधो वीरावसानकम्
आधिसुरपुष्पाभं यथाशोभं तु कारयेत् ॥३१॥
तस्याधो सार्धदण्डेन मूलबन्धं सहाम्बुजैः
तस्याधोऽपि विशेषेण मुक्तादामविभूषितम् ॥३२॥
एवं तु चोर्ध्वालङ्कारमधोऽलङ्कारमुच्यते
एतद्दण्डेन मूले तु द्विदण्डेनोन्नतायतम् ॥३३॥
एवं पद्मासनं कुर्याद्भूतसिंहादि रूपकम्
अधः कुम्भं विनिक्षिप्य दण्डं वाथ द्विदण्डकम् ॥३४॥
सिंहस्योपरि पट्टं वा पद्मं गोपानमेव वा
पालिकाकृतिवद्धापि शेषं युक्त्या प्रयोजयेत् ॥३५॥
अथवा तन्मूले वा पालिकादीनि विन्यसेत्
एवं तु पालिकास्तम्भं कुम्भस्तम्भमिहोच्यते ॥३६॥
पादमूलैकदण्डेन पालिकोन्नतमिष्यते
तद्विस्तारं द्विदण्डेन कुम्भतुङ्गं द्विदण्डकम् ॥३७॥
तद्विविस्तारं त्रिदण्डं स्यात्तदर्धं वास्य तुङ्गकम्
तत्पादस्याग्रके कुर्यान्नासिकापञ्जरान्वितम् ॥३८॥
शक्तिध्वजैकदण्डं स्यान्नासितुङ्गं द्विदण्डकम्
तत्समं विहृतं चैव चैकदण्डं गलोदयम् ॥३९॥
विशालं तद्द्वयं चाधो पञ्जरोदयमीरितम्
दिशालं द्विदण्डं स्यादेतष्टं दण्डमेव च ॥४०॥
यथाशोभं ततः कुर्यात्तस्याधो वीरकर्णकम्
पादतारसमोत्सेधं विस्तारं तत्समं भवेत् ॥४१॥
तस्याधो फलकादीनां पूर्ववत्कारयेत्क्रमात्
कुम्भस्तम्भमिति प्रोक्तं कोष्ठस्तम्भादि वक्ष्यते ॥४२॥
कोष्ठकं तद्द्विपार्श्वे तु ऋजु पादाकृतिस्तथा
पञ्जरस्योत्तरादींश्च कोष्ठवासाकृतिस्तथा ॥४३॥
तदेव कोष्ठपादे च तदूर्ध्वे पञ्जरादिकम्
मूलपादविशालेन पञ्जरादीनि कारयेत् ॥४४॥
पञ्जरं च द्विदण्डेन तदर्धं चोर्ध्वकैः गलम्
तदूर्ध्वे च द्विदण्डेन नासिकाशिखरान्वितम् ॥४५॥
तदर्धं स्तूपिकोत्तुङ्गे तन्माहानासिकाश्रये
अथवा मूलपादोच्चं पङ्क्तिरन्ध्राष्टभाजिते ॥४६॥
तत्तद्भागे गुणांशेन कोष्ठोर्ध्वे भूषणोदयम्
तत्तुङ्गं पञ्चधा कृत्वा चैकांशं पञ्जरोदयम् ॥४७॥
तत्समं ग्रीवतुङ्गं स्यात्तद्द्वयं नासितुङ्गकम्
स्तूपितुङ्गं तदर्धं स्यान्नासिकाग्रं च तत्समम् ॥४८॥
द्विदण्डाद्दण्डवृध्या च दशदण्डावसानकम्
पञ्जरादिविशालं यच्छेषं चोर्ध्वेऽङ्घ्रिकम् ॥४९॥
एकोनविंशदंशं स्यात्पञ्जरोच्चं विभाजिते
द्विभागं चोत्तरोत्तुङ्गमेकाशं वाजनोदयम् ॥५०॥
तदूर्ध्वपद्मं द्विभागं स्याद्वाजनं चैकभागिकम्
अष्टांशेन कपोतोच्चं तदूर्ध्वे आलिङ्गमंशकम् ॥५१॥
तत्सममन्तरितं चोर्ध्वे द्व्यंशं तत्प्रतिकोन्नतम्
तदूर्ध्वे वाजनं चांशं शेषं युक्त्या प्रयोजयेत् ॥५२॥
ग्रीवतुङ्गं त्रिधा भज्यमेकांशं वेदिकोन्नतम्
ग्रीवतुङ्गं सपादांशं शेषांशं ग्रीवभूषणम् ॥५३॥
वेदिकोर्ध्वे तु सप्तांशं सार्धबन्धं गलोदयम्
तदूर्ध्वे कम्पमेकांशं सार्धांशं पद्मतुङ्गकम् ॥५४॥
तदूर्ध्वे वाजनं चांशमायामं वा त्रिभागिकम्
एकांशं मध्यभद्रं तु मध्ये युक्त्या प्रकोष्ठकम् ॥५५॥
ग्रीवभूषणतुङ्गे च विभजेत्तु षडंशकम्
द्विभागं चोत्तरोत्सेधं तदर्धं वाजनं भवेत् ॥५६॥
द्विभागं गलभित्सेधं वाजनं चैकभागिकम्
मध्यकोष्ठोत्तरं तत्स्यात्क्षुद्र पादौ सभूषितम् ॥५७॥
पञ्जरे प्रतिकायामे चाष्टभाग विभाजिते
सप्तांशे वेदिकायामे पद्मवाजनकान्तकम् ॥५८॥
वेदितारं चतुर्भागं त्रिभागं ग्रीवविस्तृतम्
वेदितारसमं नासी शालायामं प्रकल्प्लयेत् ॥५९॥
तदायामे त्रिभागैकं मध्यनासी विशालकम्
विशालार्धं त्रिपादं वा मध्यनास्योदयं भवेत् ॥६०॥
पार्श्वयोर्बहुनास्योच्च शिखरस्य समोन्नतम्
तच्छिखं चोत्तरान्तं स्यात्कवरीवक्त्रसंयुतम् ॥६१॥
नासिकापत्रसंयुक्तं मध्यक्षुद्रं च निम्नकम्
शिरस्योर्ध्वे पट्टिकानां च मध्यनासी शिखान्तकम् ॥६२॥
शिरोलम्बोत्तरान्तं वा वलभावतिमेव वा
शिखरस्योर्ध्वे पट्टोच्चमुत्तरोच्चं समं भवेत् ॥६३॥
तदूर्ध्वे वाजनं पद्मं निम्नं कुम्भं सदण्डकम्
पद्मवाजन पद्मं च तदग्रे कुड्मलान्वितम् ॥६४॥
एतत्स्तूपित्रयं प्रोक्तं भागं युक्त्या प्रयोजयेत्
तच्छिरे समलङ्कृत्य पत्रवल्ल्यादिशोभितम् ॥६५॥
एतत्पञ्जरशालां च पद्ममेकं शिखात्रयम्
सर्वालङ्कारसंयुक्तं कुर्याद्वै तक्षकेण तु ॥६६॥
अथवा तोरणं कृत्वा स्तम्भस्योपरि वाजनम्
मूलेपादविशाले तु चैकदण्डं तथोन्नतम् ॥६७॥
पूर्ववद्भागमानेन चोत्तरादिक्रियान्वितम्
तदूर्ध्वे तोरणस्यान्ते मकरापत्रसंयुतम् ॥६८॥
तदूर्ध्वे तोरणान्तं स्यादेकदण्डं तु तच्छिरः
मकरीवक्त्रसंयुक्तं सर्वालङ्कारशोभितम् ॥६९॥
कोष्ठं च पार्श्वयोश्चैव क्षुद्र पादसमन्वितम्
मूलपादविशालं स्यात्त्रिपादक्षुद्रा ङ्घ्रितारकम् ॥७०॥
तस्यपादविशालेन पादभूषण मानयेत्
फलकाद्यन्तकाद्यं च वीरकर्णैकदण्डकम् ॥७१॥
बोधिकादि विनायुक्तं फलकादिक्रियान्यसेत्
फलकायाम द्विदण्डं चाध्यर्धदण्डकं तत्कुम्भविस्तृतम् ॥७२॥
ताटिवक्त्रं सपादं स्यात्तुङ्गं प्रागुक्तवन्नयेत्
सर्वालङ्कारसंयुक्तं युक्त्या तत्रैव योजयेत् ॥७३॥
बोधिकान्तं ललाटे च स्यादुत्सेधं चोर्ध्वे वाजनम्
तद्वाजनं तु पादान्तं पार्श्वयोस्तन्मुखावृतम् ॥७४॥
अधोभागे त्रिभागैकं मध्यभद्रा कृतिं न्यसेत्
तद्विपार्श्वे तु चैकैकं कर्तृछेदममिष्यते ॥७५॥
पार्श्वयोर्वाजनस्याधो वक्त्रं वज्राकृति तथा
ऊर्ध्ववाजन तद्युक्त्या कुर्यात्क्षुद्रा दि वाजनम् ॥७६॥
पार्श्वयोः स्तम्भस्योर्ध्वे मध्यभद्रा दिभूषितम्
द्वाभ्यां तत्कर्णदण्डान्तं मध्ये पार्श्वे च निम्नकम् ॥७७॥
बोधिके च तरङ्गं स्यात्सर्वालङ्कारसंयुतम्
तदेव तुङ्गमाने तु द्वादशांशे विभाजिते ॥७८॥
अधोभागे त्रिभागेन तरङ्गाकृतिं विन्यसेत्
तदूर्ध्वे बोधिकोत्सेधं षडंशेन विशेषतः ॥७९॥
प्रकुल्लानन सर्वभं पुष्पसंपवदाननम्
एतदूर्ध्वे शिरस्योर्ध्वे चांशेन हरिता भवेत् ॥८०॥
एकदण्ड त्रिपादं वा वाजनान्तं शिर उन्नतम्
तस्मात्तदायते दीर्घे निर्गमस्यमधोमुखम् ॥८१॥
कन्दलीसूनदण्डाभमग्निमूर्ध्वे निरोपमम्
अग्रे समगलं चैव तरङ्गं तत्समाधिकम् ॥८२॥
ललाटे चित्र भागैकमधो मूर्ध्नि विशालकम्
तस्योर्ध्वे कर्णभागेन कर्णकम्पाब्जवाजनम् ॥८३॥
पत्रवल्यादिरत्नैश्च पत्रचित्राभिभूषितम्
सर्वालङ्कारसंयुक्तं पुष्पबोधकमीरितम् ॥८४॥
उपपीठवदाकारं दण्डकादीनि विन्यसेत्
क्षुद्र कम्पं च पद्मैश्च पुष्परत्नैश्च भूषितम् ॥८५॥
तरङ्गा दण्डकां चैव बोधिकादीनि पालिका
एकवक्त्रं द्विवक्त्रं वा त्रिवक्त्रं चतुराननम् ॥८६॥
पञ्चषट् सप्ताष्टं वा यथा शक्तिवशान्न्यसेत्
तस्याधो वीरकर्णे तु फलका बोधिकान्तरम् ॥८७॥
आधारार्थं तु शोभार्थं सिंहचित्रादिमण्डितम्
वीरकर्णस्योदयं ज्ञात्वा नवभाग विभाजिते ॥८८॥
एकांशं पादुकं कुर्तात्पञ्चभागं तु संग्रहम्
तदूर्ध्वे करिकांसं स्यादब्जमंशेन कारयेत् ॥८९॥
तदूर्ध्वे वाजनं चांशं संग्रहं च द्विवक्त्रयुक्
पद्माग्राकृतिरग्रादीन् रेखा मूलवती न्यसेत् ॥९०॥
रत्नवल्यादि संभूष्य शेषं युक्त्या प्रयोजयेत्
संग्रहं रूपमित्युक्तं वीरकर्णे पुरान्वितम् ॥९१॥
पदङ्गाद्वदनं कृत्वा पश्चादुद्धृतहस्तवत्
तदेव सिंहादिरूपैर्वा नाटकाद्यैरलङ्कृतम् ॥९२॥
एतत्तु मुष्टिबन्धं स्यात्फलकोच्चं त्रिभागिकम्
एकांशोत्सन्धितुङ्गं स्यात्तदधो क्षेपणांशकम् ॥९३॥
तदधोऽब्जांशं पक्षं च द्व्यंशेनाब्जमथापि वा
कुम्भोच्चं चाष्टभागेन चांशेन पद्मकम्पकम् ॥९४॥
कुम्भाधो चोर्ध्वदेशे तु वटपत्रादिशोभितम्
निम्नं च ताटिकादीनि युक्त्या प्रागुक्तवन्नयेत् ॥९५॥
कुम्भस्तम्भप्रतिस्तम्भे कोष्ठकादीनि काङ्घ्रिके
कुम्भस्तम्भानि सर्वेषामेवमुक्तं पुरातनैः ॥९६॥
भुवोपरिष्टान्मुनिभागतुङ्गके
त्रिभागमञ्चं गलमंश चोर्ध्वके
फलं विभागं शाला शिरा कुम्भमंशकम्
क्रमात्प्रकुर्वन्त्विति पञ्जरादिकम् ॥९७॥
पञ्चभाग पुरतोक्ततुङ्गके
द्व्यंशकं त्रिपदं सार्धकं त्रिपात्
पञ्चांशं गलनासिकानन
कुम्भयुक्तचरणाग्रभूषणम् ॥९८॥
कुम्भालङ्कारम्
अथवक्ष्ये विशेषेण कुम्भालङ्कारमुच्यते
तन्मूलपालिकोत्सेधे विभजेत्तु षडंशकम् ॥९९॥
एकांशं पादुकं चैव पद्मतुङ्गं तु तत्समम्
कम्पमर्धं तदूर्ध्वे तु कन्धरं च द्विभागिकम् ॥१००॥
कम्पमर्धेन तस्योर्ध्वे पद्ममंशेन योजयेत्
अथवा चोर्ध्वके कम्पं तस्याधो पद्ममंशकम् ॥१०१॥
कण्ठमेकांशकं कुर्याच्छेषं प्रागुक्तवद्भवेत्
तदेवोर्ध्वेऽर्धं पद्मं च तस्योर्ध्वैकं कपोतकम् ॥१०२॥
अर्धेन वाजनं चोर्ध्वे यथाशोभं तु कारयेत्
तदूर्ध्वे कुम्भमूले तु पाल्यां शेनाश पद्मकम् ॥१०३॥
तदूर्ध्वे कम्पमर्धेन शेषं युक्त्या यथाकृति
तदूर्ध्वे वक्त्रतुङ्गं स्यान्नवभाग विभाजिते ॥१०४॥
कुम्भोर्धांशेन जन्म स्याद्वाजनं चार्धभागिकम्
पद्ममंशेन संयुक्तं कम्पमर्धेन कारयेत् ॥१०५॥
सार्धद्व्यंशं गलोत्तुङ्गं कम्पमर्धेन कारयेत्
तत्समं पद्मतुङ्गं स्यात्सार्धांशं तु कपोतकम् ॥१०६॥
एकांशं प्रतिसंयुक्तं सर्वालङ्कारसंयुतम्
कर्णतुङ्गद्विभागं पद्ममध्यर्धमेव वा ॥१०७॥
अथवा वक्त्रतुङ्गं स्यादेकदण्डेन कारयेत्
पालिकस्योक्तवत्कुर्याद्यथाशोभं तु कारयेत् ॥१०८॥
अस्योर्ध्वेऽर्धेन दण्डेन कुड्मलाकृति न्यसेत्
तदा स्यान्निर्गमं भावं कुम्भान्तं लंभयेत् पुनः ॥१०९॥
कुम्भमध्ये रत्नबन्धं वस्त्रनिप्यं च विन्यसेत्
सर्वालङ्कारसंयुक्तं पादमूले तु विन्यसेत् ॥११०॥
तदास्यं निर्गमं भावं कुम्भान्तं नासिकं भवेत्
अथवा नासिकां त्यक्त्वा पञ्जरस्योपरि न्यसेत् ॥१११॥
पादस्योर्ध्वे पाल्यन्तं पद्मवल्यादिभूषितम्
मूलपादविशालं वा तत्त्रिपादविशालकम् ॥११२॥
एतत् कुम्भाङ्घ्रिकं प्रोक्तं चान्तरालं च योजयेत्
कुर्याद्वहिःप्रदेशे तु मध्ये वा चान्तरालके ॥११३॥
भित्तिमध्ये च कूटे च शिरोदेशे विशेषतः
विशालपञ्जराद्यैश्च योजयेच्छिल्पिवित्तमः ॥११४॥
स्तम्भलक्षणम्
तत्स्तम्भलक्षणं वक्ष्ये तुङ्गादींञ्चोक्तवन्नयेत्
मूलस्तम्भविशालेन त्रिपादम् वार्धमेव वा ॥११५॥
संयोगस्तम्भविस्तारं यन्मानोरम्य मानयेत्
बोधिका फलकान्तं च मूलदण्डेन मानयेत् ॥११६॥
पालिकाद्यङ्गं सर्वेषामुपदण्डेन मानयेत्
बोधिकादीनि सर्वाङ्गं पूर्ववत्परिकल्पयेत् ॥११७॥
उपपादानि सर्वेषां पूर्वपादे तु योजयेत्
उपपादां मूलपादान्तमुपदण्डसमन्तकम् ॥११८॥
तद्दण्डस्य त्रिपादं वा दण्डार्धं वाथवांशकम्
एकोपपादसंयुक्तं द्वित्र्! युपपादेन सयुतम् ॥११९॥
एवं क्रममिति प्रोक्तं मूले पद्मासनान्वितम्
वेदोपपादसंयुक्तं ब्रह्मकान्तमीरितम् ॥१२०॥
पञ्चोपपादसंयुक्तं शिवकान्तमितीरितम्
षडोपपादसंयुक्तं स्कन्दकान्तमिति स्मृतम् ॥१२१॥
अष्टोपपादसंयुक्तं विष्णुकान्तमुदीरितम्
सर्वेषां पादमूले तु पालिकां चोपपीठवत् ॥१२२॥
कुर्यात्सिंहस्य रूपं वा पादं पत्रादिभूषितम्
शिले दारुजे वापि कारयेदुक्तवद्बुधः ॥१२३॥
दारुसंग्रहणम्
दारुसंग्रहणं वक्ष्ये पश्चाद्दारोश्च लक्षणम्
दक्षिणायनकाले तु चोत्तरायणमेव वा ॥१२४॥
माधादौ च चतुर्मासे कुर्याद्दारोश्च संग्रहम्
कृष्णपक्षे शुभदिने सुमुहूर्ते सुलग्नके ॥१२५॥
दारुसंग्रहणं कुर्यात्स्थपतिः स्थापकैः सह
कुठारखट्वखङ्गादीन् रक्षासूत्रेण बन्धनम् ॥१२६॥
पीत्वा शुद्धं पयो रात्रावुपोष्याधिवसेद्बुधः
प्रभाते तु समुत्थाय कर्ता स्वानुचरैः सह ॥१२७॥
वनप्रयाणमार्गे तु पश्येत्तु शकुनानि वै
संमुखे तु सुराभाण्डं मांसं वृषभं तु वा ॥१२८॥
पूर्णकुम्भं गजं वेश्या द्विजानां सङ्घमेव च
दर्पणं पुष्पमालां च राजानं चक्रमेव च ॥१२९॥
आन्दोलिका बलिं पूर्णघटं च शिबिरं तथा
वस्त्रधृग्रजकं चैव कामधेनुं सुमङ्गलाम् ॥१३०॥
धनधान्यसमृद्धिं च दृष्ट्वा सर्वमेतच्छ्रुभावहम्
मुक्तकेशं नासिहीनं तैलभाण्डं तथैव च ॥१३१॥
एक द्विजं यतिं चैव कपालारक्तवाससान्
क्षयरोगं चाङ्गहीनं नव्यङ्गगदिगं तथा ॥१३२॥
मार्गे संमुखं दृष्ट्वा त्वमङ्गलमिति स्मृतम्
भारद्वाजं दिवाभीतं नर्तक व्यानकं तथा ॥१३३॥
वरदासीस्मरं वामे शुभदं दक्षिणेऽशुभम्
वायसं च मयूरं च दीर्घपुच्छं तथैव च ॥१३४॥
कृष्णपक्षद्वयं चैव श्वेताक्षं कृकलासकम्
रक्तबोधं च फणिनं सारङ्गं व्याघ्रमेव च ॥१३५॥
जम्बुकं च तथा वामं दक्षिणे गमनं शुभम्
दक्षिणं वामतो गच्छेदशुभं भवति ध्रुवम् ॥१३६॥
अन्धकं शकुनं चैवारण्ये श्वेतलोचनम्
हरिणं च शशं चैव मार्गकीटं तथैव च ॥१३७॥
बहुवर्णं च गृध्रं च रक्तश्वानं च सूकरम्
दक्षिणाद्वामगमनं मङ्गलं भवति ध्रुवम् ॥१३८॥
वामतो दक्षिणे गच्छेदशुभं प्राप्यते ध्रुवम्
परिहारं च वक्ष्यामि ग्रामसीम्नि शुभं तु चेत् ॥१३९॥
स्थित्वा भुक्त्वा द्विजान् पश्चाद्दृष्ट्वा गच्छेत्ततः सुधीः
ग्रामसीम्नस्तु परितो दुर्निमित्ते पशुं क्षिपेत् ॥१४०॥
विपिनस्य समीपे तु चोक्तान्येकानि सर्वशः
दक्षिणं वामतो गच्छेद्वामतो दक्षिणे तथा ॥१४१॥
मध्ये तदिष्टकार्याणि मङ्गलं भवति ध्रुवम्
वनं संप्राप्य सुच्छायं सुशीतलतरुं तथा ॥१४२॥
दृष्ट्वा निज्येर्यते च्छायां शृणुयाच्छाकुनस्वरान्
व्यालं भारद्वाजं च श्वेताक्षिं च बृहत्खगम् ॥१४३॥
सुस्वरं तु शुभं प्रोक्तं दुःस्वरेऽथ पशु क्षिपेत्
काकस्वरं दक्षिणे श्रेष्ठं प्राचि चैव मध्यमम् ॥१४४॥
प्राक् स्वरं चाधमं प्रोक्तं तस्य तूत्तर स्वरम्
यदि श्रुतं चेत्तत्काष्ठे त्रीण्यजानि बलिं क्षिपेत् ॥१४५॥
होमार्थं तत्र कुर्यात्प्रयत्नं चोक्तवद्बुधः
असुरं राक्षसं चैव भूतपैशाचमेव च ॥१४६॥
चरगं पूतन विदारौ पापराक्षसमेव च
महांश्चाष्टगणाख्यानिन्द्रा नीशानकान्तकम् ॥१४७॥
रक्तेन मिलितं चान्तं स्तुतिं चैव सदा जपेत्
मुख्यं चापि मृगं चैव चादितिमुदितिं तथा ॥१४८॥
वितथं चान्तरिक्षं च भृशं पूषणमेव च
एतेभ्यो राक्षसेभ्यश्च मांसमन्नं बलिं क्षिपेत् ॥१४९॥
फलानि क्षीरमन्नं च स्थपतिस्तु वनस्पतेः
बलिं दद्यात्स्वनाम्नैश्चान्येषां च स्वनामभिः ॥१५०॥
शुद्धिं कृत्वा ततः पञ्चात्पुण्याहं वाचयेत्ततः
स्वस्तिवाचनकं कुर्यात्पश्चाद्ब्राह्मणभोजनम् ॥१५१॥
दारुच्छेदनकाले तु बहिर्गच्छेद्वनस्पतेः
मन्त्रः
राक्षसैः सह भूतैश्च कर्तारं रक्षते नमः ॥१५२॥
पश्चात्तु स्थापकेनैव ब्रह्मार्थं निक्षिपेद्बलिम्
कुर्याद्धोमं स्थापकस्तु पूजयित्वा वनदेवताः ॥१५३॥
प्रोक्षयेत्परशुं तत्र प्राङ्मुखश्चोत्तरेऽपि वा
परशुं तक्षकं श्रेष्ठं स्थपतिः स्थापककरात् ॥१५४॥
स्वीकृत्य दारु विच्छिद्य चान्यैरनुचरैः सह
स्थूलमूलं कृशाग्रं च निशृङ्गं स्निग्धरूपकम् ॥१५५॥
जनशाखासंकीर्णं छ्रत्रवन्निश्वथं यदि
सुशीतलं तु सुच्छायं छायावृक्षमिति स्मृतम् ॥१५६॥
वृक्षस्य मूलमध्ये तु वृक्षाग्रे समनाहकम्
निःशाखः स पुमान्प्रोक्तं स्निग्धरूपं च शीतलम् ॥१५७॥
अग्रस्थूलं कृशे मूले नानाविटपशाखयुक्
दुर्भरं भिन्नसुषिरं चोष्णं विवृतशाखकम् ॥१५८॥
दृष्टान्तं मनुजायोग्यं छायायामं नपुंसकम्
स्त्रोपुमान्वृक्षकश्छेद्यः सुमुहूर्ते सुलग्नके ॥१५९॥
वृक्षच्छेदनकाले तु उत्पद्य न पतेद्यदि
पतन्ति चोत्तरे वा प्राग्दिग्भागे न चामङ्गलम् ॥१६०॥
याम्ये वा पश्चिमे वापि देशे पतन्ति मङ्गलम्
ईशं नैऋतिकोणे वा सर्वसंपत्करं भवेत् ॥१६१॥
अनलानिलकोणे वा चान्यथा चान्तरालके
उद्गतमिति तत्र स्यात्सकलानीत्यमङ्गलम् ॥१६२॥
छिन्नवृक्षस्य पतने वृषभं हयकुञ्जरम्
निनदं भवति श्रेष्ठं बाह्यत्वाने त्वमङ्गलम् ॥१६३॥
समीपे स्थितवृक्षाश्च हत्वा यदि पतेत्तरुः
अशुमं तत्समुद्दिष्टो पतन्ति मनुजोपरि ॥१६४॥
पूर्वे वा चोत्तरे वापि वृक्षास्तत्र पतन्ति चेत्
तत्रादे तत्क्रमं नास्ति चान्ये दिक्षु त्वमङ्गलम् ॥१६५॥
सर्वदोषं समुद्दिश्य शान्तिं कुर्याद्विचक्षणः
पशुप्रहारहोमं च बाह्यणान्भोजयेत्ततः ॥१६६॥
एवं शान्तौ कृतायां तु दोषं नश्यति नान्यथा
नराणां मरणं स्याच्चेत्तत्त शान्तिर्न विद्यते ॥१६७॥
तस्मात्परिहरेद्विद्वान् कुर्याद्दारु संग्रहम्
शयनस्थितद्वारूणि स्थूपिकीलादिकं सर्वशः ॥१६८॥
भूमौ पदं नितच्चक्रमिति विरचितम्
स्थितः शयनदारूणि रथमारोपयेत्तदा ॥१६९॥
नववस्त्रेण संवेष्ट्य सर्वमङ्गलघोषणैः
अनङ्वाहौ वाहयित्वा महिषं कुञ्जरं तु वा ॥१७०॥
कर्षयेत्तु नरैर्वापि सुमुहूर्ते सुलग्नके
शिल्पशालां प्रवेश्याथ रथात्तदवतारयेत् ॥१७१॥
दारुसंग्रहणं प्रोक्तं दारुलक्षणमुच्यते
धूमकं क्षीरणं चैव खादिरं खदिरं तथा ॥१७२॥
शाकं च निम्बवृक्षं च शमी शाखं तथा मृगम्
एतेषु धारणं वृक्षं शतवृक्षमिहोच्यते ॥१७३॥
कतरं कृतमालं च व्याघ्रकाश्छादना मृगम्
द्रा क्षा शाखा च रुद्रा णि जम्बूकं शयितेष्वपि ॥१७४॥
नालिकेरं च तालं च वेणु मौनी च किंशुकम्
पूगं च पुष्कलं चैव चामलकं च किंशिरि ॥१७५॥
हरितं च सप्तपर्णं चोर्ध्ववृक्षमुदीरितम्
तेषां देवालयं कुर्यान्नृणां सद्मैः विशेषतः ॥१७६॥
व्याघ्र चन्दनरक्त च चन्दनं तिन्त्रिणी तथा
अन्यानि दारुसर्वाणि द्विजातीणां गृहे न्यसेत् ॥१७७॥
तत्तज्जातिद्रुमाभावे एकजात्या च सर्वशः
वृक्षस्य मूलं शतश्चाग्रे चाग्रं तथैव च ॥१७८॥
भूमिस्पर्शमुखं ज्ञात्वा तदूर्ध्वं परभागतः
स्तम्भस्थापनम्
देवालयादिसर्वेषां स्तम्भस्थापनमुच्यते ॥१७९॥
यथाभागावसाने तु स्थापयेदखिलाङ्घ्रिकम्
स्तम्भान्ते स्तम्भयुक्तं चेद्वास्तुवस्तु विनाशनम् ॥१८०॥
यद्वास्त्वन्तर्बहिः सूत्रं स्थापयेदृजुसूत्रकम्
स्तम्भमध्यात्तु बाह्यान्तं यथापादं तथाश्रयम् ॥१८१॥
यत्रदेश विशालार्धं तत्र दोषो न विद्यते
पुष्य माघं च चैत्रं च वैशाखं चोत्तरायणे ॥१८२॥
आषाढं श्रावणाश्वी च कार्तिकं दक्षिणायने
सुमुहूर्तं सुलग्ने च शुक्लपक्षे शुभदिने ॥१८३॥
स्तम्भमावाहनं कुर्याच्छेषमासे च भावके
अङ्कुरार्पणकर्मादौ स्थापनान्तं यथाक्रमम् ॥१८४॥
जलाधिवासनं स्थानं कुर्यात्त्वपि सर्वशः
ईशाने नैरृतिकोणे तु मध्ये चाङ्घ्रिकमेव च ॥१८५॥
पादस्थानस्य यदृशे वस्तुनश्च बलं यथा
तदूर्ध्वं धारपट्टं स्याद्दण्डाध्यर्ध द्विदण्डकम् ॥१८६॥
घनं च विस्तृतं चैव चायामं तद्यथेष्टकम्
शिलास्तम्भे शिलाधारं दारुस्तम्भे द्रुमस्तथा ॥१८७॥
अथवा चाश्मनं सर्वमाधारं चतुरश्रकम्
एकहस्तं द्विहस्तं वा त्रिहस्तं विपुलं भवेत् ॥१८८॥
आधारस्य तु मध्ये स्याद्र त्नस्थापनतोऽवटम्
प्रासादाभिमुखे चैव मण्डपं परिकल्पयेत् ॥१८९॥
मण्डपान्तं प्रदेशे तु स्तम्भं संग्राह्य वेशयेत्
स्थण्डिले चण्डितं कृत्वा बीजं ब्रीह्मादि विन्यसेत् ॥१९०॥
तत्र स्तम्भं च विन्यस्य पूर्वे वाप्युदगग्रकम्
नववस्त्रेण संवेष्ट्य कुम्भं कुर्यादभिभूषणं ॥१९१॥
कर्पटं तु शिरीषादिधान्यं कार्पासबीजकम्
सूत्रेण वध्वा पश्चात्तु स्तम्भकर्णे च बन्धनम् ॥१९२॥
तदग्रे स्यण्डिलं कृत्वा शुद्धशालैश्च लाजकैः
दर्भैरास्तीर्य तत्रैव प्रागुदक् स्यात्तदग्रकम् ॥१९३॥
पीठं वा चोपपीठं वा चोक्तवत्पद कल्पयेत्
जलसंपूर्णकुम्भादि तत्र चावाहयेद्बुधः ॥१९४॥
सूत्रपल्लवकूर्च्याद्यान् नववस्त्रेण वेष्टयेत्
तदग्रे स्थण्डिलं कृत्वा रत्नलोहादि चावहेत् ॥१९५॥
पादप्रक्षालनं कुर्यादाचम्य स्थपतिर्बुधः
भस्मं वा चन्दनं वापि धारयेत्तु त्रिपुण्ड्रकम् ॥१९६॥
सकलीकरणं कृत्वा पुण्याहं वाचयेत्ततः
ब्रह्मादिदेवताः सर्वाः पादस्थाने समर्चयेत् ॥१९७॥
हृल्लेखामध्यकुम्भान्तं पूजयेत्तु विशेषतः
देव्यावरणं सर्वेषां परितः कलशोदके ॥१९८॥
आवाह्य पश्चादभ्यर्च्य गन्धपुष्पाक्षतादिभिः
रत्नाधिवासनं कुर्यात्तत्तद्देवत नामभिः ॥१९९॥
गन्धपुष्पादिधूपैश्च नैवेद्यान्तं समर्चयेत्
तदग्रे पूर्वदिग्देशे होमं कुर्याद्विचक्षणः ॥२००॥
पश्चात्तु शिल्पी संप्राप्य संस्पृशेत्स्तम्भमूलकम्
गैरिकार्पितसूत्रैश्च चतुःसूत्राणि विन्यसेत् ॥२०१॥
स्वर्णसूच सदर्भाश् च घृतक्षीरेण योजयेत्
धूपदीपं ददेत् पश्चाद्गन्धपुष्पैः समर्चयेत् ॥२०२॥
हिमाद्रि रूपं तत्स्तम्भं ध्यात्वा हस्तेन संस्पृशेत्
ततोऽधिवासनं कुर्यात्स्तम्भं तद्देशिकोत्तमः ॥२०३॥
पश्चात्तक्षकमुख्यैस्तु स्तम्भमुद्धृत्य हस्ततः
वास्तुप्रदक्षिणं कुर्यात्स्वकीयानुचरैः सह ॥२०४॥
सर्वमङ्गलघोषैश्च स्तम्भस्थापनदेशकम्
संप्राप्य हस्ततः स्तम्भमवरोह्य च पश्चिमे ॥२०५॥
तत्स्तम्भं पूर्ववदनं धारं प्रोक्ष्य संस्थितम्
अधिवासितरत्नानि व्याहृत्यावटतः क्षिपेत् ॥२०६॥
मध्ये तु हेमं निक्षिप्य चैन्द्रे ताम्रं विनिक्षिपेत्
याम्ये तु चायसं स्थाप्य कांस्यं वा वारुणे न्यसेत् ॥२०७॥
सौम्ये तु रजतं स्थाप्य पुष्परागं तु मध्यमे
पुष्परागमिन्द्र कोष्ठे गोमेधं चाग्निकोणके ॥२०८॥
महानीलं च याम्ये तु मरतकं नैरृते न्यसेत्
स्फटिकं वारुणे कोष्ठे तु प्रवालं वायुकोष्ठके ॥२०९॥
सौम्ये तु मौक्तिकं न्यस्य चेन्द्र नीलं तथेशके
तत्स्तम्भं तत्र निक्षिप्य स्थपतिः कर्तृभिः सह ॥२१०॥
सर्वमङ्गलघोषैश्च ब्राह्मणैः स्वस्तिवाचनम्
अधिवासितकुम्भानि सर्वाण्यादाय शिल्पिकः ॥२११॥
वास्तुप्रदक्षिणं कृत्वा स्तम्भं मन्त्राभिषेचयेत्
धूपदीपं दधेत् पश्चाद्वस्त्रमाल्यैर्विभूषितम् ॥२१२॥
गन्धपुष्पैः समभ्यर्च्य नैवेद्यं च निवेदयेत्
मन्त्रः
स्तम्भ महामेरो वास्तु दद्याथश्चन्द्र दिवारम् ॥२१३॥
अन्यैः स्तम्भैश्च मूर्ध्ना ते धृत्वा रक्षतु चोन्नतम्
एतन्मन्त्रं पठित्वा तु कुर्यादनुनयं बुधः ॥२१४॥
प्रासादे मण्डपे वापि प्राकारे गोपुरे तथा
द्विजातीनां च वर्णानां सद्ममासपकादिनाम् ॥२१५॥
स्तम्भप्रतिष्ठां सर्वत्र चैवं कुर्याद्विचक्षणः
पुरातनैश्च ऋषिभिः ब्रह्माद्यैश्च सुरैरपि ॥२१६॥
स्तम्भप्रतिष्ठा चोक्ता स्याद्विनाचेदशुभं भवेत्
तस्मात्स्तम्भप्रतिष्ठां तु कारयेच्छिल्पिवित्तमः ॥२१७॥
स्थपतिः स्थापकं विप्र स्थापनं कर्मणे वृतान्
पूजयेद्विधिवदुक्तमार्गतः स्वस्वात्मशिबिरानन्तः प्रतिष्ठा चोक्ता स्यात् ॥२१८॥
इति मानसारे वास्तुशास्त्रे स्तम्भलक्षणं नाम पञ्चदशोऽध्यायः
N/A
References : N/A
Last Updated : October 02, 2022
TOP