मानसारम् - ग्रामलक्षणम्
'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे.
वक्ष्येऽहं ग्रामविन्यासं शास्त्रे संक्षेपतः क्रमात्
दण्डकं सर्वतोभद्रं नन्द्यावर्तं तु पद्मकम् ॥१॥
स्वस्तिकं प्रस्तरं चैव कार्मुकं च चतुर्मुखम्
एवं चाष्टविधं ग्रामं तत्तद्रू पेण संज्ञितम् ॥२॥
प्रथमं ग्राममानं च द्वितीयं पद विन्यसेत्
तृतीयं तद्बलिं दत्वा चतुर्थं ग्राम विन्यसेत् ॥३॥
पञ्चमं गृह विन्यस्य तत्र गर्भं विनिक्षिपेत्
षद्धं गृहप्रवेशं च तन्मानमधुनोच्यते ॥४॥
धनुर्ग्रहैश्च यद्दण्डं तद्दण्डेनार्पयेद्बुधः
पञ्चविंशतिदण्डाद्यैः द्विद्विदण्डविवर्धनात् ॥५॥
एकाधिकशतान्तं स्यान्नवत्रिंशद्विशालकम्
एवं तु दण्डकं प्रोक्तं तस्यायाममिहोच्यते ॥६॥
विस्तारात्रि! वद्विदण्डेन वर्धयेद्द्विगुणान्तकम्
यः शुभायादिकर्मार्थं दण्डहीनाधिकं तु वा ॥७॥
वानप्रस्थमिदं योग्यं क्षुद्र दण्डकमीरितम्
एकत्रिंशतिदण्डाद्ये द्विद्विदण्डेन वर्धनम् ॥८॥
सप्ताधिकशतान्तं स्यात्सप्तषट्विशालकम्
दीर्घं प्रागुक्तवत्कुर्यादेतद्दण्डक मध्यमम् ॥९॥
सप्तत्रिंशतिदण्डादि द्विद्विदण्डविवर्धनात्
त्रयोवेददशाधिक्यशतदण्डावसानकम् ॥१०॥
दण्डकं चोत्तमं पञ्चचत्वारिंशद्विशालकम्
एतत्तु दण्डकं प्रोक्तं भूसुराणां तु योग्यकम् ॥११॥
पञ्चाशद्दण्डमारभ्य द्विद्विदण्डविवर्धनात्
द्विशतं दण्डान्तकं स्यात् षट्सप्ततिविशालकम् ॥१२॥
षष्टे तु दण्डमारभ्य द्विद्विदण्डविवर्धनात्
सैकार्कत्रिंशतं दण्डात् त्रिसप्तदशविस्तृतम् ॥१३॥
युग्मायुग्मं तु दण्डेन सर्वतोभद्र मेव च
भूसुरामरयोग्यं स्यात्तदायामविशालकम् ॥१४॥
नन्दावर्त ग्राम ग्राम द्विद्विदण्डविवर्धनम्
पञ्चषष्ट्यधिकं पञ्चशतदण्डावसानकम् ॥१५॥
एव पञ्चद्विशतं विशालं परिकीर्तितम्
विस्तारायामस्तत्तुल्यो ॥१६॥
रं द्विद्विदण्डेन वर्धयेद्द्विगुणान्तकम्
नन्द्यवर्तमिदं प्रोक्तं वर्तव्यं देवभूसुरैः ॥१७॥
पद्मकनामग्रामलक्षणमुच्यते
शतदण्ड समारभ्य द्विद्विदण्डविवर्धनात् ॥१८॥
एकसहस्रदण्डान्तं विस्तारं तत् समं मतम्
परमाधिकपञ्चाशच्चतुःशतविशालकम् ॥१९॥
विप्रयोग्यं तथा पद्ममेवमुक्तं पुरातनैः
ग्रामविस्तारप्रमाणलक्षणम् ॥२०॥
स्वस्तिकविन्यासमानलक्षणमुच्यते
एकद्विशतदण्डादौ विंशदण्डविवर्धनात् ॥२१॥
द्विसहस्रेकदण्डान्तं विस्तारं परिकीर्तितम्
तस्माद्विंशतिदण्डेन वर्धयेत्तत्समाधिकम् ॥२२॥
तस्यायाममिदं प्रोक्तं स्वस्तिकं भूपयोग्यकम्
प्रस्तरविन्यासलक्षणमुच्यते ॥२३॥
त्रिशतदण्डमारभ्य शतदण्डविवर्धनात्
सहस्रद्वयदण्डान्तं प्रस्तरं विस्तृतं भवेत् ॥२४॥
सपञ्चषष्टिदण्डादौ द्विद्विदण्डविवर्धनात्
युग्मायुग्मं तथा वाऽपि दण्डं पञ्चशतान्तकम् ॥२५॥
एतत् कार्मुकविस्तारं तस्यायाममिहोच्यते
तस्मात्तु शतदण्डेन वर्धनाद्द्विगुणान्तकम् ॥२६॥
एवं तु वैश्यकानां तु योग्यं तत्कार्मुकं भवेत्
त्रिंशद्दण्डं समारभ्य त्रित्रिदण्डविवर्धनात् ॥२७॥
शतदण्डावसानं स्याद्विस्तारं परिकीर्तितम्
तत्तत्त्रित्रिद्द्विद्विदण्डेन वर्धयेद्द्विगुणान्तकम् ॥२८॥
एवं चतुर्मुखं प्रोक्तं शूद्रा णामेव योग्यकम्
मुख्यगेहप्रदेशान्तं विस्तारायाम कल्पयेत् ॥२९॥
तद्बहिः परितः कुर्यात्तस्मात्तु तदनन्तरे
दशादिशतदण्डान्तं द्विद्विदण्डेन वर्धनात् ॥३०॥
एवं ग्रामं प्रसारं च तद्बहिर्वप्रसंयुतम्
परितः परिखा बाह्ये कुर्याद्ग्रामेषु सर्वशः ॥३१॥
एतेषां ग्रामरूपाणामायादिलक्षणं तथा
नन्दायामसमूहे वा चायते वाऽथ विस्तरे ॥३२॥
परिणाहे पदे वाऽपि आयादिशुद्धं च कारयेत्
केचित्त्वायतने चैवमायं च तद्दिने भवेत् ॥३३॥
परिणाहे तित्थिर्वारं व्यययोनिश्च विस्तरे
वसुभिर्गुणितं भानुर्हान्यायमष्टशिष्टकम् ॥३४॥
अष्टाभिर्वर्धिते ऋक्षं हृत्वा शेषं क्षपिष्यते
नवभिर्वर्धयेत्पङ्क्तिः हृत्वा शेषं व्ययं भवेत् ॥३५॥
गुणनागं च योनि स्याद्वृद्धिहान्या यथाक्रमम्
नन्दवृद्ध्या ऋषिं हृत्वा तच्छेषं वारमेव च ॥३६॥
नवभिर्गुणिते त्रिंशत् क्षपेच्छेषं तिथिर्भवेत्
एवमायादिषड्वर्गं कुर्यात्तत्र विचक्षणैः ॥३७॥
आयं सर्वहरं पूर्णं व्ययं सर्वगतेन हि
आयाधिक्यं व्ययं हीनं सर्वसम्पत्करं तथा ॥३८॥
आयहीनं व्ययाधिक्यं सर्वदोषकरं भवेत्
शुभदं पूर्णनक्षत्रमशुभं कर्णऋक्षकम् ॥३९॥
युग्मायुग्माद्यतुर्यं षडष्टनन्दशुभर्क्षयुक्
द्वितीयपर्यायस्यार्थे गणनैश्च शुभावहम् ॥४०॥
सितगुरुशशिबुधवारमेवं शुभं भवेत्
शुभयोगं भवेद्यत्तु वारदोषो न विद्यते ॥४१॥
सौरवारादिवारेषु वारयुक्तम् चतुर्द्दिने
गणैस्तु विशाखादिस्वातिकान्तं क्रमात्ततः ॥४२॥
गण्डं च मृत्युयोगं च सिद्धियोगमिदं विदुः
अमावस्याष्टमीं चैव नवमीं च विवर्जयेत् ॥४३॥
अन्यथा शुभदं सर्वं तिथिरेवं प्रशस्यते
अष्टमं राशिवर्जं च अन्ये शुभराशयः ॥४४॥
गणे वासुरमानुष्यं विना अन्ये गणे शुभम्
सौरादियदि वारान्तं तत्सर्वं त्रिगुणसमम् ॥४५॥
अश्विन्यादिदिनं हृत्वा तच्छेषं नयनं भवेत्
प्रथमं चैकनेत्रं च द्वितीयं च द्विनेत्रकम् ॥४६॥
तृतीयं च इति प्रोक्तं नन्दात्षट्क्रमात् सुधी
अथ दण्डक विन्यासलक्षणं वक्ष्यतेऽधुना ॥४७॥
चतुरश्रायतं कृत्वा समतारं न विद्यते
चतुरश्रायतं वप्रं तद्वप्रायतमेव च ॥४८॥
एतत् त्रितयं वाऽपि पञ्चरथ्यामथापि च
तस्य मूलाग्रयोर्वीथीं न कुर्याद्वाऽथ कल्पयेत् ॥४९॥
तदेव तिर्यङ्मध्ये कवीथीं कृत्वा विना तथा
एकद्वित्रिचतुष्पञ्चदण्डं रथ्याविशालकम् ॥५०॥
मध्यरथ्यावृता वीथी सममेवं विधीयते
अन्येषां चान्तरथ्यानां वा तत्समं तु वा ॥५१॥
मूलाग्रयोर्द्विरथ्या च पक्षमेकं तथाश्रयम्
मुख्य वीथी द्विपक्षं स्याद्गृहतारं त्रिदण्डकम् ॥५२॥
तच्चतुष्पञ्चदण्डं वा युक्त्या तद्गृहविस्तृतम्
विस्तारद्विगुणं वाऽथ त्रिगुणं वा तदायतम् ॥५३॥
परितः परिखा बाह्ये वप्रयुक्तं तु कारयेत्
चतुर्द्वारं च संकल्प्य पूर्वादि च चतुर्दिशि ॥५४॥
उपद्वारोक्तवत्कुर्याद्विष्णुधिष्ण्यं तु पश्चिमे
तद्ग्रामस्य बहिर्वाऽपि वरुणे च पदे तथा ॥५५॥
मित्रे चैव पदे चापि विष्णुमूर्तिं यथेष्टकम्
ईशे शङ्कर संस्थाप्य पर्जन्ये चोदिते तथा ॥५६॥
अन्तर्वाऽपि बहिर्वाऽपि यथेष्टकं शिवहर्म्यकम्
एतद्दण्डकमित्युक्तं भूसुराणां तु योग्यकम् ॥५७॥
द्वादशैर्विप्रसंघं वा चतुर्विंशतिभूसुरान्
पञ्चाशद्द्विजसंघैश्च अष्टोत्तरशतं तु वा ॥५८॥
त्रिशतद्विजसंघैर्वा द्वादशं चेति मौनिनाम्
वनान्तरे पर्वते वा तथा चाश्रममीरितम् ॥५९॥
चतुर्विंशतिसंघं चेद्यतीनां ग्रामयोग्यकम्
एतत्तु नदीतीरे वा पुरमेतत्प्रकथ्यते ॥६०॥
पञ्चाशद्दीक्षितानां तु नग्रं तु प्रशस्यते
अष्टोत्तरं पञ्चाशद्गृहस्थानां तु मङ्गलम् ॥६१॥
विकरिं शतसंघैश्च कोष्ठमेवं प्रकथ्यते
अन्येषाम् विप्रसंघैश्च यथेष्टं नाम कल्पयेत् ॥६२॥
अन्यान्यनुक्तं सर्वेषां शास्त्रमार्गेण कारयेत्
सर्वतोभद्र विन्यासं लक्षणं वक्ष्यतेऽधुना ॥६३॥
चतुरश्रसमाकारं मण्डूकं पद विन्यसेत्
अथवा स्थण्डिलं वाऽपि मध्ये तद्ब्रह्ममण्डपम् ॥६४॥
अथवा देवताहर्म्यं विष्णोर्वाऽथ शिवस्य वा
तपस्विनां यतीनां च पाषण्डाश्रमिणां तथा ॥६५॥
ब्रह्मचारी तथा योगिनां संघैर्यथेच्छया
एकद्वित्रिचतुष्पञ्चरथ्या वा परितस्तथा ॥६६॥
एकपक्षान्तरथ्या च बाह्यरथ्या द्विपक्षयुक्
पैशाचान्तपदैः सर्वैस्तेन वीथीं प्रकल्पयेत् ॥६७॥
पैशाचेशान्तराले महादिक्पाल बहिरिष्यते
तत्तद्वीथी द्विपक्षं स्यान्नन्द्यावर्ताकृतिस्तु वा ॥६८॥
अथवा कृतकृत्या च कर्णयुक्तमथापि च
ईशानादिचतुष्कर्णे मठं वा मण्डपं तु वा ॥६९॥
तत्रैव सत्रशाला वा आग्नेये पानीयमण्डपम्
अन्यधर्मालयं सर्वं यथेष्टं दिशितो भवेत् ॥७०॥
अन्तरथ्ये चतुष्कर्णे गुरोरेवं मठं भवेत्
रक्षार्थं वप्रसंयुक्तं परितः परिखान्वितम् ॥७१॥
चतुर्दिक्षु महाद्वारो पद्वारमुक्तवद्भवेत्
महारथ्यामालयं कुर्यात्सर्वकर्मोपजीविनाम् ॥७२॥
दक्षिणे वैश्यशूद्रा णामालयं श्रेणिरेव च
इन्द्रे चाग्नि तयोर्मध्ये गोपालश्रेणिरेव च ॥७३॥
तद्बहिश्चैव गोशाला रक्षार्थं वप्रसंयुतम्
पितृवारुणयोर्मध्ये वस्त्रकर्मकरालयम् ॥७४॥
तद्बहिः सूचिकहर्म्यं तत्र चर्मकरालयम्
वायुवरुणयोर्मध्ये कर्मकरालयं भवेत् ॥७५॥
तद्बहिश्चालयं कुर्यान्मत्स्यमांसोपजीविनाम्
सौम्ये वायु तयोर्मध्ये श्रीकराणामालयं भवेत् ॥७६॥
तत्र वैद्यालयं वाऽपि अम्बष्ठकालयमेव च
तस्य बाह्यप्रदेशे तु वल्कलैःकर्मणालयम् ॥७७॥
तत्र तैलोपजीविनां गृहश्रेणिं प्रकल्पयेत्
ग्रामस्य वप्र तद्बाह्ये किञ्चिद्दूरोत्तरे दिशि ॥७८॥
वैष्णव्याश्चाथ चामुण्डा आलयं कारयेद्बुधः
तस्माद्दूरे तु देशे च चण्डालकुटिकान्वितम् ॥७९॥
जनावासमिदं प्रोक्तं ग्रामाद्बाह्यप्रदेशके
दक्षिणे पश्चिमे वाऽपि नैरृत्ये वाऽपि देशके ॥८०॥
स्नानपानादिकं योग्यं तडाकं कल्पयेत्ततः
शेषं तु शास्त्रमार्गेण कारयेच्छिल्पिवित्तमः ॥८१॥
नन्द्यावर्तस्य विन्यासलक्षणं वक्ष्यतेऽधुना
पूर्वोक्तदण्डमानेन विस्तारायामकल्पनम् ॥८२॥
समविस्तारमायाममायधिकमथापि वा
चण्डिताख्यपदं न्यासं मण्डूकं परिकल्पयेत् ॥८३॥
ग्रामे चायतवितारौ समे चेत्कल्पयेत्सुधीः
आयाधिकं यथा ग्रामे नन्दनन्दपदं भवेत् ॥८४॥
अथवा स्थण्डिलं न्यस्य समायाममित्यपि वा
पदं च चण्डित तन्मध्ये ब्रह्मणश्च चतुष्पदम् ॥८५॥
तद्बहिः परितो भागे दैवकं च दशांशकम्
तद्बाह्ये विंशतिपदं परितो मानुषं भवेत् ॥८६॥
तद्बहिश्चावृतांशेन पैशाचं चाष्टविंशति
एवं तु चण्डितं प्रोक्तं परमशायिकमुच्यते ॥८७॥
मध्ये नवपदं बाह्ये दैवकं षोडशांशकम्
तद्बहिर्मानुषं चैव चतुर्विंशपदं भवेत् ॥८८॥
पैशाचं बाह्यमावर्तं तद्द्वात्रिंशकं पदम्
स्थण्डिलं पदमध्ये च ब्रह्मणस्यैकमात्रकम् ॥८९॥
दैवकं चाष्टभागं स्यान्मानुषं षोडशांशकम्
तद्बहिश्च चतुर्विंशत्पदं पैशाचमेव च ॥९०॥
एषां पदैर्यथायोग्यं विन्यसेच्छिल्पिवित्तमः
तत्पैशाचपदं चोक्तं नन्द्यावर्ताकृतिर्भवेत् ॥९१॥
प्राचीरथ्योत्तराभ्य स्याद्दक्षिणायत निर्गमम्
दक्षिणावीथीपूर्वादिपश्चिमायतनिर्गमम् ॥९२॥
पश्चिमवीथी दक्षिण्यादुत्तरायत निर्गमम्
उदग्वीथी प्रतीच्यादितत्पूर्वायत निर्गमम् ॥९३॥
नन्द्यावर्तावृतावीथीमेवमूह्यं विचक्षणैः
दक्षिणोदग्द्वयोर्वाऽपि प्राक्प्रत्यग्द्वितयोपि ॥९४॥
अन्तर्वीथीनां मूलाग्रौ चैकपक्षं प्रयोजयेत्
पार्श्वयोश्च द्विविधं स्याद्द्विपक्षमुक्तं पुरातनैः ॥९५॥
एवं बाह्यवीथी स्यादन्तर्वीथिरिहोच्यते
आयते दीर्घरथ्या स्याद्विस्तारे दीर्घमेव च ॥९६॥
एकत्रिपञ्चसप्तयो वीथी पूर्वाद्द्विपक्षयुक्
एकद्वित्रिचतुष्पञ्चमार्गं वा परिकल्पयेत् ॥९७॥
एवं बहिर्गतं मार्गं तत्र पक्षं न कारयेत्
पक्षयुक्ता तु वीथी स्यात्पक्षहीनं तु मार्गकम् ॥९८॥
महामार्गं तु सर्वेषां वीथीनां कर्करीकृतम्
मध्येषां तु यथारज्जुः क्षुद्र मार्गं प्रयोजयेत् ॥९९॥
त्रिचतुःपञ्चदण्डं वा वीथीनां विस्तृतिर्भवेत्
षट्सप्ताष्टदण्डं वा नन्दपङ्क्तीशभानुषु ॥१००॥
केचिद्र थ्या विशालाश्च सर्वेषां तत्समं तु वा
महामार्गविशालं यद्वीथीनन्दसमं तु वा ॥१०१॥
महारथ्यासमं मध्ये वीथीविस्तारमिष्यते
मध्ये समं तु मध्ये मार्गमेवं विशालकम् ॥१०२॥
तदष्टांशोनमेवं वा त्रिपादं चार्धमेव वा
अन्यासां सर्ववीथीनां यथातत्सममेव वा ॥१०३॥
तत्समं वा त्रिपादं वा महामार्गं विशालकम्
तत्त्रिपादार्धं तु विस्तारं क्षुद्र मार्गविशालकम् ॥१०४॥
एवं विन्यासमुद्दिष्टं भूसुराणां तु योग्यकम्
अथाष्टाधिकं पञ्चाशदष्टोत्तरशतं तु वा ॥१०५॥
त्रिंशतैर्वप्रसंख्या च अष्टोत्तरसहस्रकम्
सहस्रत्रयवप्रं वा सहस्रैश्च चतुष्टयम् ॥१०६॥
देवमनु तु पैशाचे भूसुरान् परिपूर्णकम्
एवं मङ्गलमाख्यातं यस्तु वास्तुर्विनिर्दिशेत् ॥१०७॥
नृपवैश्यादिजातीनामेवं चेत् पुरमुच्यते
वैश्यशूद्रा दीनां योग्यमग्रहारं प्रशस्यते ॥१०८॥
एवं मर्त्यपदेनान्तः भूसुराणां गृहान्वितम्
देवमानुषपैशाचे यद्रा जगृहमेव च ॥१०९॥
तत्पैशाचपदे वैश्यशूद्र जात्यादिकालयम्
पैशाचे द्विरथ्या वा त्रिचतुष्पञ्चषदेव वा ॥११०॥
सप्तकं वा तथा रथ्या वा विशालं तथा न्यसेत्
दक्षिणे प्रथमारथ्ये वैश्यकानां तु वेश्मानि ॥१११॥
वारुणे चक्रवर्ती स्यादेवमालयस्य विधिः
अथ मित्रपदे चैव जयन्ते रुद्र जये तथा ॥११२॥
एवं राजगृहं प्रोक्तं तत्रैवं योधकालयम्
नैरृत्ये च पदे देशे श्रीकराणां तु हर्म्यकम् ॥११३॥
सामन्तप्रमुखादीनामसुरे सोष्टकेऽपि च
तत्रैवामात्यहर्म्यं स्यात्स्वाम्कालयमेव च ॥११४॥
पुरोहितालयं सुग्रीवे पुष्पदन्तपदेऽपि च
दौवारिकश्च सुग्रीवे रक्षकालयं भवेत् ॥११५॥
गन्धर्वं रोगशोषे वा वाद्यकाद्यादेरालयम्
तत्रैव गणिकादीनां नृत्तयोग्यादिरालयम् ॥११६॥
वायव्ये वा नरे वाऽपि स्थपतीनां तथालयम्
नागे चाथवा मुख्ये वा नेत्ररत्नकरालयम् ॥११७॥
उत्तरे शल्यशालाश्च कञ्चयासकालयम्
अदितिश्चोदितश्चैव वैद्यकादितथालयम् ॥११८॥
ईशे वाऽथ जयन्ते वा ग्रामरक्षिकालयम्
महेन्द्रे वाऽथ सत्ये वा कीर्णकारालयं भवेत् ॥११९॥
मृशे वा चान्तरिक्षे वा आहूयक्रमहर्म्यकम्
एवं प्रथमावरणे द्वितीयावरणमुच्यते ॥१२०॥
तैलोपजीविनां वासश्रेणितोत्तरवीथिके
तत्रैव नानाहर्म्यं स्यात्कुलालालयमेव च ॥१२१॥
मत्स्योपजीविनां वास मांसव्यापारिकादीनां च
पश्चिमे वाऽऽलयंश्रेणिः किरातानां तु दक्षिणे ॥१२२॥
आग्नेये वायवे वाऽपि रजकस्यालयं भवेत्
दक्षिणे पूर्वदेशे वा नृत्तकारालयं भवेत् ॥१२३॥
उत्तरे वा नैरृते वाऽपि सूतिकारालयं भवेत्
एवं द्वितीयावरणे तृतीयावरणोच्यते ॥१२४॥
दक्षिणे कर्मकारस्य तत्र श्रेण्यालयं भवेत्
उत्तरे चाग्निदेशे वा पेटिकारालयं भवेत् ॥१२५॥
पश्चिमे पूर्वके वाऽपि शस्त्रकर्मकरालयम्
उत्तरे चर्मकारस्य तच्छ्रेण्यालयमेव वा ॥१२६॥
अन्यथावरणाः सर्वमन्यकर्मोपजीविनाम्
एवं नरालयं प्रोक्तं देवानामधुनोच्यते ॥१२७॥
आर्यादिषु चतुर्दिक्षु ग्रामस्यापि चतुर्दिशि
एवं यथेष्टदिग्देशे विष्णुधिष्ण्यं प्रकल्पयेत् ॥१२८॥
अथवा बहिरङ्गे तु चेष्टदिग्विष्णुरालयम्
इन्द्रा दिषु चतुर्दिक्षु विष्णुस्थानं तु राक्षसे ॥१२९॥
पूर्वके श्रीधरं प्रोक्तं दक्षिणे वामनं तथा
पश्चिमे वासुदेवं वा चादिविष्णुं जनार्दनम् ॥१३०॥
उत्तरे केशवं प्रोक्तं नारायणमथापि वा
अन्तः प्रागुत्तरे देशे विष्णुमूर्तिर्यथेष्टकम् ॥१३१॥
पितृदेवेशकोणे वा यथा नृसिंहालयं भवेत्
अग्निकोणे यथा रामं गोपालालयमेव वा ॥१३२॥
मित्रे च त्रितलं कुर्यात्स्थानकं चादिभूमिके
द्वितीयं चासनं प्रोक्तं तृतीये शयनं भवेत् ॥१३३॥
अथवा स्थानकं चोर्ध्वे शयनं मूलकस्थले
इष्टदिग्विष्णुहर्म्याणां द्वारं कुर्याद्विचक्षणः ॥१३४॥
ग्रामस्याभिमुखं विष्णुं नरसिंहं पराङ्मुखम्
लक्ष्मी नृसिंहश्चैवाऽपि ग्रामस्याभिमुखो भवेत् ॥१३५॥
रुद्रं रुद्र जये वाऽपि इन्द्र श्चेन्द्र जयेषु च
आपवत्स्यापवत्स्यश्च साविन्द्र श्चा सान्द्र के ॥१३६
ईशे वाऽथ जयन्ते वा पर्जन्यस्य पदेऽपि वा
एवमीशालयं कुर्याद्ग्रामस्य तु पराङ्मुखम् ॥१३७॥
पूर्वके पश्चिमे वाऽपि तत्रैवाभिमुखं भवेत्
अन्यसकलरूपाणां हर्म्यद्वारं यथेष्टतः ॥१३८॥
स्वकर्णे वाऽपि दौवारि सुब्रह्मण्यालयं भवेत्
अथवा जिनालयं स्यात्सुगतालयमेव च ॥१३९॥
चतुर्दिक्षु विदिक्ष्वापि मध्ये वैनायकालयम्
गन्धर्व भृङ्गराजे वा भार्गकारालयं भवेत् ॥१४०॥
मुख्ये वाऽथ च भल्लाटे सारस्वत्यालयं भवेत्
अदितौ वा मृगे लक्ष्मीभवनकं स्मृतम् ॥१४१॥
तत्रैव भुवनादेवीहर्म्यमेवं प्रकल्पयेत्
यद्द्वारस्य बहिरङ्गे रक्षार्थं भैरवालयम् ॥१४२॥
राक्षसे पुष्पदन्ते वा दुर्गायाश्चापि चालयम्
तद्वामस्य बहिः सौम्ये कालिर्कोष्ठं प्रकल्पयेत् ॥१४३॥
ग्रामात्क्रीशावसानं स्यात्पूर्वे वा चोत्तरेऽपि वा
तत्र चण्डालावासः स्याच्चोत्तरे च श्मशानकम् ॥१४४॥
ग्रामस्य चोत्तरे बाह्ये प्रेतभूतांशदण्डकम्
ग्रामस्य परितो बाह्ये रक्षार्थं वप्रसंयुतम् ॥१४५॥
तद्बहिः परिखायुक्तं परितो वप्रवेदिकैः
चतुर्दिक्षु चतुष्कोणे महाद्वारं प्रकल्पयेत् ॥१४६॥
वृत्तं वा चतुरश्रं वा वास्तुस्वाकृतिवप्रयुक्
पूर्वद्वारमथैशाने चाग्निद्वारं तु दक्षिणे ॥१४७॥
पितुर्द्वारं तु तत्प्रत्यग्वायोर्द्वारं तथोत्तरम्
पूर्वपश्चिमयोर्द्वारौ तत् सूत्रं तु योजयेत् ॥१४८॥
दक्षिणोत्तरयोर्द्वारौ तत्र देशे विशेषतः
दक्षिणोत्तरकं सूत्रं विन्यसेच्छिल्पिवित्तमः ॥१४९॥
तस्य सूत्रान्ततत्पूर्वे हस्तं तद्द्वार मध्यमे
एवं दक्षिणतो द्वारं तद्धि वारौ यथोक्तवत् ॥१५०॥
उत्तरे द्वार तत्सूत्रात्प्रत्यग्घस्तावसानकम्
चतुर्दिक्षु चतुर्द्वारं युक्तं वा नेष्यते बुधैः ॥१५१॥
पूर्वे पश्चिमके वाऽपि द्वारमेतत् द्वयोरपि
परितश्चतुरश्राग्राद्द्वारं कुर्यात्तु सर्वदा ॥१५२॥
एतत्सर्वं महाद्वारमुपद्वारमिहोच्यते
नागे वाऽपि मृगे वाऽथादितिश्चोदितोऽपि वा ॥१५३॥
पर्जन्ये वाऽन्तरिक्षे वा पूषे वा विथतेऽवा
गन्धर्वे भृङ्गराजे वा सुग्रीवे वाऽसुरेऽथवा ॥१५४॥
यथेष्टमेवमुपद्वारं कुर्यात्तल्लक्षणोक्तवत्
मुख्यके वाऽथ भल्लाटे मृगे चोदितोऽथवा ॥१५५॥
जयन्ते वा महेन्द्रे वा सत्यके वा मृशेऽथवा
एवमेवं जलद्वारं कुर्यात्तत्र विचक्षणः ॥१५६॥
ब्रह्मणे वाऽग्निदेशे वा मित्रे वा मण्डपं भवेत्
भूधरे चासुरे वाऽपि सभास्थानं प्रकल्पयेत् ॥१५७॥
नन्द्यावर्तमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः
पद्माख्यं वास्तुविन्यासलक्षणं वक्ष्यतेऽधुना ॥१५८॥
दीर्घमायसमं कृत्वा बाह्ये वप्रं सुवृत्तकम्
चतुरष्टाश्रकं वाऽपि षडश्रं वा विधीयते ॥१५९॥
चण्डितं स्थण्डिलं वाऽपि यथेष्टं पद विन्यसेत्
शूलषट्घ्रांति राज्ये च नरालयं प्रकारयेत् ॥१६०॥
तद्देशे सदा स्थाप्यं मण्डपं वा सभा भवेत्
बहिः सर्वरथ्येषु पक्षैरावर्तकेषु च ॥१६१॥
चतुःपञ्च च षट् सप्त चाष्टकं वाऽथ वीथिका
मध्ये वीथिं विना कुर्याच्चतुर्दिग्द्वारकल्पनम् ॥१६२॥
एवं तु पद्मविन्यासं शेषं प्रागुक्तवन्नयेत्
स्वस्तिकस्यापि विन्यासलक्षणं वक्ष्यतेऽधुना ॥१६३॥
यत्तदायामविस्तारे न्यसेत्परमशायिकम्
तत्पैशाचपदे चैव रथ्या तत्परितस्तथा ॥१६४॥
तस्यान्तः स्वस्तिकाकारं विन्यसेच्छिल्पिवित्तमः
प्राक्प्रत्यक् च समायामं वास्तुमध्ये तु वीथिका ॥१६५॥
दक्षिणोत्तरमायामं पूर्वमध्ये तु वीथिका
वीथीम् एतद्द्वयं प्रोक्तं तन्मध्ये कर्करीकृतम् ॥१६६॥
उदीच्यां दिशि पर्यन्तं प्राङ्मुखायतवीथिका
प्रागादीशाग्निपर्यन्तं दक्षिणायतवीथिका ॥१६७॥
दक्षिणादिनैरृतान्तं पश्चिमायतवीथिका
पश्चिमाद्वायुपर्यन्तमुत्तरायतवीथिका ॥१६८॥
एतत्तु चतु रथ्याग्रादावृता वीथिका ततः
एवं तु स्वस्तिकवीथी लाङ्गलाकारवद्भवेत् ॥१६९॥
मध्ये वीथीद्वयोग्रे तस्य मूलद्वयं बुधैः
चतुर्दिक्षु चतुष्कर्णे चतुर्दिक्षु चतुर्मुखम् ॥१७०॥
पूर्वोक्तं मध्यरथ्यान्तं चतुष्कर्णावसानकम्
इन्द्रा दीशानपर्यन्तं मध्यं सोमावसानकम् ॥१७१॥
तत्तयोर्मध्यदेशे तु प्राक्प्रत्यक् दिग्गतायतम्
बाह्येन्द्रा नलयाम्ये तद्द्वयोर्मध्यदेशके ॥१७२॥
दक्षिणोत्तरयोर्दीर्घा वीथीरेतत् प्रकल्पयेत्
ब्राह्म्यां याम्याश्च नैरृत्यां वारुणान्तःप्रदेशकम् ॥१७३॥
पूर्वपश्चिमदीर्घा च वीथीरे वं तु कारयेत्
वायुवारुणसोमेतु ब्रह्मणान्तं पदे तथा ॥१७४॥
दक्षिणोत्तररथ्यं तत्तत्संख्या यथेष्टकम्
एवं वीथी द्विपक्षं स्यान्मध्यरथ्ये न पक्षकम् ॥१७५॥
तस्य मूलाग्रेयो देशे क्षुद्र मानं प्रकारयेत्
बाह्यवीथी द्विपक्षं स्यात्तद्बहिश्चावृतं बुधैः ॥१७६॥
वप्रांशभित्तिरक्षार्थं परितः परिखान्वितम्
स्वस्तिकाग्रं चतुर्दिक्षु द्वारं तेषां प्रकल्पयेत् ॥१७७॥
एवं चाष्टमहाद्वारं दिक्षु दिक्षु द्वयं ततः
मृगे चैवान्तरिक्षे वा भृङ्गराजमृशे तथा ॥१७८॥
शोषे वाऽपि च रोगे वा चादितिश्चोदितेऽपि वा
एवमेतदुपद्वारं कुर्यात्तत्र विचक्षणः ॥१७९॥
महाद्वारं तु सर्वेषां लाङ्गलाकारसन्निभम्
कपाटद्वयसंयुक्तं द्वाराणां तत्पृथक् पृथक् ॥१८०॥
अन्तर्वप्र बहिर्भित्तिश्चेष्ट दिगाता चूलिका
यक्षरुद्रा दिकैः सर्वैर्नटैश्चाद्यभययन्त्रकैः ॥१८१॥
सालान्तं वेदिकोर्ध्वे तु युद्धार्थं कल्पयेत् सुधीः
नानाजातिभिराकीर्णं स्वस्तिकं राजयोग्यकम् ॥१८२॥
एवं तु स्वस्तिकं प्रोक्तं स्थानीयादिषु कारयेत्
चतुर्दिक्षु विदिक्ष्वेव मध्ये वा राजवेश्मकम् ॥१८३॥
मध्ये ब्रह्मपदं त्यक्त्वा आर्यादौ च चतुष्पदे
यथेष्टं राजसदनं स्थानीये सर्वभूमिकम् ॥१८४॥
आगते वारुणे वेश्म संग्रामे च यमे पदे
विजये सौम्यदेशे च तथेन्द्र जयेऽपि वा ॥१८५॥
स्थानीये चाधिराजस्य मित्रे वारुणे एव च
आगते स्वस्वते चापि संग्रामे चापि सौम्यके ॥१८६॥
विजये चार्कभागे वा चेन्द्र स्थाने गृहं भवेत्
स्थानीयेऽपि नरेन्द्र स्य वेश्म मित्रपदेऽपि वा ॥१८७॥
विवस्वति पदे वाऽपि तथैवार्यपदेऽपि वा
आगते तु नरेन्द्र स्य संग्रामे चेन्द्र राजके ॥१८८॥
विजये रुद्र राजश्च सदनं कल्पयेत्सुधीः
पार्ष्ण्यकादिभूपानां स्थानीयादिचतुष्टये ॥१८९॥
आर्यादिषु चतुर्दिक्षु नैव कुर्यात्तु विश्वतः
एवमेव प्रशस्तव्यं शिल्पिशास्त्रोक्तवत्कुरू ॥१९०॥
मित्रे च वारुणे चापि विवस्वेन्द्र महेन्द्र के
एवं तु विष्णुधिष्ण्यं स्यात्स्थानीयादिचतुष्टये ॥१९१॥
इन्द्रे चेन्द्र जये वाऽपि रुद्रे रुद्र जयेऽपि वा
आपवत्सापवत्सयोरपि चैशे वाऽपि जयन्तके ॥१९२॥
एवमीशालयं प्रोक्तं कुर्याद्देवं बहिर्मुखम्
बौद्धं वायुपदे चैव नैरृत्ये तु जिनालयम् ॥१९३॥
भृङ्गराजे वितथे वा हर्म्यं कुर्यात्तु नागरे
चतुर्दिक्षु बहिर्द्वारं पार्श्वे च भैरबालयम् ॥१९४॥
चतुर्दिक्षु विदिक्ष्वपि दुर्गाङ्गं गणपालयम्
सुग्रीवस्य पदे चैव षण्मुखस्यालयं भवेत् ॥१९५॥
अग्निं पूषपदे वाऽपि ज्वरदेवालयं भवेत्
आदित्ये तु पदे वाऽपि भास्करस्यालयं भवेत् ॥१९६॥
सौम्यके वाऽपि मुख्ये वा भुवनेशालयं भवेत्
तत्तत्पदे मध्ये तु विष्णुरुद्रा लयं भवेत् ॥१९७॥
एतानि स्थानानि परितो नराणां सदनं भवेत्
अन्तर्वीथी चैकपक्षं बाह्यवीथी द्विपक्षकम् ॥१९८॥
एवमालयवास्तु स्यद्बाह्ये पक्षाभिरक्षणात्
एवमन्तर्गतान्देवान् बहिरङ्गे यथेच्छया ॥१९९॥
शुद्धा चैव प्रतिष्ठा चेल्लिङ्गपाशुपतं तथा
नगर्यां तत्प्रतिष्ठे तु चोक्तवत्स्थापनं भवेत् ॥२००॥
अन्येषां सर्वलिङ्गानां नगराणां बहिरङ्गतः
वैखानसप्रतिष्ठा चेदन्तस्थापनमिष्यते ॥२०१॥
विष्णुदेवैरिति प्रोक्तं पाञ्चरात्रं बहिर्भवेत्
दुर्गां गणपतिं चैव बौद्धं जैनं गतालयम् ॥२०२॥
अन्येषां षण्मुखादीनां स्थापयेन्नगराद्बहिः
तत्तद्देवालयं वाऽपि कुर्याद्दोषो न विद्यते ॥२०३॥
अपि सर्वेषु नगरेषु संस्थापनमिष्यते
नगरस्य बहिश्चोदक्पूर्वे वाऽप्यतिदूरतः ॥२०४॥
चामुण्डालयं कुर्यादुत्तराभिमुखं तथा
तस्य देवालयात्पूर्वे चण्डालकुटिकान्वितम् ॥२०५॥
पूर्वे चोत्तरदेशेऽथ पश्चिमे वाऽथ नैरृते
नगरात्तु बहिर्देशे तत्सेनालोकनार्थकम् ॥२०६॥
उत्तुङ्गवेदिकाचोर्ध्वे चोक्तवन्मण्डपं भवेत्
शेषं प्रागुक्तवत्कुर्याद्युक्त्या च शिल्पिवित्तमः ॥२०७
प्रस्तरस्य तु विन्यासलक्षणं वक्ष्यतेऽधुना
आयतं वा समं वाऽपि प्रस्तरस्याकृतिस्तथा ॥२०८॥
नृपाणां वाऽथ वैश्यानां योग्यमुक्तं पुरातनैः
नन्दनन्दपदं वाऽपि चण्डितं स्थण्डिलं तु वा ॥२०९॥
तद्यथेष्टपदं शिल्पि ग्रामे च परिकल्पयेत्
पैशाचेऽथपदे चैव महारथ्या द्विपक्षयुक् ॥२१०॥
एतत्तु परितः कुर्यात्तस्यान्तः प्रविष्टके
पेचकं वाऽथ पीठं वा रथ्यायुक्तं तु विन्यसेत् ॥२११॥
अथवा तन्महापीठे तत्र संयुक्तवीठिका
पूर्वपश्चिममायामं दक्षिणोत्तरदीर्घकम् ॥२१२
तन्मध्ये वैकवीथी स्यात्पैशाचाख्ये पदे बुधः
कृत्वा पीठपदे चैक मध्ये वीथीं न कारयेत् ॥२१३॥
पूर्ववद्दिक्षु चायामं द्विद्विरथ्यां प्रकल्पयेत्
महापीठपदे रथ्या दिक्षु दिक्षु त्रयं तथा ॥२१४॥
तेषामेव महारथ्यास्तस्मिन् विस्तारमुच्यते
षट्सप्ताष्टकदण्डं वा नन्दनाटकरुद्र कम् ॥२१५॥
एतत्सर्वं महावीथीविस्तारः परिकीर्तितः
यत्पदे तत्पदं ज्ञात्वा तत्तत्प्रत्येक तत्पदे ॥२१६॥
पुराकृतं पदं न्यस्य रथ्यान्तं परिकल्पयेत्
तत्पैशाचपदे देशे वावृता वीथिका भवेत् ॥२१७॥
तद्र थ्यान्तः प्रदेशे तु प्रागुदगायते तथा
त्रिपञ्चसप्तरथ्या वा अष्टमं च वन्धं भवेत् ॥२१८॥
एकद्वित्रिचतुर्वाऽपि तिर्यङ्मार्गं तथैव च
चतुष्कोष्ठं तु युक्तं चेच्चतुष्कं चैकाष्टसन्धिभिः ॥२१९॥
नवकोष्ठकयुक्तं चेच्चतुष्कं च चतुष्टयम्
सन्ध्याष्टकसमायुक्तं सन्धिभिर्द्वादशैर्युतम् ॥२२०॥
चतुष्कं नवकं कुर्याद्देवमन्तःप्रदेशके
तत्तत्प्रकोष्ठके प्रत्यक् प्रत्यग्ग्रामाकृतिस्तथा ॥२२१॥
प्रागुक्तवत्प्रदेशे तु देवतास्थापनं बुधैः
मण्डपादि च भूपानां वेश्म कुर्यात्तु पूर्ववत् ॥२२२॥
तत्तद्ग्रामान्तरे देशे वैश्यसंघैस्तदालयम्
तत्तत्पैशाचकपदे सर्वं कार्योपजीविनाम् ॥२२३॥
महारथ्यायताः सर्वे क्रयस्य विक्रयस्य च
तत्रैव द्वयपक्षं स्यान्महारादवासं युतम् ॥२२४॥
बाह्ये प्राकारसंयुक्तं परितः परिखान्वितम्
महारथ्यावशात्तेषां महाद्वारं प्रकल्पयेत् ॥२२५॥
चतुर्भिस्तुष्टकं वाऽपि द्वादशद्वारमेव च
शेषं तु पूर्ववत्कुर्यात्प्रस्तरेत् तन्त्रवित्तमः ॥२२६॥
ग्रामकार्मुकविन्यासलक्षणं वक्ष्यतेऽधुना
विस्तारसममायाममायाधिकमथाऽपि वा ॥२२७॥
पत्तनं वा खेटकं वा खर्वटं वा प्रकल्पयेत्
पत्तनं वैश्यसंघं स्याच्छूद्र संघं तु खेटकम् ॥२२८॥
प्रथुलोमं च संघं स्यात्खर्वटं तत्प्रकीर्तितम्
नदीतीरेऽब्धितीरे वा कार्मुकं च विन्यसेत् ॥२२९॥
रथ्याद्यैश्चैकसन्धिः स्यात्पश्चिमोन्तर्गतस्तथा
दक्षिणे पूर्वके रथ्यामुत्तरे पूर्वकेऽपि च ॥२३०॥
दक्षिणे पश्चिमे वाऽपि रथ्या क्षेत्रवशाद्बुधः
तद्द्वयोर्वीथि बाह्ये तु कार्मुकाकारवत्पृथक् ॥२३१॥
एकद्वित्रिचतुष्पञ्चवीथिरेवं प्रकल्पयेत्
रथ्या सर्वा द्विपक्षं स्यात्तिर्यङ्मार्गं यथेच्छया ॥२३२॥
चतुर्दिक्षु पृथक् प्राज्ञश्चोक्तवत्पद विन्यसेत्
ग्रामाकारवशात्सर्वं कारयेच्छास्त्रवित्तमः ॥२३३॥
स्थापयेदीश्वराद्यैः देवैः प्रागुक्तदेशतः
यथेष्टद्वारसंयुक्तं वप्रयुक्त्या विनाऽथवा ॥२३४॥
यत्तु रथ्याद्वयोर्मध्ये विष्णुस्थानं प्रकल्पयेत्
एतद्ग्रामस्य सन्धिश्चेत्तद्देशे शङ्करालयम् ॥२३५॥
रथ्याविरहितस्थाने विष्णोर्वाऽपि शिवालयम्
विष्णुर्निरीक्षणं वास्तुवारात्पराङ्मुखे शुभम् ॥२३६॥
एवं तु कार्मुकं प्रोक्तं शेषं प्रागुक्तवद्भवेत्
चतुर्मुखं ग्राम विन्यासलक्षणं वक्ष्यतेऽधुना ॥२३७॥
चतुरश्रसमाकारमायामं वा प्रकल्पयेत्
प्राकारं चतुरश्रं वा प्राक्प्रत्यग्गतायतम् ॥२३८॥
परितस्तु महावीथिर्वीथिरेषा द्विपक्षयुक्
अन्तश्चतुष्पदं मध्ये वीथिकाग्रं चतुर्दिशि ॥२३९॥
तच्चतुर्वीथिकाग्रौ च चतुर्द्वारं प्रकल्पयेत्
एकतस्तु महाद्वारमुपद्वारं तु पूर्ववत् ॥२४०॥
तत्तच्चतुःक्षुद्र वीथिं संकल्प्य च यथेष्टकम्
परितस्तु महारथ्ये चालयं सर्वजातिनाम् ॥२४१॥
अन्तश्च शूद्र संघः स्यादालयं परिकल्पयेत्
अथवा विप्रसंघश्चेत्पद्ममेव प्रकल्पयेत् ॥२४२॥
अथवा वैश्वसंघश्चेत्कोलकोत्ममुदीरितम्
केचिच्चतुष्पदे सर्वे द्विजानामालयं भवेत् ॥२४३॥
आग्नेये विप्रसंघश्चेन्नैरृते नृपसंकुलम्
वायव्ये वैश्यसंघश्चेत्सद्मे चेदीशदिशके ॥२४४॥
तत्पैशाचपदे चैव सर्वकर्मोपजीविनाम्
विष्णुरुद्रा दिदेवानां गृहं कुर्यात्पुरोक्तवत् ॥२४५॥
उक्तानुक्तं तु सर्वेषां कुर्यात्प्रागुक्तवद्भवेत्
एवं चतुर्मुखं प्रोक्तं ग्रामं तेषां पुरातनैः ॥२४६॥
रथ्याविरहितस्थाने कुर्याच्चोक्तं नरालयम्
रथ्ये नरालयश्चेत्सर्वसंपद्विनाशनम् ॥२४७॥
तस्मात्परिहरेच्छिल्पी नगरग्रामादिवास्तुके
अथ पौराणिके ग्रामे संदिग्धे वास्तु निर्णयेत् ॥२४८॥
रक्षितो ग्रामविन्यासं शास्त्रे युक्तं विशेषतः
पुरातनेषु ग्रामेषु देवता चोत्सवार्थकम् ॥२४९॥
निर्वास्तु यत्र तत्र स्याद्वास्तुनिर्णयमिष्यते
पौराण्यां देवताहर्म्यं सर्वथाऽपि न कारयेत् ॥२५०॥
तस्मात्तदनुसारेण कुर्यात्तद्वास्तुनिर्णयम्
ग्रामप्रदक्षिणकाले चाष्टदिक्पालके पदे ॥२५१॥
सम्यक् प्रदक्षिणं कुर्याद्भूसुरादिसुरेश्वरैः
मार्गाभावेऽथवा वास्तुदिक्पालानां प्रदेशके ॥२५२॥
दिक्पालानां बलिं सम्यक् कुर्याद्ब्रह्मकदेशके
संप्राप्य दर्शनं कृत्वा ततः पश्चान्निवर्तयेत् ॥२५३॥
यत्र प्रदक्षिणं हीनं तत्र दोषो न विद्यते
न बलिस्थान रथ्ये च कुर्याद्वास्तुप्रदक्षिणम् ॥२५४॥
अज्ञानात्प्रवणं कुर्यात्सर्वदोषसमुद्भवम्
ग्रामेष्वपि च सर्वेषु एवमुक्तं पुरातनैः ॥२५५॥
यत्र रथ्याग्रमूले वा मध्ये वा चान्तरालके
उक्तस्थानेऽथवा कुर्यादथ देवालयं तथा ॥२५६॥
पक्षान्तरेऽथवा कुर्यात्तस्यावृत्त नरालयम्
अज्ञानात्पूर्वहर्म्यादीन् त्यक्त्वा चेत्कर्तृनाशनम् ॥२५७॥
तस्मात्पौराणिकं देवसदनं युक्तं कारयेत्
रथ्या सर्वे यथापार्श्वे क्षत्रकायाकृतिर्भवेत् ॥२५८॥
गृहाणां दक्षिणावर्तवेशनद्वारकल्पनम्
ग्रामे प्रस्तुतानां च गृहे द्वारं विशेषतः ॥२५९॥
वीथिपार्श्वे गृहायामे नन्दभागविभाजिते
अन्तस्थितिर्बहिः पार्श्वे दक्षिणे पञ्चभागिकम् ॥२६०॥
वामे चतुर्गुणांशः स्याच्छेषं तु द्वारकल्पनम्
अथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत् ॥२६१॥
पुराणेन पुराने वा कुर्यात्तत्र विचक्षणः
दण्डकादिषु सर्वेषु वास्तुविन्यासयोजनम् ॥२६२॥
पूर्वे चोत्तरे दिक्षु वृद्धिः स्यात्सम्पदास्पदम्
दक्षिणे पश्चिमे दिक्षु ग्रामान्न्यूनं शुभावहम् ॥२६३॥
परितस्तु प्रवृद्धिः स्यात्पूर्वमानं न हीनकम्
देशकालाविनिर्देशे पौराण्यमिति कथ्यते ॥२६४॥
वीथीनां पार्श्वयोर्देशे वीथिकाद्यैरलङ्कृतम्
एकाद्यर्कतलं स्थलं स्यात्कारयेत्तद्यथेच्छया ॥२६५॥
निम्नोन्नतं तु तत्सर्वं हर्म्यमेवं समोन्नतम्
प्रभूतालयसर्वेषां चाधिकोन्नतमेव च ॥२६६॥
क्षीणजात्यालयं सर्वं चैकभौमावसानकम्
एवं तु चोक्तवत्कुर्यात्सर्वसम्पत्करं शुभम् ॥२६७॥
कन्यकादिधनरत्नसंग्रहं शालिभूमिगृहदासिवाहनम्
शिल्पिनां च गुरवे निवेदयेत्कर्तृभक्तिवरदहस्ततोवभृत् ॥२६८॥
लाभात्कुर्यादुक्तसंमान हीनं कर्ता यावद्भुमिचन्द्रं पतेत्स
तस्मात्कर्ता चोक्तसंमानजालं सर्वैर्श्वर्यं काम्यसिद्धिः लभ्येत ॥२६९॥
इति मानसारे वास्तुशास्त्रे ग्रामलक्षणविधानं नाम नवमोऽध्यायः
N/A
References : N/A
Last Updated : October 01, 2022
TOP