संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| प्रस्तरविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - प्रस्तरविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत प्रस्तरविधानम् Translation - भाषांतर प्रस्तरस्य विधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुनाअधिष्ठानत्रिपादं वा समं वा पादमधिकम् ॥१॥अर्धत्रिपादमाधिक्यं तत्समाधिकमेव वाषड्विधं कुट्टिमोत्तुङ्गं प्रस्तरोदयमीरितम् ॥२॥अथवा हस्तमानेन देवजातिवशोच्यतेसप्तहस्तं समारभ्य सार्धवेदकरान्तकम् ॥३॥अर्धारत्निकहान्येन षड्विधं प्रस्तरोदयम्देवानां भूसुराणां च भूपतीनां युवराजयोः ॥४॥वैश्यानां शूद्र जातीनां सद्म जातिवशात्क्रमात्अथवा पादतुङ्गार्धं तत्समं वा विशेषतः ॥५॥चतुर्भागैकहीनं वा तत्पादाधिकमेव चअर्धाधिकं त्रिपादं वा तत्समाधिकमेव वा ॥६॥एतत्तु षड्विधं प्रोक्तं युक्त्या तत्प्रस्तरोदयम्अथवा पादोदये चाष्टभागं कुर्याद्विचक्षणः ॥७॥सप्तषट्पञ्चभागाब्धित्रिभागद्व्यंशमेव चएवं तु षड्विधं प्रोक्तं प्रस्तरोच्चं मुनीश्वरैः ॥८॥उत्तरादिप्रदेशान्तं सर्वेषां प्रस्तरोदयम्कपोतं प्रस्तरं चैव मञ्चं प्रच्छादनं तथा ॥९॥गोपानं च वितानं च वलभी मत्तवारणम्विधानं च लुपं चैवमेते पर्यायवाचकाः ॥१०॥प्रस्तरोच्चादि सर्वेषामङ्गैः सर्वमिहोच्यतेउत्सेधं चैकत्रिशं तु भागं कुर्याद्विचक्षणः ॥११॥चोत्तरं सार्धवह्न्यंशमंशं तद्वाजनं भवेत्वलभोत्सेधं बन्ध्वंशं सार्धांशं वा जनं भवेत् ॥१२॥उत्तरोच्चं त्रयांशं वा वाजनं चैकभागिकम्तत्समं क्षुद्र पद्मं स्यात्त्रयं चोर्ध्वे महाम्बुजं ॥१३॥तदूर्ध्वे वाजनं चैकं धातुभागं कपोतकम्आलिङ्गमंशकं चैवमेकार्धमन्तरितं तथा ॥१४॥द्व्यंशकं प्रस्तरं चैव सार्धांशं वाजनं भवेत्उत्तरोर्ध चतुष्पञ्चाषट्सप्ताष्टकं भवेत् ॥१५॥तत्तदेकांशमानेन हर्म्यपादं तु बाह्यकेयन्मानोरम्यमानेन चोत्तरं निर्गमं भवेत् ॥१६॥उत्तराद्वाजनं चैव तत्समं निर्गमं भवेत्वलभी समं वापि त्रिपादं निर्गमं भवेत् ॥१७॥तदूर्ध्वे वाजनं युक्त्या तच्चतुर्थांश निर्गमम्कपोतं तत्समं वापि वाजनं तु बहिर्भवेत् ॥१८॥अथ त्रिपादमर्धं वा पादं वा निर्गमं न्यसेत्आलिङ्गपादबाह्यस्य निम्नमेवं तु कारयेत् ॥१९॥तस्मादन्तरितं चोर्ध्वे तत्समं निर्गमं तु वात्रिपादं चार्धमेवं वा प्रति तत्समं निर्गमम् ॥२०॥ऊर्ध्वे वाजनमुच्च तु निर्गमं पादबाह्यतःप्रतिं च प्रस्तरं चैव प्रतिवाजनमेव च ॥२१॥अन्वन्तं चावसानं च विधानं च विधानकम्एतत्सर्वमिति प्रोक्तं पर्यायाख्यानि पण्डितैः ॥२२॥प्रतिरूपं दलाकारं वाजनं च द्वयांशकम्वाजनं क्षेपणं वेत्रं पट्टमुत्तर पट्टिका ॥२३॥कम्पं दृक्कं च मन्दादि चान्तरितं पर्यायमेव चतुलादण्डं जयन्ती फलका पर्यायवाचकम् ॥२४॥कपोतं वक्त्रहस्तं च लुपा गोपानकं तथाचन्द्र मेतत्तु सर्वाणि प्रोक्तं पर्यायवाचकाः ॥२५॥संग्रहं मुष्टिबन्धं च मद्दलोद्धृतहस्तकम्वलभी धारणं चैवमेते पर्यायवाचकाः ॥२६॥तदूर्ध्वे तत्क्रियाः सर्वे नाटकान्तमृणालिकावल्लिका पत्रवल्ली च चित्राङ्गं कुलिकाङ्घ्रिकम् ॥२७॥एतत्पर्यायवाक्यानि पुरातनमुनीश्वरैःउत्तरं वाजनमाधारमाधेयं शयनं तथा ॥२८॥उद्धृतं च मूर्धकं चैव महातौलि स्ववंशकम्प्रच्छादनस्यमा धारमेतत्पर्यायमीरितम् ॥२९॥पूर्वभागिकमानेन चोत्तरोच्चं गुणांशकम्तदूर्ध्वे कम्पमेकेन वलभीतत्समोदयम् ॥३०॥नन्दकरमब्जवत्कुर्यात्तदूर्ध्वेऽर्धेन वाजनम्द्व्यंशार्धं मुष्टिबन्धं चांशेनोर्ध्वेऽर्धेन वाजनम् ॥३१॥द्व्यंशं मृणालकोत्तुङ्गमेकांशेनोर्ध्वकन्धरम्तदूर्ध्वे क्षेपणं कुर्यात्पद्मं तु तत्समं भवेत् ॥३२॥तदूर्ध्वे वाजनं चांशं पत्रवल्यादिभूषितम्कदलीस्तम्भसंजाता पुष्पवती मृणालिका ॥३३॥तदूर्ध्वे द्व्यंशमाधारं पट्टं चार्धेन वाजनम्अध्यर्धं मुष्टिबन्धं च वाजनं चैकभागिकम् ॥३४॥तदूर्ध्वे च द्विभागेन महावाजनमीरितम्तदर्धेनाब्जं तस्याधो शोभयेत्समलङ्कृतम् ॥३५॥तदेव तुङ्गार्धमानेन चैतत्क्रियाङ्गमेव चतदूर्ध्वे पादमूलोच्च तत्तद्भागेन विन्यसेत् ॥३६॥तदूर्ध्वे द्व्यंशभागेन चालिङ्गोदयमेव चतदूर्ध्वे वाजनं चांशं त्रियंशान्तरितं तथा ॥३७॥एकांशं चोर्ध्वकम्पं स्यात्प्रति द्व्यंशेन कारयेत्तदूर्ध्वे वाजनं चांशं षट्षट्भागोदयं भवेत् ॥३८॥अथवा प्रस्तरोत्सेधं त्रिंशद्भाग विभाजितेउत्तरोच्च त्रिभागं स्यात्कम्पमेकेन कारयेत् ॥३९॥ऊर्ध्वे वलभि युग्मांशं वाजनं चैकभागिकम्कपोतं पञ्चभागं तु अंशमालिङ्गमेव च ॥४०॥द्विभागान्तरितं चैव निम्नमर्धेन कारयेत्तदूर्ध्वेऽध्यर्धभागेन प्रतिवाजन कारयेत् ॥४१॥तदूर्ध्वे कन्धरं द्व्यंशं वाजनं चैकभागिकम्तदूर्ध्वे गृहं युग्मांशमेकभागेन वाजनम् ॥४२॥वेदांशं तत्कपोतोच्चमर्धेनालिङ्गमेव चअंशमन्तरितं चोर्ध्वे निम्नमर्धेन योजयेत् ॥४३॥अंशेन प्रस्तरं चैव सर्वालङ्कारसंयुतम्तदेव मूल गोपानमूर्ध्वे द्व्यंशेन वाजनम् ॥४४॥तदूर्ध्वे पञ्चभागेन कूलिकाङ्घ्रिकतुङ्गकम्तत्प्रदेशे विशेषोऽस्ति नाटकाभिरलङ्कृतम् ॥४५॥कपोतक्षुद्र नास्यङ्गैः पत्रवल्यादिभूषितम्प्रस्तरे सर्वदेशे तु मकरादिविभूषितम् ॥४६॥मकरैर्भ्रमरैर्युक्तं शेषं प्रागुक्तवन्नयेत्एकदण्डं द्विदण्डं वा चार्धदण्डमथापि वा ॥४७॥क्षुद्र नासं विशालं स्यात्तुङ्गं गोपानसीमकम्अधःपादवशान्यस्य सर्वेषां क्षुद्र नासिकम् ॥४८॥कर्णपादवशात्क्षुद्र नासि स्तम्भाग्रमर्धकम्षडधिह्कम् तु विंशांशं भागं तु प्रस्तरोदयम् ॥४९॥त्रिभागं चोत्तरोत्तुङ्गमूर्ध्वे अंशेन वाजनम्तदूर्ध्वे पद्मतुङ्गं स्याद्वाजनं चैकभागिकम् ॥५०॥मुष्टिबन्धं त्रिभागं स्यादंशेन वाजनं भवेत्त्र्! यंशं मृणालिकोत्तुङ्गं चांशेन वाजनं भवेत् ॥५१॥युगांशं पट्टिकोत्तुङ्गं वाजनं चैकभागिकम्अर्धेन कम्पमंशेन पद्ममर्धेन वाजनम् ॥५२॥कपोतं बन्धभागं स्यादर्धेनालिङ्गमेव चवाजनं तत्समं तु स्यादंशेनान्तरितं तथा ॥५३॥तदूर्ध्वे चैकभागेन प्रतिवाजन संयुतम्नाटके तत्सपादैश्चाधोपाद समन्वितम् ॥५४॥तदूर्ध्वेऽर्धं च सर्वेषां तत्पादं बहिर्निर्गमम्एकदण्डं द्विदण्डं वा त्रिदण्डं वाथ निर्गमम् ॥५५॥भूतरूपगणैश्चैव यक्षविद्याधरं तथानरैर्वा नाटकाङ्गे तु कुर्याद्देवालयादिनाम् ॥५६॥यक्षविद्याधरादीनां भूपहर्म्ये तु योजयेत्हर्म्यान्तरालयाः सर्वे नृणां नाटकसंयुतम् ॥५७॥सर्वेषां मुष्टिबन्धानां कुर्यात्पादै ऋजुस् तथाशेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥५८॥एतत्तु प्रस्तरस्योर्ध्वे नाटकस्योर्ध्वशाशवत्कुर्यादेतत्कपोतं स्यादष्टभागाधिकं तथा ॥५९॥शेषं तु पूर्ववत्कुर्यात्प्रस्तरं चाष्टभेदकम्प्रस्तरोच्चमिति प्रोक्तं प्रच्छादनमिहोच्यते ॥६०॥प्रासादादीनि सर्वेषां प्रच्छादनादिलक्षणम्उत्तरान्तत्रिकान्तं वा वलभी चोर्ध्वमेव वा ॥६१॥कपोतान्तकमेवं स्यात्तस्योर्ध्वे प्रस्तरांशकम्एतत्प्रच्छादनात्स्थाने दण्डं चोपरि शाययेत् ॥६२॥एतद्द्वारवशाद्दीर्घं तस्योपरि जयन्तिकाम्दारुदण्डं शिला वापि इष्टकेन जयन्तिकाम् ॥६३॥अथवा दारुजयन्तिश्च शिला चेत्सदण्डकम्विनादण्डं तथा कुर्यात्पाषाणं फलका न्यसेत् ॥६४॥एतत्सर्वालये कुर्याद्देवहर्म्ये विशेषतःशुद्धं मिश्रं च संकीर्णं त्रिविधं तद्वशान्न्यसेत् ॥६५॥एकद्र व्यं तु शुद्धं स्याद् द्विद्र व्यं मिश्रकं भवेत्त्रिद्र व्यैस्तु संकीर्णं तज्ज्ञात्वा कारयेत्बुधः ॥६६॥केवलं चेष्टकाहर्म्ये दारुप्रच्छादनमन्वितम्शिलाहर्म्ये शिलातौलिं कुर्यात्तत्तद्विशेषतः ॥६७॥कर्णं च पट्टिकायुक्तं मध्यं मध्यावसानकम्चतुरश्रायताश्रं वा यथा कर्मानुकूलतः ॥६८॥एकपट्टं द्विपट्टं वा त्रिपट्टोर्ध्वे तथोच्चयेत्तन्मध्ये फलकं वापि शिला तौलाजयान्तिकम् ॥६९॥लुपाकारं तु वत्कुर्याद्दलस्याकृतिः एव वाएवं गेहे प्रोक्तं मम दृष्टमर्थं तु कारयेत् ॥७०॥कुर्याद्दिशि तुलां वापि पट्टस्योपरितस्तु वातन्मध्येदेश दारुणा दण्डं कृत्वा प्रयोजयेत् ॥७१॥एतत्प्रच्छादनं गेहे प्रोक्तं मम मुनीश्वरैःअन्यवास्तुनि सर्वेषां प्रच्छादनमिहोच्यते ॥७२॥मध्ये प्रागुक्तवत्कुर्यात्तदूर्ध्वे प्रस्तरमेव चबाह्ये प्रागुक्तवत्सङ्गं प्रस्तरं तु यथोच्चयम् ॥७३॥कुर्यादधःप्रदेशे स्यान्मध्ये वृत्तमुत्तरोपरिमहाभारं तुलां वापि क्षुद्र दण्डमथापि वा ॥७४॥आधारपट्टसंयुक्तं सतुलं तु जयन्तिकम्प्रस्तरावृतमध्योर्ध्वे तुलाया छादयेत्ततः ॥७५॥तद्विधानस्य धोदेशे क्षुद्र पट्टैर्मलक्षकम्अथवा चतुरश्रैश्च कुर्यात्तत्र विशेषतः ॥७६॥तत्र पट्टैश्चतुष्कानां सन्धिर्मध्ये तु कुद्मलम्पादेषु फुल्लपद्मं च कुर्याद्युक्त्या च शोभितम् ॥७७॥मध्यरङ्गं तदुद्दिश्य चोर्ध्वेऽलङ्कार वक्ष्यतेउत्तरस्याधोदेशे तु पूर्वोक्तचरणाग्रके ॥७८॥बोधिकाकृति विज्ञात्वा स्तम्भस्यार्धाग्रदेशतःपीनकर्णोपरि प्रान्ते पालिकाकृति विन्यसेत् ॥७९॥तदूर्ध्वे नाटकाङ्गैश्च पालिका द्विगुणोन्नतम्तदूर्ध्वे मृणालिकोत्तुङ्गं नाटकोन्नत समम् ॥८०॥महाबोधिकसंयुक्तं मृणालोपरि विन्यसेत्तन्महाबोधिकाचोर्ध्वे महातौलिं न्यसेद्बुधः ॥८१॥बोध्हिका पूर्ववत्तुङ्गं तत्समं तौलिकोन्नतम्महातौलिं विना कुर्यादाधारार्थं तु पट्टिका ॥८२॥पूर्वोक्तप्रस्तराङ्गैश्च यन्मानोरम्यवर्गकम्आधारस्योपरि प्रान्ते कुर्यात्तु शिल्पिवित्तमः ॥८३॥ऊर्ध्वे प्रच्छादनं कुर्यादथवाधारवोर्ध्वकेएतत्प्रच्छादनं कुर्यात्पूर्ववत्समलङ्कृतम् ॥८४॥एवं तु चोर्ध्वालङ्कारं मध्यरङ्गे तु विन्यसेत्तत्तुङ्गं पूर्ववत्कुर्याच्छेषं युक्त्या प्रयोजयेत् ॥८५॥तद्बहिः प्रान्तभक्तीनां प्रच्छादनमिहोच्यतेप्रागुक्तमूलपादानां स्तम्भे च प्रतिपादके ॥८६॥तदूर्ध्वे चोत्तरं न्यस्य वाजनं मुष्टिबन्धनम्मृणाल वाजनं वापि चोत्तरादि यथोर्ध्वके ॥८७॥कुर्यात्तु तस्य चोर्ध्वे तु दण्डैस्तच्छ्रोणिकां न्यसेत्त्रिचतुष्पञ्चषण्मात्रं दण्डान्तरविशालकम् ॥८८॥तत्तद्द्विगुणदण्डं स्याद्युक्त्या बलवशान्न्यसेत्चतुरश्रं चतुःपट्टं तुलानामाकृतिस्तथा ॥८९॥पत्रवल्यादियुक्तं वा यथाशोभं तु कारयेत्तदूर्ध्वे जयन्तिकं स्यादन्तराले तु विन्यसेत् ॥९०॥अथवा चोत्तरा सर्वे सान्तःप्रान्तरोत्तरम्यत्तद्भक्तिवशात्सर्वं प्रस्तरं स्यात्तदन्तरम् ॥९१॥बाह्यके चोत्तरं सर्वं युक्त्या काष्ठवशान्न्यसेत्तस्यान्तः पादमध्यान्तः प्रस्तीर्यात्तु यथोत्तरम् ॥९२॥एतत्तु सर्वतोभद्र मलक्षाकृतिरिहोच्यतेतदेव कर्णवशाद्वशं प्रस्तीर्यात्तु सर्वशः ॥९३॥उत्तरैः प्रागुक्ताङ्घ्रिः स्यात्तद्वशात्परितो न्यसेत्तदेवान्तमलक्षं च कर्णयोश्चोत्तरं विना ॥९४॥इन्द्रा दियाम्यपर्यन्तं याम्यादिवरुणान्तकम्वरुणात्सौम्यपर्यन्तं सौम्यादिपूर्वकान्तकम् ॥९५॥बाह्यान्तरान्तरं च युक्त्या वंशे तु योजयेत्शेषं प्रागुक्तवत्तुल्ये बहिस्तद्वशान्न्यसेत् ॥९६॥बहिश्चावृतवारादि चोत्तरादीनि कारयेत्उत्तराद्युत्तरान्तं तु तलैर्विन्यासमीरितम् ॥९७॥बाह्ये लम्बावभक्तिश्चेद्दण्डिकोर्ध्वे लुपैस्थिरम्पूर्वोक्तमञ्चतुङ्गैर्वा यथाशोभं तु योजयेत् ॥९८॥शिलायां दारुके वापि चेष्टके वाथ कारयेत्यथाबलं यथाभारं तथा वंशादि योजयेत् ॥९९॥अन्तर्वहिश्च तत्सर्वे चोत्तरैः समता न्यसेत्अन्यथाङ्गानि सर्वेषां कायां कुर्याद्वशां नयेत् ॥१००॥उत्तरं वैपरीत्यं चेत्कर्तुः तद्वास्तुनाशनम्देवानां भूपतीनां च चोर्ध्वे मध्ये तरङ्गकम् ॥१०१॥मलक्षादिविधानं च कुर्यात्तु सम्पदांपदम्तैतलानां द्विजातीनामन्यत्सर्वं शुभावहम् ॥१०२॥इति मानसारे वास्तुशास्त्रे प्रस्तरविधानं नाम षोडशोऽध्यायः N/A References : N/A Last Updated : October 02, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP